सुव्रत उवाच :-
एक दा शिवरामस्तं विप्रवर्यो नराधिप ! पप्रच्छ प्राञ्जलिर्नत्वा नारायणमृषीश्वरम् ।।१।।
ब्राह्मण उवाच :-
भगवञ्छ्रोतुमिच्छामि नणां धर्मं सनातनम् । त्वमेव सर्वधर्मज्ञो धर्ता धर्मस्य च प्रभो ! ।।२।।
बुधैरपि सुदुर्ज्येयो धर्मोऽयं सामवेदवत् । केवलं त्वां समाश्रित्य वर्तते सर्वथा हि सः ।।३।।
यदा यदा तु भवति ग्लानिस्तस्यात्र भूतले ।तदा तदाऽवतीर्य त्वं सम्यक्पासि तमच्युत ! ।।४।।
वक्ता कर्ताऽविता चास्य नान्यस्त्वत्तोऽत्र विद्यते । न स्वर्गे न च पाताले न च ब्रह्मसदस्यपि ।।५
तस्मात्त्वमाश्रमैः साकं वर्णानां च पृथक् पृथक् । वक्तुमर्हसि सद्धर्मानितरेषां नणां च मे ।।६
सुव्रत उवाच :-
इति ब्राह्मणवर्यस्य प्रश्नं सर्वहितावहम् । श्रुत्वा स भगवानूचे प्रसन्नो धर्मरक्षकः ।।७
श्रीनारायणमुनिरुवाच :-
नैःश्रेयसकरो नणां ब्रह्मन् ! प्रश्नकृतस्त्वया । ततः सनातनान् धर्मो नार्षवाक्यैर्वदामि ते ।।८
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात्स्वयंभूरिति गीयते ।।९
धर्मा वेदेन ये प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः । प्रोक्तास्त एव स्मृतिषु प्रमाणं तास्ततः स्मृताः ।।१०
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।।११।।
मन्वत्रिविष्णुहारीतयाज्ञावल्क्याङ्गिरोयमाः । व्यासापस्तम्बसंवर्ताः कात्यायनबृहस्पती ।।१२।।
पराशरोशनःशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्तकाः ।।१३।।
सन्ति चान्येऽपि मुनय एतद्धर्मानुसारिणः । तदुक्तान्यपि शास्त्राणि प्रमाणत्वेन गम्यताम् ।।१४।।
एतेषामुक्तिमात्रस्य प्रामाण्ये सत्यपि द्विज ! । युगानुरूपो बोद्धव्यो विशेषः खलु सर्वदा ।।१५।।
कृते तु मानवा धर्मास्त्रेतायां गौतमा हिताः । द्वापरे शाङ्घलिखिताः कलौ पाराशराः स्मृताः ।।१६।।
तेभ्योऽपि मोक्षधर्मोक्ता श्रीमद्बागवतोदिताः । भगवग्दीतया चोक्ता धर्माः श्रेयस्कराः कलौ ।।१७।।
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ।।१८।।
स षड्विधौ वर्णधर्मो धर्म आश्रमिणां तथा । धर्मो वर्णाश्रमाणां च गौणो नैमित्तिकस्तथा ।।१९।।
साधारण इति प्रोक्तः षोढा तद्बेदवेदिभिः । लक्षणान्यपि चैतस्य सङ्क्षेपेण वदामि ते ।।२०।।
वर्णत्वमेकमाश्रित्य यो धर्मः सम्प्रवर्तते । वर्णधर्मः स तु प्रोक्तो यथोपनयनादिकम् ।।२१।।
आश्रमं तु समाश्रित्य धर्मो यः सम्प्रवर्तते । स खल्वाश्रमधर्मो हि भिक्षादण्डादिको यथा ।।२२।।
वर्णत्वमाश्रमत्वं च योऽधिकृत्य प्रवर्तते । स वर्णाश्रमधर्मस्तु मौञ्जयादिर्मेखला यथा ।।२३।।
यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते । यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ।।२४।।
निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्तते । नैमित्तिकः स विज्ञोयः प्रायश्चित्तविधिर्यथा ।।२५।।
वर्णानामाश्रमाणां च सर्वेषां यः समो भवेत् । स हि साधारणो धर्मस्त्वहिंसादिर्यथा द्विज ! ।।२६।।
धर्म आचरितः शुद्धे देशे स्यात्फलदायकः । स एवाशुचिदेशे तु कृतोऽप्यकृतवद्बवेत् ।।२७।।
मृगः कृष्णश्चरेद्यत्र स्वभावात्तु महीतले । स पुण्यदेशः कथित आर्यावर्तश्च पुण्यभूः ।।२८।।
यत्र यत्र हरेर्भक्ता भवेयुः शुद्धचेतसः । क्षेयः स स पवित्रो वै देशो धर्मक्रियोचितः ।।२९।।
कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः । धर्मः सम्प्राप्यते ह्येष श्रद्धाहीनैः सुरैरपि ।।३०।।
तच्छ्रद्दधानैर्नियमेन धर्मः संवर्धनीयः पुरुषैः सुदेशे ।भवेत्सहायी परलोक एष ध्रुवं नतु ज्ञातिधनादयोऽन्ये ।।३१।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे षड्विधधर्मलक्षणनिरूपणनामा प्रथमोऽध्यायः ।।१।।