चतुर्दशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


जीविकावृत्तयः पूर्वं कथीता या मयाऽनघ ! । ताभिरेव समुत्पाद्य द्रव्यं कुर्वीत सद्वययम् ।।१।।

समाश्रित्य द्विजो नित्यं स स्ववर्णानुसारिणीम् । वृत्तिं सम्पादयेद्द्रव्यं नीचसेवां तु नाचरेत् ।।२।।

गृहस्थस्य शिलोञ्छं च शालीनं सञ्चयस्तथा । वार्ता चेति चतस्रोऽत्र जीविकावृत्तयो मताः ।।३।।

उत्तरामुत्तरां हीनां तासु विद्याद्द्विजत्तमः । देशकालौ स्वसामर्थ्यं दृैकां वृत्तिमाश्रयेत् ।।४।।

क्षेत्रपत्यक्तकणिशकणादानं शिलोञ्छनम् । अयाचितं तु शालीनं सञ्चयो याजनादिकम् ।।५।।

वार्ता कृष्यादिका वृत्तिः प्रोक्ताः सामान्यतस्त्विमाः । तथा विद्याप्रकर्षोऽपि द्रव्यं प्रापयति भृशम् ।।६

हव्यकव्यप्रदानैश्च नियमाभ्यासतस्तथा । प्रसन्ना देवता द्रव्यं ददत्येव भृशं क्व चित् ।।७।।

मणिस्वर्णाद्याकरेभ्यः क्व चिच्च प्राप्यते धनम् । ब्रह्मर्षीणां प्रसादेन क्व चिदाकस्मिकं तथा ।।८।।

एतत्सर्वं गृहस्थस्य द्रव्यं न्यायागतं मतम् । धर्मकार्येष्वेतदेव विहितं द्रव्यमुत्तमम् ।।९।।

क्षत्रियस्य नरेन्द्रस्य राजनीत्यागतं धनम् । धर्मोपयुक्तं कथितं नान्यदित्यपि विद्धि भोः ।।१०।।

कुटुम्बपोषणाशक्तः स्ववृत्त्योत्तमया यदा । स्वावरस्य तदा वृत्तिं गृीयान्न त्वनापदि ।।११।।

तत्रापि ब्राह्मणो हिंस्रां क्षात्रवृत्तिं विहाय च । वैश्यवृत्तिं भजेदेव सीदन्राजाऽपि तां भजेत् ।।१२।।

सीदन्वैश्यश्च शूद्रस्य भजेद्वृत्तिं स चापदि । कार्वादिवृत्तिमाश्रित्य तरेदापदमात्मनः ।।१३।।

सर्वोऽप्यापद्विनिर्मुक्तः प्रायश्चित्तं विधाय च । स्वां स्वामेवोत्तमां वृत्तिं पुनः सम्यगुपाश्रयेत् ।।१४।।

कलौ युगेऽत्र विप्राणां क्षत्रियाणां च मानद ! । स्ववर्णवृत्त्योत्तमया निर्वाहो नैव सम्भवेत् ।।१५।।

वैश्यवृत्तिं समाश्रित्य कुटुम्बातिथिपोषणम् । कुर्वीयातां ततस्तौ तु धर्मकार्येषु तत्परौ ।।१६।।

कृषेरभावे वाणिज्यं तदभावे कुसीदकम् । कष्टां पापीयसीं वृत्तिं कुसीदं ब्रह्मणस्त्यजेत् ।।१७।।

कुत्सितात्सीदश्चापि निर्विशङ्कैः प्रगृह्यते । यतुर्गुणं चाष्टगुणं कुसीदाख्यमतः स्मृतम् ।।१८।।

उत्तमर्णाद्धनं क्व पि विप्रः प्राणापदं विना । गृीयान्नैव धर्मार्थं न च कामसुखाप्तये ।।१९।।

निर्धनस्य गृहस्थस्य ब्राह्मणस्य विशेषतः । नोत्तमर्णसमं दुःखमन्यत्किञ्चन विद्यते ।।२०।।

पञ्चमेऽहनि षष्ठे वा शाकपत्राशनं वरम् । न तूत्तमर्णकदनं नृपतेरपि कर्हिचित् ।।२१।।

वैश्यवृत्तिष्वतस्त्वेकां ब्राह्मणः कृषिमाश्रयेत् । कलौ युगे स्वया वृत्त्या कुटुम्बं पातुमक्षमः ।।२२।।

द्विजोत्तमस्यापदि वैश्यवृत्तिः स्वजीविकार्थं विहितोत्तमैव । 

नारायणो नारदमेवमाह स्कान्दे पुराणे द्विजवर्य ! पूर्वम् ।।२३।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु जीविकावृत्तिनिरूपणनामा चतुर्दशोऽध्यायः ।।१४।।