सुव्रत उवाच :-
इति श्रुत्वा हरेर्वाक्यं प्राप्तं संशयमात्मनि । पप्रच्छ तं स नृपते ! ब्राह्मणस्तत्प्रियः पुनः ।।१।।
ब्राह्मण उवाच :-
ब्राह्मणस्य कृषिः पूर्वं निषिद्धा भगवंस्त्वया । पुनश्च विहिताऽत्रेति संशयं छिन्धि मे प्रभो ! ।।२।।
श्रीनारायणमुनिरुवाच :-
ब्राह्मणस्य निषिद्धं हि कृषिकर्म न संशयः । अनन्यगतिकत्वात्तत्साम्प्रतं विहितं द्विज ! ।।३।।
न शिलोञ्छादिवृत्तिर्हि शक्याऽस्त्याचरितुं कलौ । न च यज्ञारुचिर्लोको नाध्येताऽपि धनी क्वचित् ४
न च कश्चिद्विशुद्धोऽत्र दाताऽपि पुरुषो भुवि । कृषिस्ततोऽभ्यनुज्ञाता पराशरमुनेर्मतात् ।।५।।
शूद्रवृत्तिं भजेद्विप्रो नीचाद्वापि प्रतिग्रहम् । कुर्यात्ततः कृषिरियं प्रोक्ता श्रेयस्करी मया ।।६।।
कृषिलब्धेन धान्येन पितन्देवांश्च ब्राह्मणान् । पूजयेत्तेन ते तुष्टास्तद्दोषं नाशयन्ति हि ।।७।।
देवेभ्यश्च पितृभ्यश्च दद्याद्बागं तु विंशकम् । त्रिंशत्तमं च विप्रेभ्यो यः स दुष्येन्न कर्षकः ।।८।।
अत्यजन्स्वानि कर्माणि ब्राह्मणो नित्यकानि षट् । कृषिकर्म प्रकुर्वीत क्षत्रियश्च तथापदि ।।९।।
हीनाङ्गं दुर्बलं श्रान्तं रोगिणं क्षुधितं तथा । कृशाङ्गं स्थविरं चान्धमनड्वाहं न वाहयेत् ।।१०।।
स्थिराङ्गं नीरुजं तृप्तं साण्डं षण्ढत्ववर्जितम् । पुष्टाङ्गं सबलं मत्तं वृषभं वाहयेद्द्विजः ।।११।।
वाहयेद्दिवसस्यार्धं कुर्यात्स्ननादिकं ततः । सीरं युगं प्रतोदं च कुर्याच्छास्त्रोक्तमानतः ।।१२।।
हीनातिरिक्तं कर्तव्यं नैव किञ्चित् प्रमाणतः । न निर्दयस्तुदेत्क्रोधाद्बलीवर्दान्कदाचन ।।१३।।
न सीरं क्षीरवृक्षस्य न बिल्वपिचुमन्दयोः । द्विजः क्वापि प्रकुर्वीत कुर्वन्दारिद्रयमाप्नुयात् ।।१४।।
गोभिश्च वृषभैरत्र गृहिणां हि गृहाश्रमः । वर्तते ताश्च तांस्तस्माद्द्विजो यत्नेन पालयेत् ।।१५।।
वने शुष्कतृणान्यत्त्वा स्रवन्त्यनुदिनं पयः । हविर्भिर्देवतोषिण्यो गावः पूज्याः सदानृणाम् ।।१६।।
यदङ्गेष्वतिपुण्येषु सर्वे देवा वसन्ति हि । ताः पूजनीयाः सर्वेषां संरक्षेग्दा गृहाश्रमी ।।१७।।
गौरवत्सा न दोग्धव्या स्रवग्दर्भा च सन्धिनी । प्रसूता च दशाहात्प्राक् रोगिणी च द्विवत्ससूः ।।१८।।
दक्षिणाभिमुखा गाव उत्तराभिमुश्च वा । बन्धनीयाश्च वृषभा न प्राक्प्रत्यङ्मुखा द्विजैः ।।१९।।
गोवाजिवृषशालायां सुतीक्ष्णं लोहदात्रकम् । सर्वदा स्थापनीयं च दामबन्धविमोक्षकृत् ।।२०।।
यो गाः पूजयते भक्त्या वन्दते पोषयत्यपि । सोऽश्वमेधादियज्ञानां प्राप्नोति सहसा फलम् ।।२१।।
ताडयन्ति च ये पापाः क्रोशयन्ति च ताश्च ये । नरकाग्नौ प्रपच्यन्ते कोटिवर्षाणि ते ननु ।।२२।।
गवां यत्पालने पुण्यं प्रोक्तं दशगुणं ततः । पालने वृषभाणां च पुण्यं किल महर्षिभिः ।।२३।।
कृत्वा गोर्वृषणच्छेदं विप्रो भ्रश्यति जातितः । चण्डाल इव वर्ज्योऽसौ दैवे पित्र्ये च कर्मणि ।।२४
उत्पादयन्ति सस्यानि मर्दयन्ति वहन्ति च । आनन्दयन्ति लोकांश्च पूज्या हि वृषभास्ततः ।।२५।।
न भारखिन्ना जल्पन्ति पत्युरग्रेऽपि किञ्चन । स्वयं चरन्ति शुष्काणि तृणानि च कडङ्गरम् ।।२६।।
उक्षाण ईदृशा एते लोकानां वृद्धिहेतवः । पालनीयाः प्रयत्नेन पोषणीयाश्च सर्वथा ।।२७।।
गृहे बद्धान्पशून् यस्तु तृणतोयादिभिर्गृही । नानुवेलं प्रपुष्णीयात्स पतेद्रौरवादिषु ।।२८।।
पशूनां पालनेऽशक्तो दत्त्वा तान्धनिने स्वयम् । वनं गत्वा तपः कुर्यान्न तु तान्क्लेशयेद्वृथा ।।२९।।
धर्ममेवं विदित्वैव पोषयन्पालयन्वृषान् । वपेत्सर्वाणि बीजानि सर्ववापी न सीदति ।।३०।।
शालीक्षुराणकर्पासवार्ताकादीनि वापयेत् । तत्तत्स्थानं च तत्कालं विदित्वा धर्मशास्त्रतः ।।३१।।
घनवापी चाग्रवापी गोपोषी बीजसङ्ग्रही । प्रभाते क्षेत्रगामी च कर्षको नाऽवसीदति ।।३२।।
प्रथमं कृषिकर्ता तु विधानं शास्त्रसम्मतम् । कुयोगवर्जिते कुर्यात्प्रयतः शुभवासरे ।।३३।।
सीतायाः स्थापनं कृत्वा पराशरमृषिं स्मरन् । दधिदुर्वाक्षतैः पुष्पैः शमीपत्रैश्च पूजयेत् ।।३४।।
नीरजनं च नैवेद्यं दत्त्वा कुर्यात्प्रदक्षिणम् । स क्षेत्रपालमुख्येभ्यो बलीन्दद्यात्ततो गृही ।।३५।।
रक्तश्रृङ्गौ स्ववृषभौ कुङ्कुमेनाक्षतैस्तथा । पूजयेत्पुष्पमालाभिस्ततः संयोजयेद्धलम् ।।३६।।
सङ्घृष्य सीरफालाग्रं हेम्ना वा रजतेन च । मन्त्रमेतं समुच्चार्य कुर्वीत क्षेत्रकर्षणम् ।।३७।।
सीते ! सौम्ये ! कुमारि ! त्वं देवि ! देवैः श्रियेऽर्चिते ! । शक्तिसूनोर्यथा सिद्धा तथा मे सिद्धिदा भव ।।३८
एष एव विधिर्ज्ञोयो वापने लवने तथा । प्रवेशने च धान्यानां खले गन्त्रीप्रवाहणे ।।३९।।
यत्नतः पालयन्नेव वृषभौ कर्षणं चरेत् । अपालयन्वाहयंस्तु कुम्भीपाके पतेद्ध्रुवम् ।।४०।।
अन्नार्थमसृजद्ब्रह्मा वृषभान्हर्यनुज्ञाया । सर्वं जीवति चान्नेन त्रैलोक्यं सचराचरम् ।।४१।।
पालयद्बिरतस्तांस्तु कर्तव्यं कर्षणं द्विजैः । यथोक्तेन लाङ्गलादेश्च योजनम् ।।४२।।
शक्तिसूनोर्विना नाम सीतायाः स्थापनं विना । विनाऽभ्युक्षणरक्षाभ्यां कृषिकर्म न सिध्यति ।।४३।।
सीमां श्मशानभूमिं च वृक्षच्छायाक्षितिं तथा । भूमिं निरवातयूपां च कृषिकृन्नैव कर्षयेत् ।।४४।।
नोषरां वाहयेद्बूमिं न चाश्मशर्करावृताम् । वाहयेन्नाप्रदत्तां च न नदीपुलिनं तथा ।।४५।।
यद्येतां वाहयेद्बूमिं लोभाद्वेषाच्च वा द्विजः । नरकं घोरतामिस्रं प्राप्नुयात्स न संशयः ।।४६।।
एकाङ्गुलामपि धरां परकीयां य आहरेत् । तेन पापेन पुरुषो रौरवं नरकं व्रजेत् ।।४७।।
न दूरे वाहयेत् क्षेत्रं न चैवात्यन्तिके तथा । वाहयेन्न पथि क्षेत्रं वाहयन् दुःखभाग्भवेत् ।।४८।।
अनवद्यां शुभां स्न्ग्धिां जलावगाहनक्षमाम् ।निम्नां च वाहयेद्बूमिं विश्राम्येद्यत्र वै जलम् ।।४९।।
महतीं च वृतिं कुर्यात् क्षेत्रस्य परितो दृढाम् । यथा पशुमृगाद्याश्च प्रविशेयुर्न कर्हिचित् ।।५०।।
ज्ञात्वा क्षेत्रगुणान्सम्यक्तत्तत्स्थाने यथोचितम् । बीजानि वापयेत्सीरी नित्योद्युक्तो भवेत्तथा ।।५१।।
अमावास्यादिने नैव गृही कुर्वीत कर्षणम् । कुर्वन्पातयते पितन्नरके च पतेत्स्वयम् ।।५२।।
सर्वसत्त्वोपकाराय सर्वयज्ञादिसिद्धये । नृपस्य कोशवृद्ध्यै च जायते कृषिकृन्नरः ।।५३।।
अतः क्षुधापीडितानां सत्त्वानां तृप्तये द्विजः । दद्यान्मुष्टिं मुष्टिमन्नं कृषिदोषोपशान्तये ।।५४।।
यावतोऽन्नकणान्क्षेत्रे प्राणिनो भक्षयन्ति च । तावतः पातकात्क्षेत्री मुच्यते नात्र संशयः ।।५५।।
अन्नदानेन कृषिकृत्कृषिदोषाद्विमुच्यते । ततः सीतामखं कुर्यात्सिद्धसस्ये खलागते ।।५६।।
खलस्य परितः कुर्यात्प्रोच्चामतिघनां वृत्तिम् । एकद्वारं खरोष्ट्रादेर्दुःप्रवेशां सुरक्षिताम् ।।५७।।
त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिं स्मरन् । धान्यानि प्रोक्षयेत्तेषां रक्षां कुर्याच्च भस्मना ।।५८।।
प्रेतभूतादिनामानि न वदेच्च खले गृही । सूतिकागृहवत्तत्र कुर्वीत परिरक्षणम् ।।५९।।
प्रशस्तदिनपूर्वा धान्योन्मानं प्रकल्पयेत् । यजेत खलभिक्षाभिः काले रौहिण एव हि ।।६०।।
देवान्महेन्द्रप्रमुखान्सोमपादीन्पितंस्तथा । सनकादीन्मनुष्यांश्चाप्युद्दिश्यान्नं ददीत सः ।।६१।।
खले यज्ञो विवाहे च सङ्क्रान्तौ ग्रहणे तथा । पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम् ।।६२।।
पञ्चमः सप्तमो वापि नवमो द्वादशोऽथवा । शक्त्या देयो धान्यभागः सीरिणा तु खलक्रतौ ।।६३।।
ये केचिदागतास्तत्र पूज्यास्तेऽतिथिवद्द्विजाः । स्तोकशः सीरिभीः सर्वैः कृषिकैर्गृहमेधिभिः ६४
शूद्राश्च कारवोऽन्ये च पतिता नीचयोनयः । दीना अनाथाः क्लीबाश्च कुष्ठिनो दद्रुणास्तथा ।।६५।।
अन्धाश्च बधिरा मूकाः खञ्जाश्चण्डालपुष्कसाः । अन्नार्थिनश्च ये केचिच्छक्त्या तेभ्योऽन्नमर्पयेत् ६६
वाचा मधुरया तांश्च विसृज्याथ निजे गृहे । आनीय धान्यं कुर्वीत नवान्नेष्टिं यथाविधि ।।६७।।
राज्ञो दत्वा च षष्ठांशं देवताभ्यश्च विंशकम् । त्रिंशत्तमं च विप्रेभ्यः कृषिकर्ता न दोषभाक् ।।६८।।
वदन्ति ऋषयः केचित्कृष्यादीनां विशुद्धये । लाभस्यांशप्रदानं तत्सर्वेषां शुद्धिकृद्बवेत् ।।६९।।
प्रतिग्रहाच्चतुर्थांशं वणिग्लाभात्तृतीयकम् । कृषितो विंशकं भागं ददतो नास्ति पातकम् ।।७०।।
काऽपि वृत्तिः कृषेरन्या नास्त्येव सुकरा कलौ । न कृषितोऽन्यत्र यदि धर्मेण कर्षति ।।७१।।
अवस्त्रत्वं निरन्नत्वं कृषितो नैव जायते । अनातिथ्यं च दुःस्थत्वं गोमतो न कदाचन ।।७२।।
त्रैवर्णिकानां कृषिकर्मणो यो विधिः स ते विप्रवरोदितोऽसौ ।
पराशरस्यैव ऋषेर्मतेन द्विजैस्तथैवाचरणीय एषः ।।७३।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु कृषिकर्मविधिनिरूपणनामा पञ्चदशोऽध्यायः ।।१५।।