श्रीनारायणमुनिरुवाच :-
ब्राह्मणस्य गृहस्थस्य विशेषं कथयाम्यथ । सदा शुचिश्चरेद्विप्रः षट्कर्मनिरतः सदा ।।१।।
शान्तो दान्तस्तितिक्षुश्च नित्यं वेदार्थचिन्तकः । स्वधर्मं न त्यजेत्क्व पि दुसङ्गं न समाचरेत् ।।२।।
शुक्लाम्बरधरो नीचकेशश्मश्रुस्तपः प्रियः । नातिसूक्ष्मपटो नित्यमनालस्योऽल्पनिद्रकः ।।३।।
स्ननसन्ध्यापरो नित्यं ब्रह्मयज्ञापरायणः । सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ।।४।।
विभागशिलः सततं क्षमायुक्तो दयालयः । गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ।।५।।
अहुतं च हुतं चैव प्रहुतं प्रशितं तथा । ब्राह्मं हुतं पञ्चमं च नित्यं यज्ञानिमांश्चरेत् ।।६।।
जपोऽहुतो हुतो होमः प्रहुतो भौतिकोबलिः । प्राशितं पितृसन्तृप्तिर्हुतं ब्रह्मं द्विजार्चनम् ।७।।
पञ्चयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति । एतेषामननुष्ठानात्पञ्चसूना अवाप्नुयात् ।।८।।
आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् । वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ।।९।।
न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।
न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ।।१०।।
एकान्तशीलस्य सदैव तस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
स्वाध्याययोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ।।११।।
तस्मान्नित्यं व्रतस्थः स्यादग्निसेवापरायणः । तत्परश्च तपस्यायां ब्राह्मणो विजितेन्द्रियः ।।१२।।
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।।१३।।
पाषण्डिनो विकर्मस्थान्वामाचारान्सुरद्रुहः । वेदनिन्दारतान्मर्त्यान्दूरतः परिवर्जयेत् ।।१४।।
अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् । श्रौतधर्मपरित्यागात्कुलं विप्रस्य नश्यति ।।१५।।
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।।१६।।
परनिन्दां न कुर्वीत नात्मश्लाघापरो भवेत् । अपापं पापिनं नैव प्राणान्तेऽपि प्रकीर्तयेत् ।।१७।।
स्नत्वा पुण्ड्रं मृदा कुर्याद्धृत्वा वह्निं तु भस्मना । देवानभ्यर्च्य गन्धेन जलेनैव जले स्थितः ।।१८।।
स्ननं सन्ध्या तर्पणादि जपहोमसुरार्चनम् । भोजनात्प्राक् प्रकर्तव्यं सायंसन्ध्याहुतीर्विना ।।१९।।
ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ।।२०।।
ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च ।
शुश्रूषणं चापि तथाऽर्थहेतोरकार्यमेतत्परमं द्विजस्य ।।२१।।
न राज्ञाः प्रतिगृीयाद्वर्तमानादसत्पथे । स्वधर्मनिष्ठात्तस्मात्तु प्रतिगृन्न दोषभाक् ।।२२।।
भोज्यशुद्धौ सत्त्वशुद्धिः स्याद्ध्रुवानुस्मृतिस्ततः । ततश्च सर्वग्रन्थीनां विप्रमोक्षो हि जायते ।।२३।।
नाद्याच्छूद्रस्य विप्रोऽन्नं नटनर्तकयोरतः । गणान्नं गणिकान्नं च हीनजातेश्च सर्वतः ।।२४।।
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च । सामान्यं भोजनं नित्यं गृहस्थस्य प्रशस्यते ।।२५।।
आर्धिकः कुलमित्रं च स्वगोपालश्च नापितः । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ।।२६।।
भूमौ बलीनुपाहृत्य कृत्वा चापोशनं ततः । प्राणाग्निहोत्रपूर्वं तु वाग्यतो भोजनं चरेत् ।।२७।।
स्नस्यतो वरुणः शक्तिं जुह्वतोऽग्निर्हरेच्छ्रियम् । भुञ्जानस्यान्तकश्चायुस्तस्मान्मौनं त्रिषु स्मृतम् २८
अन्नं मध्ये प्रतिष्ठाप्यं दक्षिणे घृतपायसम् । शाकादि पुरतः स्थाप्यं भोज्यं च वामतः ।।२९।।
एकपंक्तुपविष्टेषु यद्येकोऽप्यघवान्भवेत् । सर्वेषां तदघं तुल्यं पंक्तिभेदो न चेत्कृतः ।।३०।।
अग्निना भस्मना चैव स्तम्भेन सलिलेन च । द्वारेण चापि मार्गेण षड्भिः पङ्किर्विभिद्यते ।।३१।।
पितृदेवमनुष्येभ्यो दत्त्वाऽश्नत्यमृतं गृही । स्वार्थं पचन्नघं भुङ्क्ते केवलं स्वोदरम्भरः ।।३२।।
इतस्ततश्च यज्ञार्थं नैव याचेत वाडवः । याचितं चेत्सर्वमेव देयं तद्यज्ञाकर्मणि ।।३३।।
प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ।।३४।।
अजिनं मृतशय्यां च मेषीं चोभयतोमुखीम् । कुरुक्षेत्रे च गृानो न भूयः पुरुषो भवेत् ।।३५।।
लोहं तिलाश्च महिषी तैलं लवणमेव च । तिलधेनुर्मणिश्चेति घोराः सप्त प्रतिग्रहाः ।।३६।।
प्रवाहमवधिं कृत्वा नद्या हस्तचतुष्टयम् । न तत्र प्रतिगृीयात्प्राणैः कण्ठगतैरपि ।।३७।।
कृष्णाजिनप्रतिग्राही हयानां क्रयविक्रयी । नवश्राद्धस्य भोक्ता च न भूयः पुरुषो भवेत् ।।३८।।
अहर्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात् । अद्रोहवृत्त्या बुद्धा च पूर्वजन्म स्मरेद्द्विजः ।।३९।।
यथा दारुमयो हस्ती यथा कृत्तिमयो मृगः । तथा विप्रोऽनधीयानस्त्रयोऽमी नामधारिणः ।।४०।।
न विद्या न तपो यस्य समादत्ते प्रतिग्रहम् । अधोगतिमवाप्नोति दात्रा सह स तु द्विजः ।।४१।।
अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान्प्रतिगृानो भस्मीभवति काष्ठवत् ।।४२।।
शक्तः प्रतिग्रहीतुं यो वेदवृत्तो जितेन्द्रियः ।दीयमानं न गृाति स्वर्गस्तस्य न दुर्लभः ।।४३।।
शूद्रान्नं ब्राह्मणो ह्यश्नन्मासं मासार्धमेव वा । तद्योनावभिजायेत सत्यमेतद्विदुर्बुधाः ।।४४।।
कणानामथवा भिक्षां ब्राह्मणो वृत्तिकर्शितः । सच्छूद्राणां गृहे कुर्यान्न स पापेन लिप्यते ।।४५।।
विशुद्धान्वयसञ्जातो निवृत्तो मद्यमांसतः । द्विजभक्तो वणिग्वृत्तिः सच्छूद्रः स प्रकीर्त्यते ।।४६।।
रजनीमध्ययामौ द्वौ हुतशेषं च यद्धविः । तत्र स्वपंस्तदश्नश्च ब्राह्मणो नावसीदति ।।४७।।
अपेयं न पिबेत्क्व पि नाभक्ष्यमपि भक्षयेत् । न गन्धमपि गृीयाद्ब्राह्मणो मद्यमांसयोः ।।४८।।
भवेदज्ञानतः क्व पि गन्धस्याग्रहणं यदि । तर्हि स्नत्वा स्मरेद्विष्णुं सायंसन्ध्यां बहिश्चरेत् ।।४९।।
जायाया आत्मनश्चापि पुत्रस्य दुहितुस्तथा । यथोचितं यथाकालं संस्कारान्विधिनाचरेत् ।।५०।।
कन्याया विक्रयो नैव कर्तव्यः क्व पि केनचित् । ब्राह्मणेन विशेषेण यत्कर्ता याति रौरवम् ।।५१।।
भक्षितं चाणिमात्रं यत्कन्याविक्रयजं धनम् । सकुलं तद्ग्रहीतारं नरकं नयति ध्रुवम् ।।५२।।
यद्वा वरं वदेत्कन्यामलङ्कृत्योद्वहेति च । निर्वाहार्थं स्वकन्याया वैषम्याद्देशकालयोः ।।५३।।
वरदत्ता ह्यलङ्कारा यथाशक्ति स्वकारितैः । अलङ्कारैर्युता देयाः कन्यायै तेऽखिला अपि ।।५४।।
एवं कृते न दोषोऽस्ति भीष्म इत्याह धर्मजम् । स्वार्थं नाण्वपि तद्ग्राह्यं धर्म एष सनातनः ।।५५।।
अष्टवर्षा भवेग्दौरी नववर्षा तु रोहिणी । दशवर्षा भवेत्कन्या तत ऊर्ध्वं रजस्वला ।।५६।।
पितृगेहे तु या कन्या रजः पश्येदसंस्कृता । भ्रूणहा तत्पिता ज्ञोयो वृषली सापि कन्यका ।।५७।।
कुलं शीलं सनाथत्वं विद्यां वित्तं वपुर्वयः । एतान्गुणान्वरे दृा काले दद्यात्सुतां ततः ।।५८।।
समीपस्थोऽतिदूरस्थो धनोद्धृत्तश्च निर्धनः । वृत्तिहीनश्च मूर्खश्च वर्जनीयास्तु षडराः ।।५९।
रविक्षेत्रगते जीवे जीवक्षेत्रगते रवौ । विवाहं न प्रशसन्ति कन्यावैधव्यमेति यत् ।।६०।।
गोदाभागीरथीमध्ये नोद्वाहः सिंहगे गुरौ । मघास्थे सर्वदेशेषु तथा मीनगते रवौ ।।६१।।
भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा । विवाहो व्रतबन्धश्च सिंहस्थेज्ये न दुष्यति ।।६२।।
आरभ्य सप्तमं वर्षं विवाहः सार्ववर्णिकः । दशदोषविहिने हि काले पुत्र्याः शुभो मतः ।।६३।।
विवाहचौलव्रतबन्धयज्ञो पट्टाभिषेके च तथैव राज्ञाम् ।
सीमन्तयात्रासु तथैव जाते नो चिन्तनीयः खलु घातचन्द्रः ।।६४।।
विशेषधर्माः कथिता मयेत्थं तुभ्यं गृहस्थाश्रमिवाडवस्य ।
तज्जीविकावृत्तिमथो वदामि समासतस्तां शृणु विप्रवर्य ! ।।६५।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु ब्राह्मणस्य विशेषविधिनिरूपणनामा त्रयोदशोऽध्यायः ।।१३।।