श्रीनारायणमुनिरुवाच :-
स्ववैभवानुसारेण गृहस्थो हरिमन्दिरम् । कारयेत्सुदृढं भक्त्या सुधालितं समण्डलम् ।।१।।
यथा यथा चातिदृढं कारयेन्मन्दिरं गृही ।तथा तथा फलोत्कर्णो ज्ञातव्यस्तस्य सुव्रत ! ।।२।।
मन्दिरं कारयेद्रम्यं प्राचीसाधनपूर्वकम् । पुरस्तस्यैकभौमं च कारयेत्तार्क्ष्यमण्डपम् ।।३।।
मन्दिरं चाभितः कार्या धर्मशाला मनोहरा । पान्थवैष्णववासार्हा प्राकारेणाभिवेष्टिता ।।४।।
उद्यानं कारयेत्तत्र फलपुष्पद्रुमान्वितम् । मिष्टनिर्मलपानीयां वापिकां च सदोदकाम् ।।५।।
मध्ये श्रीवासुदेवं तु मन्दिरे स्थापयेद्यदा । आग्नेय्यामम्बिकां सूर्यं नैऋर्ते स्थापयेत्तदा ।।६।।
ब्राह्मणं स्थापयेद्वायावीशाने सात्मजं शिवम् । महोत्सवेन तन्मूर्तिः स्थापनिया यथाविधि ।।७।।
हरेरुपासातन्त्राणि पुरा प्रोक्तानि तेन वै । पञ्चरात्राभिधानानि सप्तरात्राभिधानि च ।।८।।
व्यस्तानि तानि मुनिभिः कालेन दिवि चेह च । पञ्चविंशतिसङ्ख्यानि तेषां नामानि मच्छृणु ।।९।।
हयग्रीवं वैष्णवं च पौष्करं गार्ग्यगालवम् । प्रह्लादं नारदीयं च श्रीप्रश्नं शौनकं तथा ।।१०।।
साण्डिल्यमैश्वरं तार्क्ष्यं वासिष्ठं ज्ञानसागरम् । स्वायम्भुवं च विश्वोक्तं सत्योक्तं कापिलं तथा ।।११।।
नारायणीयमात्रेयं नारसिंहं तथारुणम् । बौधायनं च सानन्दमष्टान्ताख्यं तथान्तिमम् ।।१२।।
एतेष्वन्यतमेनोक्तमाश्रित्य वैष्णवं विधिम् । मन्दिरं तत्प्रतिष्ठां च पूजनं च समाचरेत् ।।१३।।
विष्णोः शंभ्वर्कगणपदेवीनां च तदात्मनाम् । कारयेन्मन्दिराण्येवं वैभवे सति सग्दृही ।।१४।।
चैत्रफाल्गुनवैशाखज्येष्ठमासाः शुभावहाः । सर्वदेवप्रतिष्ठायां चैत्रं नेच्छन्ति केचन ।।१५।।
प्रतिष्ठायां तथा विष्णोर्माघमासो न चोचितः । दक्षिणं चायनं तद्वन्निषिद्धं देवकर्मणि ।।१६।।
माघफाल्गुनवैशाखज्येष्ठाषाढेषु पञ्चसु । मासेषु शुक्लपक्षे च शिवस्थापनमुत्तमम् ।।१७।।
देवालयं कारयति धर्मशालां च यः पुमान् । स तारयति संसारादात्मनः सप्त पूरुषान् ।।१८।।
यावत्य इष्टिकास्तत्र चिता देवालयादिषु । तावन्त्यब्दसहस्राणि तत्कर्ता स्वर्गमावसेत् ।।१९।।
श्रीमतो वासुदेवस्य कारयत्युत्तमं तु यः । मन्दिरं सुदृढं रम्यं स मोक्षं प्राप्नुयाद्ध्रुवम् ।।२०।।
मध्यमं कारयेद्यस्तु पुमांस्तन्मन्दिरं नवम् । स च वैकुण्ठमाप्नोति लोकं लोकनमस्कृतम् ।।२१।।
कनिष्ठं मन्दिरं यश्च कारयेत्तस्य वाडव ! । सुरेन्द्रलोकमाप्नोति स पुमानपि निश्चितम् ।।२२।।
फलं धनी श्रेष्ठतमेन यत्तु प्राप्नोति तन्मन्दिरकर्मणा तत् ।
प्राप्नोति हि स्वल्पधनः कनिष्ठं तत्कारयित्वा प्रयतः स्वशक्त्या ।।२३।।
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिनां ब्रह्मलोकं त्रिभिस्तत्साम्यमाप्नुयात् ।।२४।।
यः कारयति तद्धाम निर्दम्भः प्रीतये हरेः । कुलानि शतमुद्धृत्य वैकुण्ठे निवसत्यसौ ।।२५।।
सुधादिभिर्लेपयित्वा जीर्णोद्धारं च कारयेत् । देवालयमठादेश्च यस्तस्य सुकृतं महत् ।।२६।।
सम्मार्जयेच्च यस्तत्र यश्च तत्रानुलेपयेत् । दीपं च तत्र यः कुर्याद्विष्णुलोकं प्रयाति सः ।।२७।।
तथा कूपांश्च वापीश्च तडागानि च ये नराः । कारयन्त्यक्षयं पुण्यं तेषां तद्बवति ध्रुवम् ।।२८।।
वर्षाकाले तडागे तु सलिलं यस्य तिष्ठति । अग्निहोत्रसमं तस्य फलमाहुर्मनीषिणः ।।२९।।
शरत्काले तु सलिलं तडागे यस्य तिष्ठति । गोसहस्रप्रदानस्य फलं स लभते नरः ।।३०।।
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञास्य लभते फलम् ।।३१।।
यस्य वा शिशिरे काले तडागे सलिलं भवेत् । तस्याग्निष्टोमयज्ञास्य फलं भवति सुव्रत ! ।।३२।।
वसन्तकाले सलिलं तडागे यस्य वर्तते । सोऽतिरात्रस्य यज्ञास्य फलं प्राप्नोति मानवः ।।३३।।
निदाघकाले पानीयं तडागे यस्य तिष्ठति । फलं स वाजिमेधस्य यज्ञास्य लभते पुमान् ।।३४।।
स कुलं तारयेत्सर्वं येन खाते जलाशये । गावः पिबन्ति सलिलं साधवश्च नराः सदा ।।३५।।
सर्वाण्यपि च सत्त्वानि तृषार्तानि पिबन्ति यत् । जलाशये तस्य पुण्यमप्रमेयं हि कीर्त्यते ।।३६।।
तडागमभितो रोप्याश्छायावृक्षा वटादयः । तेनात्र कीर्तिश्च भवेत् स्वर्गोऽक्षय्यः परत्र च ।।३७।।
आरामाश्चापि कर्तव्याः शुभवृक्षैः सुशौभिताः । जलाशयस्योपकण्ठे गृहस्थेन सुखार्थिना ।।३८।।
फलोपयोगिनः सर्वे तथा पुष्पोपयोगिनः । आरामेषु द्रुमा रोप्याः पितृदेवोपभोगदाः ।।३९।।
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश तिन्तिडीश्च ।
कपित्थबिल्वामलकीत्रयं यो वपेन्नवाम्रान्नरकं स नेयात् ।।४०।।
उद्दिश्य विष्णुं पुरुषोऽत्र कुर्यात् पूर्तं यदित्थं सुकृतं तु भक्त्या ।
अनन्ततामेति तदेव सर्वं कुर्यात्ततो भक्तिसमेतमेतत् ।।४१।।
प्रत्यहं प्रतिमासं वा प्रत्यब्दं वा विधानतः । गृहस्थैश्च ग्रहाः पूज्या राजभिस्तु विशेषतः ।।४२।।
दुःस्थितो यस्तु यस्य स्यात्पूज्यस्तस्य स यत्नतः । तुष्टो ग्रहः सुखं दत्ते रुष्टः पीडयति ध्रुवम् ।।४३।।
रविणा सप्तमस्थेन रावणो विनिपातितः । अष्टमेन शशाङ्केन हिरण्यकशिपुर्हतः ।।४४।।
अङ्गारकनिरोधेन नमुचिश्च हतो रणे । पाण्डवा द्यूतकरणे बुधेनापि नियोजिताः ।।४५।।
गुरुणा जन्मसंस्थेन हतो राजा सुयोधनः । षष्ठेनोशनसा युद्धे हिरण्याक्षो निपातितः ।।४६।।
शनैश्चरेण सौदासो नरमांसे नियोजितः । राहुणा पीडितो राजा नलो भ्रान्तो महीतले ।।४७।।
केतुना पीडितश्चाभूद्राजा सङ्ग्रामजित्तथा । एवं बहुविधा भूपा ग्रहदोषैर्हि पीडिताः ।।४८।।
ज्योतिर्विदो विदित्वैव दुष्टस्थानस्थितान् ग्रहान् । शान्तिस्तेषां प्रकर्तव्या दानं दत्वा यथाविधि ।४९
माणिक्यं तरणेस्तु दानमुदितं मुक्ताफलं शीतगोर्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् ।
देवेज्यस्य च पुष्परागमसुरामात्यस्य वज्रं शनेर्नीलं निर्मलमन्ययोस्तु गदिते गोमेदवैदूर्यके ।।५०।।
धेनुः शङ्खोऽरुणरुचिवृषः काञ्चनं पीतवस्त्रं श्वेतश्चाश्वः सुरभिरसिता कृष्णलोहं च लोहम् ।
सूर्यादीनां मुनिभिरुदुता दक्षिणास्तु ग्रहाणां स्ननैर्दानैर्हवनबलिभिस्ते ग्रहाः स्युः प्रसन्नाः ।।५१।।
देवब्राह्मणवन्दनाग्दुरुवचःसम्पादनात्प्रत्यहं साधूनामपिसेवनात्प्रतिदुनं सच्छास्त्रसंशीलनात् ।
होमादध्वरदर्शनाच्छुचिमनोभावाज्जपाद्दानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैते ग्रहाः पीडनम् ५२
यतीनां च वनस्थानां वर्णिनां रङ्कदेहिनाम् । साधूनां याचकानां च पोषणं गृहिणां हितम् ।।५३।।
अनेनैव पुराणेषु हेतुना हि गृहाश्रमः इतराश्रमतः श्रेष्ठः कीर्तितो मुनिभिर्द्विज ! ।।५४।।
अतिथौ स्वगृहं प्राप्ते समुत्थायादरेणतम् । नमस्कृत्यासनं दत्त्वा पूजयेच्च यथोचितम् ।।५५।।
वाक्यैः सुमधुरैः पृा स्वागताद्यथ भोजयेत् । तस्मिंस्तुष्टे विजानीयात्तुष्टं त्रैलोक्यमित्यसौ ।।५६।।
यद्येवं गृहिणा न स्यात्किमर्थं क्लिश्यते तदा । गृहान्धकूपे विषमे पतित्वा तेन भूतले ।।५७।।
पशुपक्षिमृगादयोऽपि जीवा बहवः सन्त्युदरम्भरा हि लोके ।
यदि तादृशवृत्तिमान् गृही स्याद्द्विज ! तत्पंक्तिगतस्तदा न किं सः ।।५८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु पूर्तकर्मादिविधिनिरूपणनामा द्वादशोऽध्यायः ।।१२।।