श्रीनारायणमुनिरुवाच :-
सर्वेषामिह दानानामन्नदानं विशिष्यते ।
अन्नं हि प्राणिनां प्राणा ह्यन्नदः प्राणदः स्मृतः ।।१।।
अन्नममृतमित्याह पुराकल्पे प्रजापतिः ।
अन्नमाश्रित्य वर्तन्ते त्रयो लोका न संशयः ।।२।।
ब्राह्मणायाभिरूपाय यो ददात्यन्नमर्थिने ।
स निधत्ते निधिश्रेष्ठं पारलौकिकमात्मनः ।।३।।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वान्यं क्षुधातुरम् ।
दृा स्वमुपोष्यापि योऽन्नं दत्ते स धर्मवित् ।।४।।
कृतपातककर्मापि यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन लिप्यते ।।५।।
अन्नाभावे तु भिद्यन्ते शारीराः पञ्च धातवः ।
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ।।६।।
अन्नेन वर्तते सर्वं यत्किञ्चित्स्थाणु जङ्गमम् ।
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ।।७।।
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च ।
पुण्यं च वर्धते शश्वत्त्रिषु लोकेषु सुव्रत ! ।।८।।
भवनान्यन्नदातणां प्रकाशन्ते त्रिविष्टपे ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ।।९।।
प्रासादाः पाण्डुराः शुभ्राः शय्याश्च कनकोज्ज्वलाः ।
अन्नदास्ताः प्रपद्यन्ते तस्मादन्नप्रदो भवेत् ।।१०
लक्षं वाप्ययुतं विप्रान्सहस्रं शतमेव वा ।
सदन्नैः पायसाद्यैश्च शक्तितो भोजयेत्तु यः ।।११।।
दिव्यं विमानमारुह्य सौवर्णं सूर्यवर्चसम् ।
गीयमानो देवगणैः स स्वर्गे वसति ध्रुवम् ।।१२।।
तथाऽत्र भूमिदानं च महादानं प्रकीर्त्यते ।
सर्वान्कामानवाप्नोति भूमिदानेन मानवः ।।१३।।
अपि गोचर्ममात्रां यः पक्व धान्यभृतां महीम् ।
विप्राय साधवे दद्यात्तस्य पुण्यमनन्तकम् ।।१४।।
एको वृषः शतं गावो यावत्यां शेरते भुवि ।
गोचर्ममात्रा सा भूमिरुच्यते परिमाणतः ।।१५।।
सर्वपापविनिर्मुक्तो भूमिदः पुरुषो भवेत् ।
अश्वमेधाधिकं पुण्यं सद्यः प्राप्नोति निश्चितम् ।।१६।।
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत् ।।१७।।
पञ्च पूर्वान्स पुरुषान्स्वं च पञ्च परानपि ।
एकादश ददद्बूमिं परिपातीह मानवः ।।१८।।
सर्वोपस्करसंयुक्तं दृढं वेश्म द्विजाय यः ।
दद्यात्सम्पूज्य विधिवद्ब्रह्मलोकं स चाप्नुयात् ।।१९।।
प्राकारा यत्र सौवर्णा गृहाण्युच्चैस्तराणि च ।
नानारत्नैर्भूषितानि तानि प्राप्नोति वेश्मदः ।।२०।।
कुटुम्बिने ब्राह्मणाय सुशीलां गां ददाति यः ।
सवत्सां वस्त्रसंयुक्तां सुरूपां च पयस्विनीम् ।।२१।।
हेमशृङ्गीं रुक्मखुरां मुक्ताहारविभूषिताम् ।
सदक्षिणां विधानेन विष्णुलोकं स चाप्नुयात् ।।२२।।
सुवर्णं दक्षिणोपेतं ब्राह्मणाय ददाति यः ।
न प्राप्नोति स मालिन्यं सर्वदोषैः प्रमुच्यते ।।२३।।
माघमासे तिलान् यश्च ब्राह्मणेभ्यः प्रयच्छति ।
ताम्रपात्रभृतान्सोऽपि यमलोकं न पश्यति ।।२४।।
निदाघकाले पानीयं यः प्रयच्छत्युपानहौ ।
छत्रं च वर्षाकाले यश्चन्द्रलोकं प्रयान्ति ते ।।२५।।
एकादशीव्रतं कृत्वा द्वादश्यां भोजयेत्तु यः ।
विष्णुभक्तान्द्विजान्साधून् विरक्तांश्च विशेषतः ।।२६।।
सर्वेषांमपि यज्ञानां प्राप्नोत्येव फलं स च ।
तस्मै प्रीतो हरिर्दत्ते सर्वं तन्मनसेप्सितम् ।।२७।।
द्वादश्यां मार्गशीर्षस्य केशवं तु प्रपूज्य यः ।
तद्बक्तान्भोजयेत्तस्य फलं स्यादश्वमेधजम् ।।२८।।
पौषे नारायणं भक्त्या पूजयित्वैव भोजयेत् ।
द्वादश्यां ब्राह्मणांस्तस्य वाजपेयफलं भवेत् ।।२९।।
माधवं यः समभ्यर्च्य द्वादश्यां माघमासि च ।
भोजयेद्ब्राह्मणांस्तस्य फलं स्याद्राजसूयजम् ।।३०
गोविन्दं फाल्गुनेऽभ्यर्च्य मासि यो द्वादशीदिने ।
प्रीणयेज्ब्राह्मणांस्तस्य फलं स्यादतिरात्रजम् ।।३१
विष्णुं भक्त्या समभ्यर्च्य द्वादश्यां मधुमासि च ।
तद्बक्तान्ब्राह्मणान्साधून्स्वशक्त्या प्रीणयेच्च यः ।३२
पौण्डरीकस्य यज्ञास्य फलं प्राप्य स मानवः ।
दिव्यं लोकमवाप्नोति देहान्ते देवदुर्लभम् ।।३३।।
द्वादश्यां पूजयित्वा यो माधवे मधुसूदनम् ।
भोजयेद्ब्राह्मणांस्तस्य ह्यग्निष्टोमफलं भवेत् ।।३४।।
त्रिविक्रमं पूजयित्वा ज्येष्ठे च द्वादशीदिने ।
भोजयेद्यो द्विजान् यायाग्दवामयनजं फलम् ।।३५।।
सम्पूज्य वामनं भक्त्या द्वादश्यां शुचिमासि यः ।
विप्रांस्तु भोजयेत्तस्य फलं स्यात्सोमयागजम् ३६
श्रावणे श्रीधरं यश्च समर्च्य द्वादशीदिने ।
भोजयेद्ब्राह्मणान् सोऽपि यायाद्विश्वजितः फलम् ।।३७।।
हृषिकेशं भाद्रपदे द्वादश्यां च समर्च्य यः ।
ब्राह्मणान्भोजयेत्तस्य सौत्रामण्याः फलं भवेत् ।।३८।।
आश्विने पद्मनाभं यः समर्च्य द्वादशीदिने ।
विप्रान्सन्तर्पयेत्सोऽपि सौमिकं फलमाप्नुयात् ।।३९।।
द्वादश्यां कार्तिके चेा मासि दामोदरं द्विजान् ।
भोजयेद्यः स चाप्नोति सर्वमेघफलं पुमान् ।।४०।।
द्वादशी वैष्णवी प्रेष्ठा तिथिर्नारायणस्य च ।
तस्यां यत्सुकृतं कुर्यात्तद्बवेदक्षयं खलु ।।४१।।
दानानि च यथाशक्ति दद्याद्विप्राय तद्दिने ।
तत्तद्दतूचितैर्भोज्यैर्भक्तान्सम्प्रीणयेद्धरेः ।।४२।।
एवंविधो गृही दिव्यं किङ्किणीजालमण्डितम् ।
अर्कप्रभं समारुह्य विमानं याति तत्पदम् ।।४३।।
औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितो दीर्घायुर्जायते नरः ।।४४।।
वेदं शास्त्रं पुराणं वा भारतं वा ददाति यः ।
अक्षयं तद्बवेत्पुण्यं सर्वपापक्षयो भवेत् ।।४५।।
शीतकाले च वस्त्राणि काष्ठान्यूर्णापटांस्तथा ।
ददाति यो ब्राह्मणेभ्यः स नित्यं सुखमेधते ।।४६।।
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तग्दुणवते देयं तदेवाक्षयमिच्छता ।।४७।।
द्वादश्यां चैत्रशुक्ले च श्वेतवस्त्रप्रदो नरः ।
चैत्रे प्रतिदिनं वा यः सोऽक्षयं स्वर्गमेति हि ।।४८।।
वैशाखे स्वर्णदः शुक्रे छत्रोपानत्प्रदस्तथा ।
शय्याप्रदः शुचौ मासे श्वेतद्वीपमवानुयात् ।।४९।।
पुराणदाता नभसि प्रौष्ठपादे च गोप्रदः ।
इषेऽश्वदाता पुरुषः कुलमुद्धरते निजम् ।।५०।।
ऊर्णामूर्जे च लवणं मार्गे पौषेऽन्नपर्वतम् ।
फाल्गुने सुरभिद्रव्यं यो दद्यात्स सुखी सदा ।।५१।।
न दानं यशसे दद्यान्न भयान्न च लोभतः ।
परलोकहितायैव देयं पात्रद्विजाय तत् ।।५२।।
पात्रभूतोऽपि यो विप्रः प्रतिगृह्य प्रतिग्रहम् ।
असत्सु विनियुञ्जीत तस्मै देयं न कर्हिचित् ।।५३।।
सञ्चयं कुरुते यस्तु समादाय ततस्ततः ।
धर्मार्थं नोपयुञ्जीत तस्मै देयं न कर्हिचित् ।।५४।।
दानकाले च समप्राप्ते विप्रस्यासन्निधौ सति ।
सङ्कल्प्य मनसा तत्तु जलमध्ये जलं क्षिपेत् ।।५५।।
दातुः फलं दशगुणं भवेदेवं कृते सति ।
ग्रहीतुरपि विप्रस्य न दोषः स्यात्प्रतिग्रहे ।।५६।।
विद्यावते दरिद्राय लक्ष्मीभ्रष्टाय चार्थिने ।
यद्दीयते तदक्षय्यं सुशीलाय विशेषतः ।।५७।।
अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।
ईदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ।।५८।।
अमानिनः सर्वसहा निःस्पृहा विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ।।५९।।
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः ।
षट्कर्मनिरतः शान्तः सत्पात्रं स प्रकीर्त्यते ।।६०।।
ईदृशेभ्यस्तु यद्दानं ददाति धनवान् गृही ।
सहस्रगुणितं सद्यस्तद्बवत्येव निश्चितम् ।।६१।।
प्रज्ञाश्रुताभ्यां शीलेन वृत्तेन च समन्वितः ।
तारयत्येव हि कुलं स एकोऽपि द्विजोत्तमः ।।६२।।
निशम्यापि गुणोपेतं ब्राह्मणं साधुसम्मतम् ।
दूरादानाय्य सत्कृत्य सर्वभावेन पूजयेत् ।।६३।।
निष्फलं नवसूत्सृष्टं चाटचारणतस्करे ।
कुवैद्ये कितवे धूर्ते शठे मल्ले च बन्दिनि ।।६४।।
न्यायार्जितेनैव धनेन कुर्याद्दानं यथाशक्ति गृही द्विजेन्द्र ! ।
न क्लेशयित्वा निजपोष्यवर्गं नान्यायलब्धेन धनेन चापि ।।६५।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु दानविधिनिरूपणनामैकादशोऽध्यायः ।।११।।