दशमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


श्रुतिस्मृत्युदितः सम्यक्साधुभिर्यश्च सेवितः । तमाचारं निषेवेत गृही नान्यं तु कञ्चन ।।१।।

स्ननसन्ध्यापरो नित्यं सत्यवादी जितेन्द्रियः । अनसूयो मृदुः शान्तो लोभमोहविवर्जितः ।।२।।

सावित्रीजाप्यनिरतो गोब्राह्मणहिते रतः । मातापित्रोर्हिते युक्तो देवब्राह्मणपूजकः ।।३।।

दान्तो यज्वा क्षमायुक्तः परद्रोहविवर्जितः । यथोचितं त्रिवर्गं च सेवेतात्र गृहाश्रमी ।।४।।

न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् । सीदन्नपि निजं धर्मं सर्वथा नैव हापयेत् ।।५।।

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । आश्वचाण्डालपतितानन्नं संविभजेत्सदा ।।६।।

मृगांश्च पक्षिणोऽन्यांश्च क्षुद्रजीवानपि द्विज ! । पश्येत्स्वपुत्रसाम्येन नास्ति भेदो विचारतः ।।७।।

पितरौ भ्रातरः पुत्राः सुहृदो ज्ञातयश्च ये । यद्वदेयुर्यदिच्छेयुरनुमोदेत निर्ममः ।।८।।

गृहोचिताः क्रियाः कुर्वन्निषेवेत महामुनीन् । तत्सङ्गात्स्त्रीधनादौ स्यादनासक्तो गृहेष्वपि ।।९।।

ये चाधिकारसम्पन्नाः सम्पन्नाश्च धनादिभिः । यथाविधि यजेयुस्ते यज्ञौर्नानाविधैर्हरिम् ।।१०।।

अश्वमेधादियज्ञानां निषिद्धत्वात्कलाविह । कर्तव्यास्तु विष्णुयागमहारुद्रादयो मखाः ।।११।।

पशुहिंसाविहीना हि सात्त्विकानां मखाः प्रियाः । देवानां च हरेस्तत्तैर्यष्टव्यं भूतिमिच्छिता ।।१२।।

नास्त्यहिंसासमो धर्मो लोकेऽन्यः कोऽपि पावनः । प्राणिहिंसासमं पापं तथाऽन्यन्नास्ति भूतले ।।१३

पायसान्नैर्धृताद्यैश्च हविर्भिः प्रीणयन्सुरान् । भूसुरांस्तर्पयेत्सम्यग्भोजनैश्च सदक्षिणाः ।।१४।।

दृाग्निचक्रं कर्तव्यो होमारम्भोऽन्यथा त्विह । क्रूरग्रहमुखे पातादाहुतेः स्यान्महद्बयम् ।।१५।।

वृतैश्च ब्राह्मणैस्तत्र यजमानेन तत्स्त्रिया । ब्रह्मचर्यादिनियमाः पालनीयाः प्रयत्ननः ।।१६।।

एतेषु नियमभ्रष्टो यद्येकोऽपि यथोचितम् । प्रायश्चितं न कुर्याच्चेत्स यज्ञो निष्फलो भवेत् ।।१७।।

यथोक्ता दक्षिणा तत्स्याद्यत्र यत्र न वैदिकाः ।विप्रसम्प्रीणनं यच्च न स्यात्सोऽपि मखोऽफलः ।।१८

आज्यप्लुतैर्यथा भोज्यैर्नृभिर्विप्रमुखे हुतैः ।हरिस्तुष्येत्तथा नाग्नौ हुतैर्यज्ञो हविर्भरैः ।।१९।।

अयमेव महान्यज्ञाः सर्वयज्ञोत्तमो मतः । प्रचुराज्यसितोपेतैर्भोज्यैर्यद्विप्रतर्पणम् ।।२०।।

प्रीतेषु ब्राह्मणेष्वेव प्रीतोऽत्यन्तं भवेद्धरिः । त्रैलोक्यं हि हरौ प्रीते तृप्तं स्यान्नात्र संशयः ।।२१।।

विप्रा विष्णोः प्रिया यद्वत्तथा नैव निजं वपुः । प्रिया नान्ये च विबुधा न च देवी रमा तथा ।।२२।।

येन सम्पूजिता विप्रास्तेन सम्पूजितो हरिः । येनापमानितास्ते च तेनासावपमानितः ।।२३।।

अविद्यो वा सविद्यो वा ब्राह्मणो भूतले नृणाम् । पूजनीयो भोजनीयो नापमान्यः कदाचन ।।२४।।

मानयन्ब्राह्मणांस्तस्माग्दृही निर्मत्सरः सदा । देशकालविशेषेषु कुर्याद्धर्मं विशेषतः ।।२५।।

सत्पात्रं यत्र लभ्येत देशः पुण्यतमो हि सः । जन्म विष्णोर्यत्र यत्र सतां विचरणं तथा ।।२६।।

तपोविद्यादयोपेता यत्र स्युर्ब्राह्मणोत्तमाः । हर्यर्चापूजनं भक्त्या यत्र स्यान्निरन्तरम् ।।२७।।

नद्यः पुराणप्रथिता यत्र गङ्गादयस्तथा । सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितानि च ।।२८।।

तपःस्थानान्यृषीणां च सर्वेऽपि च कुलाचलाः । एते पुण्यतमा देशाः पुण्यकर्मोचित्ताः सदा ।।२९

सहस्रगुणितं पुण्यमेषु स्यादितरस्थलात् । तस्मात्पुण्येषु तीर्थेषुः कुर्यात्पुण्यं विशेषतः ।।३०।।

प्रादुर्भावाद्विचरणान्निवासाच्च हरर्द्विज ! । परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता ।।३१।।

तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे । गणेशं च पितन्विप्रान्साधूञ्छान्तान्प्रपूजयेत् ।।३२।।

कृत्वाथ पारणां गच्छेत्तीर्थं नियमवान्गृही । न परीक्ष्या द्विजास्तीर्थे भोज्या ह्यन्नार्थिनोऽखिलाः ।।३३

तीर्थप्राप्तेः पूर्वदिने मुण्डनं चाप्युपोषणम् । कुर्यात्सम्प्राप्य तीर्थं तु श्राद्धं ब्राह्मणतर्पणम् ।।३४।।

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।।३५।।

अकोपनो दृढमतिः सत्यवादी जितेन्द्रियः । आत्मोपमश्च भूतेषु प्राप्नुयात्तीर्थजं फलम् ।।३६।।

तिर्यग्योनौ न जायेत न कुदेशे च तीर्थकृत् । न दुःखी स्यात्स्वर्गभाक्च मोक्षोपायं स विन्दति ।।३७

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः ।।३८।।

ब्रह्मचर्यविहीनो यस्तीर्थं वा व्रतमाचरेत् । न स तत्फलमाप्नोति प्राप्नोत्येव तु किल्बिषम् ।।३९।।

अन्यस्थाने कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भवत्यलम् ।।४०।।

इन्द्रियाणि नियम्यैव तस्मात्तीर्थेषु सग्दृही । दानं दद्याद्यथाशक्ति ब्रह्मणान्भोजयेत्तथा ।।४१।।

वयोज्येष्ठा मातृतुल्याः समाना भगिनीसमाः । कनिष्ठाः कन्यकातुल्याः पश्येन्नारीस्तु निर्मलः ।।४२

कृतयात्रः पुनर्गेहं समेत्य श्राद्धमाचरेत् । ब्राह्मणान्भोजयित्वाऽथ यात्रायाः फलमाप्नुयात् ।।४३।।

श्रयन्क्षेत्राणि पुण्यानि स्वस्ववित्तानुसारतः । श्रद्धया पुण्यकालेषु कुर्वीत सुकृतं गृही ।।४४।।

मासि भाद्रपदे कुर्याच्छ्राद्धमापरपक्षिकम् । स्वपित्रोश्च पितृव्यादेर्वैभवे सति वा पृथक् ।।४५।।

दिनक्षये व्यतीपाते विषुवे चायनद्वये । द्वादश्यामनुराधायाः श्रवणस्य च सङ्गमे ।।४६।।

एकादश्यां वा द्वादश्यामुत्तरात्रयसङ्गमे । उर्जे शुक्लनवम्यां च सप्तम्यां च तपःसिते ।।४७।।

अक्षयाख्यतृतीयायामष्टकान्वष्टकास्वपि । षष्ठयां च कपिलाख्यायां योगे चार्धोदयाभिधे ।।४८।।

राकायामनुमत्यां वा तन्मासाख्यर्क्षसङ्गमे । दिने स्वजन्मर्क्षयुते मान्वादिषु तिथिष्वपि ।।४९।।

उत्सवाहेषु विष्णोश्च प्रादुर्भावदिनेषु च । इन्दुक्षयेऽर्कसङ्क्रान्तौ चन्द्रसूर्यग्रहे तथा ।।५०।।

स्ननं दानं जपो होमः श्राद्धं ब्राह्मणभोजनम् । एतेषु कुर्याद्यत्किञ्चित्पुण्यं स्यादक्षयं तत् ।।५१।।

अमावास्याऽथ सोमेन सप्तमी भानुना सह । चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी ।।५२।।

चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसम्मिताः । आसु दानं जपो होमो भवेत्कोटिगुणः कृतः ।।५३।।

गर्भाधानादिसंस्कारत्रयकालेऽथ योषितः । जातकर्मादिषु तथा संस्कारेषु सुतस्य च ।। ५४।।

प्रेतकर्मणि पित्रोश्च मृताहे वार्षिके तयोः । कुर्यात्पुण्यं यथाशक्ति स्वस्य चाभ्युदये सति ।।५५।।

श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय दानं देयं हि सर्वथा ।।५६।।

यथा तपः सत्ययुगे च यज्ञास्त्रेतायुगे द्वापर ईशपूजा ।
हिताय नणामुदिता तथैव कलौ युगे ब्राह्मणवर्य ! दानम् ।।५७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु देशकालपात्रविशेषनिरूपणनामा दशमोऽध्यायः ।।१०।।