शोडदशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


मातापित्रोर्गुरूणां च पूजा बहुमता मम । या द्विजानां गृहस्थानामिहामुत्र सुखप्रदा ।।१।।

यच्च तेऽभ्यनुजानीयुः स धर्म इति निश्चियः । एत एव त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः ।।२।।

त्रिष्वेतेष्वप्रमाद्यन् यस्त्रींल्लोकान्स जयेद्ध्रुवम् । नैतान्क्वाप्यवमन्येत नित्यं ह्यनुसरेद्विजः ।।३।।

तेषामनादरात्सर्वाः सत्क्रियाः स्युर्हि निष्फलाः । न चायं न परो लोकः शुभस्तदवमानिनः ।।४।।

श्रोत्रियेभ्यो दशभ्यश्च सदाचार्योऽधिको मतः । तेभ्यो दशभ्य एकः स्यादुपाध्यायोऽधिकः किल ५

तेभ्यो दशभ्यश्च पिता गौरवेणातिरिच्यते । पितुर्दशगुणं माता पूजनीया गरीयसी ।।६।।

गुरुर्गरीयान्पितृतो मातृतश्चापि मे मतः । शरीरमेव सृजतः पितरौ धर्मकारणम् ।।७।।

गुरुस्तु ज्ञानदानेन शिष्यं शारीरबन्धनात् । विमोचयति तेनासौ गरीयानुच्यते ततः ।।८।।

दोषयुक्ता अपि च ते दूषणीया न सूनुना । न ताडया भर्त्सनीया वा पूजनीया हि सर्वथा ।।९।।

उपदेशौर्निजाज्ञानं हृत्वा योऽमृतमृच्छति । तस्मै न गुरवे द्रुह्येज्जानन्नस्य कृतं बुधः ।।१०।।

यतश्च विद्यामाप्नोति वाङ्मनःकर्मभिस्तु तम् । यो नार्चयति तस्य स्याच्छ्रुतं सर्वं हि निष्फलम् ११

गुरोरनादरं कुर्याद्यः पुमान्दर्पमोहितः । भ्रूणहत्यादिकं पापं प्राप्नुयात्स न संशयः ।।१२।।

प्रजापतिं प्रीणयति पितरं प्रीणयन्पुमान् । मातरं प्रीणयन्पृथ्वीं प्रीणयत्येव पूरुषः ।।१३।।

ब्रह्मैव पूजितं तेन गुरुर्येन प्रपूजितः । मातृतः पितृतश्चापि तस्मात्पूज्यतमो गुरुः ।।१४।।

मातरं पितरं तस्माग्दुरुं चानुसरेत्सदा । एषां त्रयाणां द्रोग्धा तु कुम्भीपाके पतेद्ध्रुवम् ।।१५।।

मित्रद्रुहः कृतघ्नस्य सीरघ्नगुरुघातिनोः । यत्पापं जायते पुंसो निष्कृतिर्नास्ति तस्य हि ।।१६।।

पित्रादिभिस्त्रिभिर्नैव गृहस्थः संवदेत्क्वचित् । तथर्त्वग्भिर्मातुलेन दासैश्चातिथिभिः ।।१७।।

वृद्धबालातुरकृशैर्ज्ञातिसम्बन्धिबान्धवैः । भ्रात्रा दुहित्रा पुत्रेण जामीभिर्भार्यया तथा ।।१८।।

गृहस्थ एतैः संवादं न कुर्वीत कदाचन । एतैर्जितस्तु जयति सर्वांल्लोकान्न संशयः ।।१९।।

स्वहितार्थी द्विजन्मा च नित्यं सच्छास्त्रसेवनम् । कुर्यात्तदर्थाज्ञाने तु सतः पृच्छेच्च तद्विदः ।।२०।।

यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा ऋषिभाषितम् । दूषयेदनभिज्ञाय स भवेद्ब्रह्मघातकः ।।२१।।

यतेरन्नं न भोक्तव्यं प्राणैः कण्ठगतैरपि । गोमांसेन समं तत्तु सुराबिन्दुसमं जलम् ।।२२।।

यतीनां काञ्चनं दत्त्वा ताम्बूलं ब्रह्मचारिणाम् । चौराणामभयं दत्त्वा दातापि नरकं व्रजेत् ।।२३।।

यतिभ्यः श्रद्धया दद्याद्बिक्षां पात्रप्रपूरणीम् । सर्वै रसैरुपेतां च तत्पुण्यं स्यादनन्तकम् ।।२४।।

यो व्याधितानां भिक्षूणां कुर्यात्स्थानं शुभं च तान् । पथ्यादिभिः परिचरेत्तस्य पुण्यमनन्तकम् ।।२५

यतिं दृा समुत्थाय नत्वा पाद्यासनादिभिः । मानयेद्यो गृही नैव तस्य पुण्यं निरर्थकम् ।।२६।।

भिक्षमाणो ब्रह्मचारी यतिस्त्यागी द्विजोऽपि वा । येनापमानितो भिक्षामदत्त्वा स तु ब्रह्महा ।।२७।।

माता पिता गुरुः पत्नी स्वस्यापत्यानि चाश्रिताः । अभ्यागतोऽतिथिश्चाग्निः पोष्या नित्यममी नव २८

दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया । अदत्तदाना जायन्ते परभाग्योपजीविनः ।।२९।।

न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् । दानं च विधिना देयं काले पात्रे च भावतः ।।३०।।

विधिहीनमपात्रे च यो ददाति प्रतिग्रहम् । न केवलं हि तद्याति शेषं तस्य विनश्यति ।।३१।।

अनृतेन क्षरेद्यज्ञास्तपो विस्मयतः क्षरेत् । क्षरेत्कीर्तनतो दानमायुर्विप्रावमानतः ।।३२।।

वयोवृद्धांस्तपोवृद्धाञ्जात्युत्कृष्टान्यथोचितम् । मानयेद्विनयेनैव गृही निर्मत्सरः सदा ।।३३।।

विप्राणां ज्ञानतो ज्यैष्ठयं बाहुजानां तु वीर्यतः । वैश्यानां धनधान्याभ्यामितरेषां तु जन्मतः ।।३४।।

पुरःस्थितं क्रमप्राप्तं ब्राह्मणं भोजनेऽर्चने । दाने चापि विहायान्यं न स्वीकृर्यात्कदाचन ।।३५।।

ब्राह्मणातिक्रमे दोषो मूर्खविप्रे न विद्यते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ।।३६।।

यो मानयेग्दुरुजनान्विनयेन विप्रान् साधूंश्च सोऽत्र लभते महतीं हि कीर्तिम् ।

मृत्वा परत्र च निजेप्सितभूरिसौख्यं प्राप्नोति वै गृहिजनो द्विजवर्य ! ।।३७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु गुरुजनसन्माननिरूपणनामा षोडशोऽध्यायः ।।१६।।