श्रीनारायणमुनिरुवाच :-
वदाम्यथ सदाचारं गृहस्थानां हितावहम् । सद्बिराचर्यते यस्मात्सदाचारस्ततो मतः ।।१।।
आचारवन्तो मनुजा लभन्ते आयुश्च वित्तं च सुतांश्च सौख्यम् ।
धर्मं तथा शाश्वतमीशलोकमत्रापि विद्वज्जनपूज्यतां च ।।२।।
आचारेण सदा विद्वान्वर्तते यो जितेन्द्रियः । स ब्रह्म परमभ्येति वरेण्योऽमुत्र चेह च ।।३।।
आचारः परमो धर्म आचारः परमं तपः । आचाराद्वर्धते ह्यायुराचारात्पापसङ्क्षयः ।।४।।
रागविद्वेषरहिता अनुतिष्ठन्ति यं भुवि । विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ।।५।।
प्रथमं धर्मसर्वस्वं यमाश्च नियमा मताः । अतस्तेष्वेव कर्तव्यः प्रयत्नः सर्वथा बुधैः ।।६।।
सत्यं क्षमार्जवं ध्यानमानृशंस्यमहिंसनम् । दमः प्रसादो माधुर्यं मृदुतेति यमा दश ।।७।।
शौचं स्ननं तपो दानं मौनेज्याध्ययनं व्रतम् । उपोषणं ब्रह्मचर्यं दशैते नियमां स्मृताः ।।८।।
कामं क्रोधं मदं मोहं मात्सर्यं लोभमेव च । अमीन् षड्वैरिणो जित्वा सर्वत्र विजयी भवेत् ।।९।।
धर्ममेव सदा रक्षेत्परलोकसुखावहम् । नान्यः कोऽपि सहायोऽस्ति जनस्यामुत्र तं विना ।।१०।।
गृहेभ्योऽर्थानिवर्तन्ते श्मशानात्पुत्रबान्धवाः । स्वकृतं केवलं कर्म गच्छन्तमनुगच्छति ।।११।।
अनभ्यासात्तु वेदानां सदाचारस्य वर्जनात् । आलस्यादन्नदोषाच्च द्विजान्मृत्युर्जिघांसति ।।१२।।
ततोऽभ्यसेत्प्रयत्नेन सदाचारं सदा द्विजः । तीर्थान्यप्यभिवाञ्छन्ति सदाचारसमागमम् ।।१३।।
ब्राह्मे मूहूर्त उत्थाय चिन्तयेदात्मनो हितम् । रजन्या अन्तिमो यामो मुहूर्तो ब्राह्म उच्यते ।।१४।।
उपान्त्यो वा मुहूर्तोऽपि रजन्या ब्राह्मसंज्ञिातः । तत्र निद्रा तु या नणां सा पुण्यक्षयकारिणी ।।१५।।
सुप्त्वा प्रभादतस्तत्र तद्दोषस्यापनुत्तये । प्रायश्चित्तं प्रकुर्वीत पादकृच्छ्रं द्विजः खलु ।।१६।।
ध्यात्वा ततः स्वहृदये सग्दुरुं प्रणमेद्धरिम् । भक्तानां तस्य नामानि कीर्तयन्प्रणमेन्मुदा ।।१७।।
तद्विभूतीस्तथा देवान्महर्षींश्चापि संस्मरन् । पुण्यक्षेत्राणि गङ्गाद्याः सरितः प्रणमेत्स च ।।१८।।
प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ।।१९।।
प्रातर्नमामि मनसा वचसा च मुर्ध्ना पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारकस्य पारायणप्रवरविप्रपरायणस्य ।।२०।।
प्रातर्नमामि भजतामभयंकरं तं प्राक्सर्वजन्मकृतपापभयापहत्यै ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोरशोकप्रणाशनकरो धृतशङ्खचक्रः ।।२१।।
श्लोकत्रयमिदं पुण्यं प्रातःप्रातः पठेन्नरः । लोकत्रयपतिस्तस्मै दद्यादात्मपदं हरिः ।।२२।।
ततः पुमान्स उत्थाय कुर्याद्विण्मूत्रकर्म च ।नैऋर्त्यां शरविक्षेपमितां भूमिमतीत्य वै ।।२३।।
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । कुर्यान्मूत्रपुरीषे तु शुचौ देशे च निर्जने ।।२४।।
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्गमुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ।।२५।।
छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ।।२६।।
बहिर्ग्रामान्न गन्तव्यं निशि तूत्सर्गकर्मणे । कार्यं गृहसमीपादौ तथा रोगिजनेन तत् ।।२७।।
मलोत्सर्गविधिं कृत्वा याम्यायां दिशि वा पुमान् । मृदाम्बुना चरेच्छौचं विशुद्धेऽथ जलाशये ।।२८
न तिष्ठन्नाप्सु नो विप्रगोवह्न्यर्केन्दुसम्मुखः । न फालकृष्टभूभागे न मार्गे न नदीतटे ।।२९।।
गवां मध्ये धान्यमध्ये जीर्णदेवालये क्वचित् । विण्मूत्रष्ठीवनं नैव कुर्यात् स्त्रीसम्मुखस्तथा ।।३०।।
शतहस्तं परित्यज्य मूत्रं कुर्याज्जलाशयात् । शतद्वयं पुरीषे तु तीर्थे चैतच्चतुर्गुणम् ।।३१।।
गृीयान्न मृदं मार्गान्नोषराद्विट्स्थलादपि । शौचोच्छिष्टां सजन्तुं च तथा वल्मीकसम्भवाम् ।।३२।।
एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः । देयाः सप्तोभयोर्दोष्णोस्तिस्रस्तिस्रश्च पादयोः ।।३३।।
एतदर्धं तु नारीणां शूद्राणां चापि कीर्तितम् । कुर्यान्निशीत्थं विप्रोऽपि पथि शूद्रवदाचरेत् ।।३४।।
कुर्याद्द्वादश गण्डूषान् पुरीषोत्सर्जने द्विजः । मूत्रोत्सर्गे तु षट् कुर्याच्चतुरो वापि धर्मवित् ।।३५।।
पीतशेषं शौचशेषं नाचामेदुदकं द्विजः । पात्रान्तरस्याभावे तत्किञ्चित्त्यक्त्वा तदाचरेत् ।।३६।।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारीणाम् । त्रिगुणं वनिनां प्रोक्तं यतीनां तु चतुर्गुणम् ।।३७।।
आर्तः कुर्याद्यथाशक्ति शक्तः कुर्याद्यथोदितम् । शौचमेतत्प्रयत्नेन देशकालानुसारतः ।।३८।।
कृते मूत्रपुरीषेऽपि यदि नैवोदकं भवेत् । तदा यर्ह्युदकाप्तिः स्यात्तदा स्नयात्सचैलकः ।।३९।।
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि । कृत्वा मूत्रं पुरीषं च द्रव्यहस्तो न दुष्यति ।।४०।।
कर्तव्यं यत्नतः शौचं शौचमूला द्विजातयः । शौचाचारविहीनानां सर्वाः स्युर्निष्फलाः क्रियाः ।।४१
तत्सद्बिर्द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृदम्बुभ्यां भवेद्बाह्यं भावशुद्धिस्तथान्तरम् ।।४२।।
न शुध्द्येद्बाह्यशौचेन शौचमाभ्यन्तरं विना । तस्मादुभयथा शौचं यः करोति स शुद्ध्यति ।।४३।।
स्त्रियां द्रव्ये च लुब्धस्य प्राणिद्रोहरतस्य च । अवाच्यवक्तुं किं शौचैर्मृत्कूटैश्च नदीजलैः ।।४४।।
मुखस्य शुद्धये कुर्यात्प्रत्यहं दन्तधावनम् । अजन्तुना तु काष्ठेन कनिष्ठाग्रसमेन च ।।४५।।
द्वादशाङ्गुलमानं तत्सार्द्रं विप्रस्य कीर्तितम् । एकैकाङ्गुलह्रसं च क्षत्रादीनां क्रमान्मतम् ।।४६।।
प्रतिपद्दर्शषष्ठीषु व्रताहे श्राद्धवासरे । सङ्क्रान्तावपि काष्ठेन न कुर्याद्दन्तधावनम् ।।४७।।
अलाभे दन्तकाष्ठस्य निषिद्धे च तथाऽहनि । अपां द्वादश गण्डूषैर्विदध्याद्दन्तधावनम् ।।४८।।
यस्तु गण्डूषसमये तर्जन्या दन्तधावनम् । करोति स तु मूढात्मा युज्यते पापकर्मणा ।।४९।।
नवाऽवश्यककर्माणि द्विजानां प्रतिवासरम् । स्ननं सन्ध्या जपो होमः स्वाध्यायो देवतार्चनम् ।।५०
वैश्वदेवं तथातिथ्यं नवमं पितृतर्पणम् । हीनः कर्मभिरेतैस्तु ज्ञोयश्चण्डाल एव सः ।।५१।।
उत्साहमेधासौभाग्यरूपसम्पत्प्रवर्तकम् । मनःप्रसन्नताहेतुः प्रातःस्ननं प्रशस्यते ।।५२।।
प्रातःस्ननं हरत्यंहो दारिद्रयं ग्लानिमेव च । अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ।।५३।।
जलाशये च कुत्रापि भूरिजन्तुसमाकुले । आपद्यपि न कर्तव्याः स्ननशौचादिकाः क्रियाः ।।५४।।
जलाशये निर्मलेऽपि नीचजात्युपसेविते । स्ननादिका क्रिया नैव कर्तव्यापद्यपि क्वचित् ।।५५।।
न नीचजातिसम्बन्धी वृक्षो वासाय च स्थलम् । उपलिप्तमपि क्वापि स्वीकर्तव्यं द्विजातिना ।।५६।।
अन्नं वासस्थलं चाम्बु यस्य स्यात्तस्य तत्त्वतः । जात्यादिकमपृैव स्वीकार्यं नैव कर्हिचित् ।।५७
सन्ध्याहीनोऽशुचिर्विप्रो ह्यनर्हः सर्वकर्मसु । यदन्यत्कुरुते पुण्यं न तस्य फलभाग्भवेत् ।।५८।।
विधियज्ञा पाकयज्ञा ये चान्ये बहवो मखाः । सर्वे ते जपयज्ञास्य कलां नार्हन्ति षोडशीम् ।।५९।।
धनोपार्जनसक्तो यो नादधात्यनलं द्विजः । सायं प्रातर्न वा होमं कुर्यात्स नरकं व्रजेत् ।।६०।।
यथाशक्ति न यो वेदं तदङ्गं वाऽपि भारतम् । पुराणं वा हरेः स्तोत्रं पठेत्स ब्रह्महा द्विजः ।।६१।।
यो न पूजयते नित्यं भक्त्या देवं जगत्प्रभुम् । स रासभत्वं लभते ततः शूकरतां द्विजः ।।६२।।
माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाचरेत् । पत्नी सायं बलीन् दद्यात्सिद्धान्नैर्मन्त्रवर्जितम् ।।६३।।
अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः । इह लोकेऽन्नहीनाः स्युः काकयोनिं व्रजन्त्यथ ।।६४।।
निष्पावान् कोद्रवान्माषानाढकीश्चणकांस्तथा । तैलपक्वं लवणयुग्वैश्वदेवे विवर्जयेत् ।।६५।।
हुतेन लीयते पापं स्वाध्यायाच्छान्तिमेति च । देवार्चनेन लभते दिव्यं लोकमभीप्सितम् ।।६६।।
अन्नार्थिनि समायाते पात्रापत्रं न चिन्तयेत् । अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ।।६७।।
यो न तर्पयते पितनुदकाञ्जलिभिर्द्विजः । तदङ्गरुधिरं ते च पिबन्ति प्रत्यहं ननु ।।६८।।
प्रागेव भुक्तेः शृणुयात्पुराणं चेत्संहितामात्रमसौ शृणोतु ।
सार्थं तु भुक्त्वा निशि वाऽपरो द्विजानुघस्रं शृणुयाग्दृहस्थः ।।६९।।
समागमं चाच्युतभक्तिभाजां यथावकाशं प्रतिवासरं सः ।
कुर्यात्सतां धर्मपरायणानां सद्बुद्धिलब्धिस्तत एव यत्स्यात् ।।७०।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे सदाचारेषु द्विजानामाह्निकविधिनिरूपणनामा सप्तदशोऽध्यायः ।।१७।।