अष्टादशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


प्रातःकृत्यं विधायैव प्रत्यहं गुरुवन्दनम् । गृही कुर्याच्च गुरवस्तस्मै दद्युः सुभाशिषः ।।१।।

आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् । धर्मवृद्धं वयोवृध्धमभिवन्देत सर्वथा ।।२।।

लौकिकं वैदिकं वापि ज्ञानमाध्यात्मिकं तथा । आददीत यतस्तं तु पूर्वमेवाभिवादयेत् ।।३।।

पाषण्डिनं च पतितं नास्तिकं पापदूषितम् । साधुद्रुहं कृतघ्नं च न नमेग्दुरुमप्यसौ ।।४।।

धावन्तं च प्रमत्तं च स्नन्तमुत्सर्गकर्म च । कुर्वन्तं दन्तधावं च वमन्तं नाभिवादयेत् ।।५।।

जपयज्ञाव्रतस्थं च समित्पुष्पकुशानलान् । उदपात्रं च भैक्षं च वहन्तं नाभिवादयेत् ।।६।।

देवताप्रतिमां दृा यतिं दृा च वैष्णवम् । सद्यः कुर्यान्नमस्कारं प्रायश्चित्त्यन्यथा भवेत् ।।७।।

एवं योषापि श्वश्रवाद्या योषाश्च प्रणमेग्दुरुम् । उदक्यां सूतिकां नारीं सा न वन्देत पापिनीम् ।।८।।

अभिवादनशिलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्यग्वर्धते आयुः प्रज्ञा यशो बलम् ।।९।।

कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् । मनसा त्रिविधं चेति दशकर्मपथांस्त्यजेत् ।।१०।।

प्राणिनां हिंसनं स्तैन्यं परदाराभिमर्शनम् ।एतानि त्रीणि कायेन सर्वथा परिवर्जयेत् ।।११।।

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । चत्वारि वाचां कर्माणि वर्जयेच्च प्रयत्नतः ।।१२।।

अभिध्यानं परस्वस्य परस्यानिष्टचिन्तनम् । वेदवादेषु नास्तिक्यं मनसा त्रीणि सन्त्यजेत् ।।१३।।

अरावप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुमप्यागते छायां नोपसंहरति द्रुमः ।।१४।।

न निषिद्धतिथौ भार्यामुपगच्छेन्न पुष्पिणीम । अप्राप्तरजसं नैव न व्रतस्थां न रेगिणीम् ।।१५।।

व्रतस्थायाः स्वभार्याया यो गृही काममोहितः । व्रतभङ्गं कारयति कुम्भीपाके स पच्यते ।।१६।।

लशुनं श्वेतवृन्ताकं पलाण्डुं गृञ्जनं तथा । न भक्षयेद्द्विजो धीमान् कलिङ्गं च कदाचन ।।१७।।

उद्यन्तं च न वीक्षेत नास्तं यान्तं न मध्यगम् । न राहुणोपसंसृष्टं न चाम्बुस्थं दिवाकरम् ।।१८।।

देवतायतनं विप्रं धेनुं मधु मृदं घृतम् । जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम् ।।१९।।

अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम् । सिद्धान्नं दधि सिद्धार्थान् गच्छन् कुर्यात्प्रक्षिणम् ।।२०।।

वृद्धभारिनृपस्नतस्त्रीरोगिवरचक्रिणाम् । मत्तोन्मत्तत्यागिनां च पन्था देयो हि वर्त्मनि ।।२१।।

अध्वनीनं श्रोत्रियं च त्यागिनं क्षुधितं तथा । भोजयेत्परया प्रीत्या मानयेच्च यथोचितम् ।।२२।।

यस्य कोष्ठगतं त्वन्नं वेदाभ्यासेन जीर्यते । स तारयति दातारं दशपूर्वान्दशावरान् ।।२३।।

सम्भोज्य भक्तानतिथीनाग्रामान्तादनुव्रजत् । सर्वत्र विनयः कार्यः सद्बक्तेषु विशेषतः ।।२४।।

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ।।२५।।

चतुरस्रं त्रिकोणं च वर्तुलं चेत्यनुक्रमात् । विप्राद्यैर्मण्डलं कार्यं पात्राधस्तात्तु भोजने ।।२६।।

प्राणाग्निहोत्रविधिना दद्यादादौ षडाहुतीः । स्वाहान्तैः प्रणवाद्यैश्च सात्मप्राणादिनामभिः ।।२७।।

तर्जनीमध्यमाङ्गुष्ठैः प्राणस्याहुतिरीरिता । कनिष्ठानामिकाङ्गुष्ठैरपानस्याहुतिः स्मृता ।।२८।।

मध्यमानामिकाङ्गुष्ठैर्व्यानस्य परिकीर्तिता । मध्यमानामिकान्याभिरुदानस्याहुतिर्मता ।।२९।।

समानस्य तु सर्वाभिराहुतिश्चान्तरात्मनः । एता दन्तैः स्पृशेन्नैव ग्रसेद्रसनया द्विजः ।।३०।।

यतिवृद्धब्रह्मचारिगर्भिण्यातुरबालकान् । सम्भोज्यातिथिभृत्यांश्च भुञ्चीयातां तु दम्पती ।।३१।।

कृष्णरामोपेन्द्रजन्मदिनेष्वेकादशीषु च । शिवरात्र्यां च नाश्नीयाग्दृहस्थोऽन्नं विनाऽपदम् ।।३२।।

व्रतेष्वेतेषु च क्वापि वैष्णवैर्व्यावहारिकम् । कर्म नैव प्रकर्तव्यं पारतन्त्र्यापदौ विना ।।३३।।

नाश्नीयाद्बार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवन्तीं जृम्भमाणां च न चासीनां यथासुखम् ।।३४

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसुवन्तीं च न मेहन्तीं स्त्रियं क्वचित् ।।३५।।

न सन्ध्ययोर्न दिवसे न निश्याद्यन्तयामयोः । शयीत नाशुचिः नाश्नीयात्सन्ध्ययोर्द्वयोः ।।३६।।

रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेत् नित्यं स दुःस्वप्नं न पश्यति ।।३७।।

नाचक्षीत धयन्तीं गां नैन्द्रं चापं च दर्शयेत् । नैकः स्वपेत् क्वचिच्छून्ये नैकलश्च पथि व्रजेत् ।।३८।।

स्त्रीधर्मिण्या नाभिवदेन्न रहश्च परस्त्रिया । एकाकिनीं व्रजन्तीं च भाषयेन्न परस्त्रियम् ।।३९।।

अपेयं न पिबेत् क्वापि नैवाभक्ष्यं च भक्षयेत् । अदेयं नैव दद्याच्च कुर्यान्नाकार्यकर्म च ।।४०।।

अभाष्यान्नैव भाषेत न विक्रीणीत गर्हितान् । अत्याज्यानि त्यजेन्नैव पतिताद्यैर्न संविशेत् ।।४१।।

काणानधांश्च कुब्जांश्च केकराक्षान् कुणींस्तथा । खञ्जान्मूकांश्च बधिरान्नार्तांश्चाधिक्षिपेत्क्वचित् ।।४२।।

दम्पत्योर्विप्रवह्नयोश्च शिवोक्ष्णोर्विष्णुतार्क्ष्योः । अन्तरा नैव गच्छेच्च स्त्रियोश्च गुरुशिष्ययोः ।।४३।।

दान आचमने होमे भोजने देवतार्चने । स्वाध्याये गुरुदेवाग्रे पौढपादो भवेन्नहि ।।४४।।

आसनारूढपादश्च जानुनोर्वापि जङ्घयोः । उर्वोश्च कृतपादो यः प्रौढपादः स उच्यते ।।४५।।

आत्मनाम गुरोर्नाम नामातिकृपणस्य च । आयिकामो न गृीयाज्ज्येष्ठापत्यकलत्रयोः ।।४६।।

गुरुं तपस्विनं वृद्धं विद्यावन्तं च सग्दुणम् । नाभाषयेत्वैष्णवं च त्वङ्कारेण नराधिपम् ।।४७।।

परक्षेत्रे चरन्तीं गां सूचयेन्नैव पूरुषः । अपायितोदकान् क्वापि बन्धीयान्न पशून्निशि ।।४८।।

न देवगुरुविप्रेभ्यो दीयमानं निवारयेत् । नात्मश्लाघां प्रकृर्वीत परनिन्दां च वर्जयेत् ।।४९।।

न शस्त्रसर्पैः क्रीडेच्च न कूपोत्प्लवनं चरेत् । न पादक्षालनं कुर्यात्पादेनैव पुमान्क्वचित् ।।५०।।

अग्नौ न प्रक्षिपेदग्निं न गुरोर्दुष्कृतं वदेत् । सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत्परान् ।।५१।।

प्रत्यक्षं लवणं नैव गृीयाद्बोजने सुधीः । सूर्यं पश्यन्स्मरेद्विष्णुं दुराचारस्य दर्शने ।।५२।।

श्रुतिस्मृतिविरुद्धं च पाषण्डं हैतुकं तथा । अनीश्वरे च यच्छास्त्रं तत्त्यजेद्दुरतः पुमान् ।।५३।।

श्वस्पृष्टं शकुनोच्छिष्टं केशकीटाद्युपाहतम् । भार्योच्छिष्टं गवाघ्रातमन्नं नैव च भक्षयेत् ।।५४।।

मद्यमांसादिसंस्पृष्टं तथा स्पृष्टमुदक्यया । अन्नं नाद्याच्च शाकादि विड्जातं परिवर्जयेत् ।।५५।।

चैत्यवृक्षं च न छिन्द्यान्मार्गे छायातरुं तथा । शय्यासने न चाक्रामेत्तस्मादुत्कृष्टनीचयोः ।।५६।।

न चामङ्गल्यशीलः स्यान्नैवामङ्गल्यवागपि । न चाधर्मोपदेशेन द्रव्यं कस्यचिदाहरेत् ।।५७।।

न वञ्चयेत्कर्मकरान्साधयित्वाऽर्थमात्मनः । न लोभयेत्स्त्रियं काञ्चिन्मादकं नैव भक्षयेत् ।।५८।।

न धर्मं ख्यापयेद्विद्वान्न पापं गोपयेत्तथा । कृष्णभक्तस्य साधोश्च पुरतस्तन्निवेदयेत् ।।५९।।

प्रायश्चितं यथाशक्ति कुर्याद्दुष्कर्मणो द्रुतम् । कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ।।६०।।

वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । देहस्य वाचो बुद्धेश्च योग्यं कर्म समाचरेत् ।।६१।।

ब्रह्मस्वमथ देवस्वं प्राणान्तेऽपि न चाहरेत् । अधिकं कालकूटाद्धि तद्विषं परिचक्षते ।।६२।।

अदत्तं कस्यचिद्वस्तु गृीयान्नैव किञ्चन । नहि स्तेयसमं पापमन्यज्जीवातिदुःखदम् ।।६३।।

काष्ठं फलं तृणं पुष्पं प्रकाशं वै हरेत्क्वचित् । केवलं धर्मकृत्यार्थमन्यथा पतितो भवेत् ।।६४।।

मिथ्यापवादं कस्यापि न ब्रूयात्कर्हिचित्पुमान् । ब्रुवन्पतति पूयोदे यावच्चन्द्रदिवाकरौ ।।६५।।

सत्यमेव सदा ब्रूयादन्यद्रोहो न तेन चेत् । नास्ति सत्यसमं पुण्यमित्युवाच प्रजापतिः ।।६६।।

अश्वमेधसहस्रं सत्यं च तुलया धृतम् । पुरा विरिञ्चिना तत्र सत्यमेवात्यरिच्यत ।।६७।।

स्त्रीषु नर्मणि वृत्त्यर्थे विवाहे प्राणसङ्कटे । गोविप्रगुरुकार्यार्थे नानृतं चापि दुष्यति ।।६८।।

भद्रमेव सदा ब्रूयाद्बद्रमेव विचिन्तयेत् । भद्रैरेवेह संसर्गं कुर्यान्नाभद्रपूरुषैः ।।६९।।

नोद्वृत्तोन्मत्तमत्तैश्च नाविनीतैश्च कर्हिचित् । कुर्यान्मैत्रीं न चाशीलैर्नैव चौर्यादिदूषितैः ।।७०।।

न चातिव्ययशीलैश्च न लुब्धैर्नातिवारिभिः । नासत्यवादिभिः क्रूरैर्न स्त्रैणैर्लोकनिन्दकैः ।।७१।।

न द्यूतसक्तैर्न र्न्यूनैर्न वेश्यागमिभिः क्वचित् । सहासीत न निःस्वैश्च न च दैवपरैर्नरैः ।।७२।।

कुर्वीत साधुभिर्मैत्रीं सदाचारावलम्बिभिः । विद्याविनयसम्पन्नैर्नित्यमुद्योगशालिभिः ।।७३।।

नागाधाम्ब्ववगाहेत न प्रदीप्तं गृहं विशेत् । नारोहेद्वृक्षशिखरं दन्तान्सङ्घर्षयेन्न च ।।७४।।

चतुष्पथं चैत्यतरुं श्मशानोपवनानि च दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा ।।७५।।

अप्यर्थहानिः सोढव्या वैरेणार्थागमं त्यजेत् । नोच्चासनं गुरोरग्रे सेवेत न कदाचन ।।७६।।

शमं नयति यः क्रुद्धान्सर्वान्बन्धूनमत्सरी । भीतांश्चाश्वासयेद्स्तु स्वर्गस्तस्याल्पकं फलम् ।।७७।।

जिव्हा भार्या सुतो भ्राता मित्रदाससमाश्रिताः । यस्यैते विनयाढयाः स्युस्तस्य सर्वत्र गौरवम् ।।७८

नोर्ध्वं न तिर्यग्दूरं वा वीक्षमाणश्च पर्यटेत् । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ।।७९।।

अन्वये सति सर्वस्वं भार्यां च शरणागतम् । कुलवृत्तिं च पुत्रांश्च दद्यान्नापद्यपि क्वचित् ।।८०।।

ऋणशुद्धिं स्ववंशं च वस्तूनां क्रयविक्रयौ । कन्यादानं गुणोत्कर्षं गोपयेन्नैव बुद्धिमान् ।।८१।।

संस्कारान्नं न भुञ्जीत प्रेतश्राद्धान्नमेव च । श्राद्धं कृत्वा परश्राद्धे भोक्तुं नैव व्रजेत्तथा ।।८२।।

तौर्यत्रिकप्रियो न स्यान्नाद्यादातृप्ति रात्रिषु । नारोहेच्च गवां पृष्ठे बाहुभ्यां न नदीं तरेत् ।।८३।।

नाधार्मिके वसेद् ग्रामे न पाषण्डिजनाकुले । पीडिते दुष्टराज्ञा च जीविकारहिते तथा ।।८४।।

यत्र राजा धर्मनिष्ठः श्रोत्रियः सजला नदी । ऋणप्रदाता वैद्यश्च पुरे तत्र वसेद् गृही ।।८५।।

पौराः सुसंहता यत्र सततं न्यायवर्तिनः । यत्रामत्सरिणो लोका वासस्तत्र सुखावहः ।।८६।।

नोत्पाटयेल्लोम नखं दशनैश्च कदाचन । करजैः करजच्छेदं तृणच्छेदं च वर्जयेत् ।।८७।।

शुभाय न यदायत्यां तत्त्यजेत्कर्म यत्नतः । अद्वारेण न गच्छेच्च स्ववेशमपरवेश्मनोः ।।८८।।

क्रीडेन्नाक्षेर्न धर्मघ्नैः सहासीत क्वचित्पुमान् । न शयीत तथा नग्नौ न नग्नौ जलमाविशेत् ।।८९।।

न स्पृशेदनिमित्तेन खानि स्वानि त्वनातुरः । गुह्यजान्यपि लोमानि यत्स्पर्शादशुचिर्भवेत् ।।९०।।

पादधौतोदकं मूत्रमुच्छिष्टान्नोदकानि च । निष्ठीवनं च श्लेष्माणं गृहाद्दूरे विनिक्षिपेत् ।।९१।।

कण्डूयनं च शिरसौ बाहुभ्यां न समाचरेत् । आताडनं कराभ्यां च क्रोशनं केशलुञ्चनम् ।।९२।।

पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् । सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः ।।९३।।

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेवं धर्मोऽस्ति मानद ! ।।९४।।

नागलितं पिबेत् क्षीरं न चाम्भो दीर्घधारया । न तिष्ठन् वामदोष्णा च भोजनावसरं विना ।।९५।।

पय ऐकशफं हेयं तथा क्रामेलकाविकम् । गोपीयूशस्तथा वर्ज्यो रात्रौ च दधिभोजनम् ।।९६।।

मद्यं नैव च पातव्यं नित्यं त्रैवर्णिकेन वै । न भक्षणीयं मांसं च हिंसा नरकदा यतः ।।९७।।

यो जन्तूनात्मपुष्टयर्थं हिनस्ति ज्ञानदुर्बलः । दुराचारस्य तस्येह नामुत्रापि सुखं भवेत् ।।९८।।

हन्ताऽनुमन्ता संस्कर्ता भोक्ता क्रेता च विक्रयी । उपहर्ता घातयिता हिंसको ह्यष्टधा मतः ।।९९।।

आर्द्रा वल्लास्तथाढक्यो भृष्टाः स्युर्यद्यनिस्तुषाः । पुम्भिः स्त्रीभिर्न भक्ष्यास्ते सूक्ष्मजीवान्तसम्भवात् १००

न स्वर्गकाम्यया कुर्यात्तीर्थेष्वपि कदाचन । आत्मघातं गृहस्थस्तु न च क्रोधाद्विषादिभिः ।।१०१।।

ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम् । वैश्यं सुखं समागम्य शूद्रं सन्तोषमेव च ।।१०२।।

पैशून्यं परदारांश्च क्रोधं द्रोहं तथाऽनृतम् । स्तेयं द्वेषं च दम्भं च त्यजेन्मायां च दूरतः ।।१०३।।

जन्मर्क्षं मैथुनं मन्त्रं गृहच्छिद्रं च वञ्चनम् । आयुर्धनं चापमानं स्त्रियं चेति सुगोपयेत् ।।१०४।।

श्रुतिभूदेवदेवानां नृपसाधुतपस्विनाम् । पतिव्रतानां नारीणां निन्दां कुर्यान्न कर्हिचित् ।।१०५।।

न मनुष्यस्तुतिं कुर्यान्नात्मानमपमानयेत् । वाचोवेगं मनोवेगं जिह्वावेगं च वर्जयेत् ।।१०६।।

सङ्कटे महति प्राप्ते यस्य कस्यापि देहिनः । यद्दीयते धनं तत्स्यादिहामुत्राप्यनन्तकम् ।।१०७।।

मातापितृविहीनं यो मौञ्जीपाणिग्रहादिभिः । संस्कारयेन्निजैरर्थैस्तस्य श्रेयस्त्वनन्तकम् ।।१०८।।

अग्निहोत्रैर्न तच्छ्रेयो नाग्निष्टोमादिभिर्मखैः । यच्छ्रेयः प्राप्यते मर्त्यैरेकस्मिन्हि द्विजे कृते ।।१०९।।

यो ह्यनाथस्य विप्रस्य विवाहं कारयेत् कृती । इह सौख्यमवाप्याथ सोऽक्षयं स्वर्गमेति च ।।११०।।

सुराज्ये वसतिं कुर्यात्सुमित्रे मैत्र्यमाचरेत् । सुभार्यायां वसेग्देहे सुशिष्यं बोधयेद्रहः ।।१११।।

कुराजराज्ये ह्यभयं कुतः स्यात्कुमित्रमैत्र्ये स्वहितं कुतः स्यात् ।
कुभार्यया निर्वृतता कुतः स्यात्कुशिष्यबोधेन सुखं कुतः स्यात् ।।११२।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे हेयोपादेयनिरूपणनामाष्टादशोऽध्यायः ।।१८।।औ--------------------------------