एकोनविंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


दुःस्वप्ने दुर्जनस्पर्शे श्मश्रुकर्मणि मैथुने । सद्यः स्ननं प्रकुर्वीत शवादिस्पर्शने तथा ।।१।।

वेदबाह्यमतान् स्पृा बौद्धादीन्नास्तिकानपि । कृत्वा स्ननं विलोक्यार्कं नामानि प्रजपेद्धरेः ।।२।।

शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादिसंस्पर्शे स्ननमेव कुमारके ।।३।।

प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारकस्तु विज्ञोयो यावन्मौञ्जीनिबन्धनम् ।।४।।

खलक्षेत्रगतं धान्यं कूपवाप्यादिषूदकम् । स्पर्शदृष्टमपि ग्राह्यं यच्च गोष्ठगतं पयः ।।५।।

आपश्च सक्तवो धाना दधि तक्रं घृतं पयः । शूद्रहस्तादपि ग्राह्यं द्विजेनेत्यब्रवीन्मनुः ।।६।।

शुध्येच्च कारुहस्तस्थं पण्यं यत्स्यात्प्रसारितम् । भैक्षं च प्रोक्षणाच्छुध्द्येत्स्पृष्टिः साक्षान्न यस्य तत् ।।७

धान्यानां वायुना शुद्धिर्घृतादीनां च वह्निना । कालेन गजदन्तादेर्भवेच्छुद्धिश्च चर्मणाम् ।।८।।

शुद्धिश्च यज्ञापात्राणां भवेदुष्णोदकेन वै । काष्ठानामथ तन्तूनां वाससामुदकेन च ।।९।।

अल्पे जलाशये शुद्धयेत् त्र्यहेणैव नवोदकम् । दशाहेनैव महति गत्यभावे दिनान्तरे ।।१०।।

लेपोल्लेखाच्चाम्बुसेकाग्दृहं शुद्धयेच्च लेपनात् । अमेध्यलिप्तं मृत्तोयैर्गन्धापहरणेन वै ।।११।।

ऊर्णा कौशेयकुतपपट्टक्षौमदुकूलकाः । एते शुद्धा भवन्त्येव शोषणप्रोक्षणादिभिः ।।१२।।

तूलिकामुपधानं च पुष्परक्ताम्बराणि च । शोषयित्वातपे किञ्चिन्मुहुर्हस्तेन मार्जयेत् ।।१३।।

पश्चाच्च वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि । अधिके सति मालिन्ये शोधयेत्तानि वारिणा ।।१४।।

उदुम्बरस्य चाम्लेन क्षारेण त्रपुसीसयोः । भस्माम्बुभिश्च कांस्यस्य रीतेः शुद्धिश्च मृज्जलैः ।।१५।।

शुध्येत्तु भस्मना कांस्यं न चेन्मद्येन लेपितम् । सुरामूत्रादिसंस्पृष्टं शुध्येदुल्लेखनेन वै ।।१६।।

ताम्रमम्लेन शुध्येच्च न चेदामिषलेपनम् । आमिषेण तु यल्लिप्तं तत्तु दाहेन शुध्यति ।।१७।।

गवाघ्रातानि कांस्यानि श्वपाकोपहतानि च । शुध्यन्ति दशभिः क्षारैः शुद्रोच्छिष्टानि यानि च ।।१८।।

प्रभूतो ह्यन्नराशिश्चेत् श्वादिनोपहतस्तदा । अग्रमात्रं समुत्सृज्य शेषः स्यात्प्रोक्षणाच्छुचिः ।।१९।।

रजोऽग्निरश्वो गौश्छायारश्मयो विप्लुषो मही । वायुर्जलं मक्षिकाद्या दुष्टसङ्गाददोषिणः ।।२०।।

दर्भाः कृष्णाजिनं मन्त्रो गावोऽग्निर्ब्राह्मणास्तिलाः । नैते निर्माल्यतां यान्ति नियोक्तव्याः पुनः पुनः ।२१

दर्भाः पिण्डेषु निर्माल्यं ब्राह्मणाः प्रेतभोजने । मन्त्रः शूद्रेषु निर्माल्यं सन्न्यासिषु हुताशनः ।।२२।।

अद्बिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ।।२३।।

द्विविधस्याप्याशौचस्य शुद्धिं वक्ष्यामि ते त्वथ । वर्णाश्रमोचितां विप्र ! सेपादृषिसम्मताम् ।।२४

जाते पुत्रे पितुः स्ननं सचैलं तु विधीयते । दशाहं सूतकं तस्य कर्मानर्हत्वलक्षणम् ।।२५।।

पुत्रस्य जननी शुध्येदेकविंशतिवासरैः । कन्याया जननी शुध्येन्मासेनैकेन निश्चितम् ।।२६।।

सपिण्डानां च सर्वेषां दशाहं सूतकं मतम् । त्रिरात्रं सोदकानां च मुनिभिः परिकीर्तितम् ।।२७।।

सूतके सूतिकावर्जं संस्पर्शो न निषिध्यते । संस्पर्शे सूतिकायास्तु स्ननमेव विधियते ।।२८।।

प्रथमे दिवसे षष्ठे दशमे दिवसे तथा । त्रिष्वेतेषु पितुर्नास्ति सूतकं पुत्रजन्मनि ।।२९।।

अतो न विद्यते दोषः कर्तुर्जातककर्मणः । तस्माग्दोभूहिरण्यादिदानं च प्रतिगृताम् ।।३०।।

दशाहं शावमाशौचं सपिण्डेषु विधीयते । सोदकानां तु सर्वेषां त्रिरात्रं तदुदीरितम् ।।३१।।

दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ।।३२।।

आदन्तजननात्स्ननमादाहादह उच्यते । चौलोत्तरं त्रिरात्रं च पञ्चमाब्दात्परं तथा ।।३३।।

अहस्त्वदत्तकन्याया दत्तायाश्च दिनत्रयम् । आशौचं च व्रतादेशाद् द्विजानां स्वस्वजातिजम् ।।३४।।

दिनानि दश विप्रस्य द्वादश क्षत्रियस्य तु । विशः पञ्चदशाशौचं मासं शूद्रस्य कथ्यते ।।३५।।

सामान्यतो दशाहं वा चातुर्वर्ण्यस्य तत्स्मृतम् । आपत्काले नियमो दशाहस्यापि नास्ति वै ।।३६।।

त्रिरात्रमाहुराशौचमाचार्ये संस्थिते तथा । मातामहे च दौहित्रे स्वयाज्ये भगिनीसुते ।।३७।।

मातुलस्य च मातुल्यः श्वश्रूश्वशुरयोरपि । जामातुश्च भगिन्याश्च त्रिरात्रं स्वगृहे मृतौ ।।३८।।

अन्यथा पक्षिणी प्रोक्ता तथा पितृष्वसुर्मृतौ । मातृष्वसुः श्यासकस्य तथा सन्मित्रशिष्ययोः ।।३९।।

निजदेशाधिपादीनामेकाहाशौचमुच्यते । स्वल्पेऽपि सति सम्बन्धे स्ननं वासोयुतं मतम् ।।४०।।

त्रिधा विभज्य रजनीमाद्यभागद्वये मृतौ । जन्मादौ च दिनं पूर्वं ग्राह्यमन्त्ये तथोत्तरम् ।।४१।।

इत्थं केचिद्बुधाः प्राहुस्तथा केचिन्महर्षयः । निशीथात्प्राक् पूर्वदिनं प्राग्वा सूर्योदयाद्विदुः ।।४२।।

साग्नेर्दाहदिनादेव निरग्नेर्मृतिवासरात् । आशौचदिनसङ्खयापि विज्ञोया गृहिभिर्नृभिः ।।४३।।

सूतेर्ज्ञाने दशाहोर्ध्वं पुनर्नास्त्येव सूतकम् । शावाशौचे तु विज्ञोया व्यवस्थेत्थं द्विजोत्तम ! ।।४४।।

आत्रिमासात्त्रिरात्रं स्यात्षण्मासावधि पक्षिणी । एकाहं नवमासान्तमूर्ध्वं स्ननेन शुद्धयति ।।४५।।

देशान्तरमृते केचित्स्ननमात्रं महर्षयः । इच्छन्ति च तथा प्रेते यतौ वैखानसेऽपि च ।।४६।।

महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ।।४७।।

स्वदेशे परदेशे वा ह्यूर्ध्वं संवत्सरादपि । मातुः पितुः स्त्रियाः पत्युः पूर्णमासौचमुच्यते ।।४८।।

युद्धे मृतस्य नाशौचं गोद्विजार्थे मृतस्य च । प्राप्तश्च यो दुर्मरणमप्रमादेन तस्य च ।।४९।।

जनने जननं चेत्स्यान्मरणे मरणं तथा । पूर्वशेषेण शुद्धिः स्यादुत्तराशौचवर्जनम् ।।५०।।

दशाहिकं पतेदन्यत्सूतकं दशमेऽह्नि चेत् । रात्रिशेषे द्वयहाच्छुद्धिर्यामशेषे भवेत्त्र्यहात् ।।५१।।

शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुध्येत्सूतिस्तु न सूतिः शावशोधिनी ।।५२।।

स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुध्यति ।।५३।।

सूतकान्तरसम्प्राप्तावपि पुत्रादिना द्विज ! । नवश्राद्धानि देयानि यथाकालं यथाक्रमम् ।।५४।।

आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धिः पुनरेव सः ।।५५।।

ऋषिभिर्बहुधैवात्र सूतकाशौचविस्तरः । कृतोऽस्तीति ततो ज्ञोयो विशेषोऽन्यस्तु सन्मते ! ।।५६।।

नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्तितं सद्बिः शावं सौत्यं च सुव्रत ! ।।५७

मातुः पितुर्गुरोश्चैते निशम्य मरणं ततः । कुर्युः सवसनं स्ननं न त्वन्यस्य कदाचन ।।५८।।

व्रतयज्ञाविवाहेषु श्राद्धे होमेऽर्चने जपे । आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ।।५९।।

प्रारम्भो वरणं यज्ञो सङ्कल्पो व्रतसत्रयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया ।।६०।।

सूतके वर्तमाने च श्राद्धप्राप्तौ मनीषिभिः । कर्तव्यं सूतकान्ते तदमायां वा यथाविधि ।।६१।।

आपग्दतस्य सर्वस्य सूतकेऽपि न सूतकम् । स्वस्थकाले त्विदं सर्वं सूतकं परिकीर्तितम् ।।६२।।

सूतके कर्मणां त्यागो नित्यानामपि कथ्यते । प्रारब्धानि तु काम्यानि कर्तव्यानि यथाविधि ।।६३।।

सन्ध्या तु मानसी कार्या कुशवारिविवर्जिता । विप्रो दशाहमासीत वैश्वदेवविवर्जितः ।।६४।।

श्रौते कर्मणि तत्कालं स्नतः शुद्धिमवाप्नुयात् अशुद्धः पुनरेव स्यात्स्मार्तां त्वन्येन कारयेत् ।।६५।।

लवणे फलपुष्पादौ घृततैलपयस्सु च । पण्येषु चैव सर्वेषु न दोषो मृतसूतके ।।६६।।

आतुरे स्नन उत्पन्ने दशवारमनातुरः । स्नत्वा स्नत्वा स्पृशेदेनमातुरः शुद्धिमाप्नुयात् ।।६७।।

ज्वराभिभूता या नारी रजसा च परिप्लुता । तां चापीत्थं स्पृशेदन्या नारी स्नयात्पुनः पुनः ।।६८।।

राजा च राजकीयाश्च सत्रिणो व्रतिनस्तथा । स्ननाच्छुद्धाः स्वस्वकार्ये भिषक्छिल्प्यादयोऽपि च ६९

द्विविधाशौचमित्युक्तं सेपेण मया द्विज ! । तथैव चात्र विज्ञोयं तृतीयं राहुसूतकम् ।।७०।।

सर्वेषामेव वर्णानां सूतकं राहुदर्शने । स्नत्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ।।७१।।

आरनालं पयस्तक्रं दधि मणिकस्थोदकं चैव तिलदर्भैर्न दुष्यति ।।७२।।

सूर्यग्रहे तु नाश्नीयात्पूर्वं यामचतुष्टयम् । चन्द्रग्रहे च यामांस्त्रीन्बालवृद्धातुरान्विना ।।७३।।

ग्रस्तोदये च सूर्यस्य पूर्वरात्रौ न भोजनम् । ग्रस्तोदये विधोः पूर्वं नाह्नि भोजनमाचरेत् ।।७४।।

ग्रस्तास्ते सति तिग्मांशोरहोरात्रमुपोषणम् । कुर्यात्परेऽह्नि दृाऽर्कं ततः कुर्वीत भोजनम् ।।७५।।

ग्रस्ते चास्तं गते त्विन्दौ ज्ञात्वा मुक्त्यवधारणम् । स्ननहोमादिकं कुर्याद्बुञ्जीतेन्दूदये पुनः ।।७६।।

बालवृद्धातुराणां च रविन्द्वोर्ग्रहणात्पुरा । याम एको वर्जनीयो भोजनादावपि ध्रुवम् ।।७७।।

अज्ञानाद्ग्रहकाले यो भुङ्के स तु नराधमः । प्राजापत्येन शुध्येद्वै वेधकाले त्र्यहेण च ।।७८।।

रविग्रहः सूर्यवारे सोमे सोमग्रहस्तथा । चूडामणिरिति ख्यातः स योगः पुण्यवृद्धिकृत् ।।७९।।

वारेष्वन्येषु यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः । तत्पुण्यं कोटिगुणितं योगे चूडामणौ स्मृतम् ।।८०।।

ग्रस्यमाने स्मृतं स्ननं ग्रस्ते होमः सुरार्चनम् । मुच्यमाने तथा दानं मुक्ते स्ननं विधीयते ।।८१।।

मुक्तौ यस्तु न कुर्वीत स्ननं ग्रहणसूतके । स सूतकी भवेत्तावद्यावत्स्यादपरो ग्रहः ।।८२।।

शीताम्बूष्णोदकात्पुण्यमपारक्यं परोदकात् । भूमिस्थमुद्धतात्पुण्यं ततः प्रस्रमणोदकम् ।।८३।।

ततोऽपि सारसं पुण्यं ततः पुण्यं ततो महानदीतोयं पुण्यं पुण्यस्ततोऽम्बुधिः ।।८४।।

यथासम्भवतः स्ननं कर्तव्यं स्वस्य शुद्धये । दानं देयं यथाशक्ति गोभूहेमतिलादि च ।।८५।।

भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः । भवेच्च कीर्तिमान्भूमौ रूपवान् रूप्यदो भवेत् ।।८६

दीपदो निर्मलाक्षश्च गोदाता स्वर्गलोकभाक् ।स्वर्णदाता च दीर्घायुस्तिलदः स्याच्च सुप्रजाः ।।८७

वेश्मदोऽत्युच्चसौधः स्याद्वस्त्रदश्चन्द्रलोकभाक् । हयदो दिव्ययानश्च लक्ष्मीवान्वृषभप्रदः ।।८८।।

सुभार्यः शिबिकादाता सुपर्यङ्कप्रदोऽपि च । भवेत्ततः श्रद्धयैव दानं दद्यात्स्वशक्तितः ।।८९।।

श्रद्धया प्रतिगृाति श्रद्धया यो ददाति च । तावुभौ स्वर्गिणौ स्यातामन्यथा विफलं हि तत् ।।९०।।

चन्द्रसूर्यग्रहे यस्तु श्राद्धं विधिवदाचरेत् । तेनैव सकला पृथ्वी दत्ता भवति निश्चितम् ।।९१।।

रात्रौ श्राद्धे न दोषोऽस्ति ग्रहणे शशिनः किल । आशौचिनोऽपि ग्रहणे श्राद्धादिर्विहिता क्रिया ।९२

एवं सदाचारविधिर्मया तुभ्यं प्रदर्शितः । गृहाश्रमस्थितानां हि सर्वेषां सुखदायकः ।।९३।।

श्रीविष्णुभक्त्या सहितं य एतं नित्यं सदाचारमिहानुतिष्ठेत् ।
स प्राप्नुयात्कीर्तिमतीव शुद्धामन्ते च गोलोकपदं द्विजेन्द्र ! ।।९४।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे सदाचारेषु शुद्धिविधिनिरूपणनामैकोनविंशोऽध्यायः ।।१९।।