विंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


श्राद्धानि च यथाशक्ति यथाकालं यथाधनम् । यथाविधि प्रकुर्वीत गृहस्थो नियमान्वितः ।।१।।

प्रेतं पितंश्च निर्दिश्य भोज्यं दानं च तत्प्रियम् । श्रद्धया दीयते पुंसा यत्तच्छ्राद्धं प्रकीर्त्यते ।।२।।

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् । गोष्ठीश्राद्धं पार्वणं च शुद्धिश्राद्धं तथाऽष्टमम् ।।३।।

कर्माङ्गं नवमं श्राद्धं दैविकं दशमं स्मृतम् । पौष्टिकं यात्रिकं चेति श्राद्धानि द्वादशैव तु ।।४।।

एकोद्दिष्टं पार्वणं च वृद्धिश्राद्धं सपिण्डनम् । श्राद्धमेवं चतुर्धेति वदन्ति मुनयोऽपरे ।।५।।

दक्षिणाप्रवणे देशे तीर्थादौ स्वगृहेऽपि च । भूसंस्कारादियुक्ते श्राद्धं कुर्यात्प्रयत्नतः ।।६।।

तुलसीकाननच्छाया यत्र स्थाने भवेद् द्विज ! । तत्र श्राद्धं प्रदातव्यं पितणां तृप्तिहेतवे ।।७।।

शमीपत्रप्रमाणेन पिण्डं दद्याग्दयाशिरे । उद्धरेत्सप्तगोत्राणां कुलान्येकोत्तरं शतम् ।।८।।

म्लेच्छदेशे तथा रात्रौ सन्ध्यायां विप्रवर्जितः । न श्राद्धमाचरेद्विद्वान्नान्तरिक्षे कदाचन ।।९।।

आहुः षण्णवतिं श्राद्धान्यृषयः पितृतृप्तये । देशकालानुकूल्ये हि सत्यां च श्राद्धसंपदि ।।१०।।

अमामनुयुगक्रान्तिधृतिपातमहालयाः । आद्यन्ततिथिसंयुक्ता अष्टकाश्चेति तानि तु ।।११।।

भाद्रकृष्णत्रयोदश्यां मघास्विन्दौ करे रवौ । गजच्छायाभिधो योगस्तत्र श्राद्धं महाफलम् ।।१२।।

महानदीषु सर्वासु तीर्थेषु च गयामृते । जीवत्पितापि कुर्वीत श्राद्धं पार्वणधर्मवित् ।।१३।।

दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । न जीवत्पितृकः कुर्यात्तिलैस्तर्पणमेव च ।।१४।।

तीर्थयात्राप्रसङ्गेन गयाप्राप्तौ तु धर्मवित् । तीर्थश्राद्धं तत्र कुर्याच्छ्राद्धार्थं न तु तां व्रजेत् ।।१५।।

उद्वाहे पुत्रजनने पुत्रेष्टय सौमिके मखे । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ।।१६।।

महालये गयाणां च वृद्धौ चान्वष्टकासु च । श्राद्धं द्वादशदैवत्यं शोषं षाट्पौरुषं विदुः ।।१७।।

विषुवायनसङ्क्रान्तिमन्वादिषु युगादिषु । विहाय पिण्डनिर्वापं श्राद्धं कुर्वीत धर्मवित् ।।१८।।

अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । कार्यं मातुः पृथक् श्राद्धमन्यत्र पतिना सह ।।१९।।

स्वधर्मनिरतो विप्रः श्राद्धे भोजनमर्हति । वेदशास्त्रार्थवेत्ताऽपि दुराचारो न कर्हिचित् ।।२०।।

यत्र वेदास्तपो यत्र यत्र वृत्तं द्विजाग्रजे । पितृश्राद्धेषु तं यत्नाद्विद्वान्विप्रं समर्चयेत् ।।२१।।

गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदी सर्वाशी पापकर्मकृत् ।।२२।।

तीर्थेषु ब्राह्मणं नैव पुरीक्षेत्र कदाचन । अन्नार्थिनमनुप्राप्तं भोज्यं ते मनुरब्रवीत् ।।२३।।

विद्यादिगुणसम्पन्नो न लभ्येत यदि द्विजः । मातामहादयोऽप्यर्च्यास्तदा यदि सुलक्षणाः ।।२४।।

मातामहोऽथ दौहित्रो भागिनेयश्च मातुलः । मातृष्वसेयस्तज्जश्च मातुलेयस्तथैव च ।।२५।।

जामाता श्वशुरश्चैव भार्याभ्राता च तत्सुतः । ऋत्विग्गुरुरुपाध्याय आचार्यः श्रोत्रियस्तथा ।।२६।।

सुवृत्ताश्च सदाचारा एते श्राद्धेषु पावनाः । दुराचारा यदैते स्युस्त्याज्यास्तेऽपि तदा किल ।।२७।।

युगानुरूपतो यस्तु विद्याचारादिसंयुतः । न निन्द्यकर्मकर्ता चेच्छ्राद्धे पूज्यः स वाडवः ।।२८।।

हरेर्भक्तो यतिर्यत्र श्राद्धे भुङ्क्ते तदा तु तत् । परिपूर्णं भवेच्छ्राद्धं विनापि श्राद्धसम्पदम् ।।२९।।

यो वै यतीननादृत्य भोजयेदितरान्द्विजान् । विजानन्वसतो ग्रामे कव्यं तद्याति राक्षसान् ।।३०।।

दैवे कर्मण्युदक्संस्थान् प्राङ्गमुखानुपवेशयेत् । उदङ्ग्मुखान् द्विजान् पित्र्ये प्राक्संस्थानुपवेशयेत् ।।३१

द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ।।३२।।

सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् । पञ्चैतान्विस्तरो हन्ति तस्मात्कुर्यान्न विस्तरम् ।।३३

भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेषु विप्रेषु कामं तमपि भोजयेत् ।।३४।।

दन्तधावनताम्बूलं तैलाभ्यङ्गमभोजनम् । रत्यौषधपरान्नं च श्राद्धकृत्सप्त वर्जयेत् ।।३५।।

पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक् चाष्ट वर्जयेत् ।।३६।।

भोक्ष्यन्करिष्यन् श्वः श्राद्धं पूर्वरात्रौ प्रयत्नतः । भोजनं च व्यवायं च ऋतावपि विवर्जयेत् ।।३७।।

श्राद्धं जत्त्वा च भुक्त्वा च पुमान् यस्तु स्त्रियं व्रजेत् ।पितरस्तस्य तन्मासे तस्मिन्रेतसि शेरते ।।३८

अन्नक्षीरघृतक्षौद्रैरैक्षेवेण च तर्पिताः । प्राप्नुवन्त्यक्षयां तृप्तिं सर्वे पितृगणा अपि ।।३९।।

पलपैतृकमुक्तं यत्क्वचित्तत्तु कलौ युगे । निषिद्धमस्ति निगमे कर्तव्यं तन्न कर्हिचित् ।।४०।।

पराशरो मुनिश्रेष्ठः प्राहातः सकलान्मुनीन् । अनुव्रतान्सुव्रतादीन्मुख्या यस्य स्मृतिः कलौ ।।४१।।

अन्नं क्षीरं घृतं क्षौद्रमैक्षवं कालशाकवत् । एतैस्तु तर्पितैर्विप्रैस्तृप्यन्ति पितरो नृणाम् ।।४२।।

यस्तु प्राणिवधं कृत्वा मांसेन तर्पयेत्पितन् । सोऽविद्वांश्चन्दनं त्यक्त्वा कुर्यादङ्गारलेपनम् ।।४३।।

क्षिप्त्वा कूपे यथा किञ्चिद्बाल आदातुमिच्छति । पतत्यज्ञानतः सोऽपि मांसेन श्राद्धकृत्तथा ।।४४।।

इति तद्वचनान्नित्यं श्राद्धे मांसं विवर्जयेत् । धर्मशास्त्रमुपाश्रित्य वर्तमानः सुधीः पुमान् ।।४५।।

निर्दोषं पायसं तस्मादृषिधान्यानि च द्विजः । अर्पयेत्सर्वपितृभ्यस्तेन तुष्यन्ति ते खलु ।।४६।।

पयो दधि घृते चैव गवां श्राद्धेषु पावनम् । महिषीणां घृतं श्रेष्ठं प्राहुर्न तु पयः क्वचित् ।।४७।।

कालः कुतुपसंज्ञाश्च तथा नेपालकम्बलः । रौप्यं दर्भास्तिलाः श्राद्धे दौहित्रश्चेति पावनाः ।।४८।।

गोत्रनाम्नी समुच्चार्य क्षणदानादिकं चरेत् । सकारेण च वक्तव्यं गोत्रं सर्वत्र धीमता ।।४९।।

गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्चरेत् । यस्मादाह श्रुतिः सर्वाः प्रजाः कश्यपसम्भवाः ।।५०।।

पृथिवीषत्पिता प्रोक्तस्तत्पिता चान्तरिक्षसत् । अभिधानापरिज्ञाने दिविषत्प्रपितामहः ।।५१।।

विभक्तिभिस्तु यत्किञ्चित्पित्रादिभ्यः प्रदीयते । तत्सर्वं सफलं ज्ञोयं विपरीतं निरर्थकम् ।।५२।।

अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः ।।५३।।

विसर्गश्चालकश्चैव विकिरः पङ्क्तिवारणम् । करशुद्धिरपोशानं पितृपूर्वाणि षट् सदा ।।५४।।

स्वागते स्वस्तिवचने गोत्रशेषे प्रदक्षिणे । अर्घ्ये च दक्षिणादाने षट्सु सव्यं विधीयते ।।५५।।

अगस्त्यं भृङ्गराजं च तुलसी शतपत्रिका । चम्पकं तिलपुष्पं च पितणां वल्लभानि षट् ।।५६।।

केतकीं करवीरं च बकुलं कुन्दकं तथा । पाटलां चैव जातीं च श्राद्धे यत्नेन वर्जयेत् ।।५७।।

अनग्निरधनो वापि तथैव व्यसनान्वितः । आमश्राद्धं द्विजः कुर्याद्वृषलस्तु सदैव हि ।।५८।।

मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोऽपि न कुर्वीत श्राद्धमामेन वै द्विजः ।।५९।।

आवाहने स्वधाकारे मन्त्राश्चोह्याविसर्जने । अन्यकर्मण्यनूह्याः स्युरामश्राद्धविधौ बुधैः ।।६०।।

आमान्नस्याप्यभावे तु श्राद्धं कुर्वीत बुद्धिमान् । धान्याच्चतुर्गुणेनैव हिरण्येन सुरोचिषा ।।६१।।

पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् । न पक्वेन न चामेन कल्याणान्यभिकामयन् ।।६२।।

समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम् । स तु सङ्कल्पविधिना श्राद्धकाले तदाचरेत् ।।६३।।

आवाहनं स्वधाशब्दमर्घ्याग्नौकरणे तथा । विकिरं पिण्डदानं च साङ्कल्पे षड्विवर्जयेत् ।।६४।।

पिण्डमात्रं प्रदातव्यमभावे द्रव्यविप्रयोः । श्राद्धीयाहनि सम्प्राप्ते भवेन्निरशनोऽथवा ।।६५।।

उदकुम्भं प्रदद्याद्वा ब्राह्मणाय फलान्वितम् । तृणानि वा गवे दद्यान्न तु शून्यं दिनं नयेत् ।।६६।।

श्राद्धात्पूर्वं ब्रह्मयज्ञां न कुर्यात्तर्पणं तथा । पित्रोः श्राद्धानन्तरं तु द्वयं कुर्वीत बह्वृचः ।।६७।।

महालयादिकं श्राद्धमार्तवे सति योषितः । पञ्चमेऽह्नि प्रकर्तव्यममावास्यादिनेऽथवा ।।६८।।

पुष्पवत्स्वपि दारेषु वार्षिकं मासिकानि च । मृताह एव कार्याणि पाकेनैव यथाविधि ।।६९।।

व्रतोपवासदिवसे श्राद्धप्राप्तौ यथाविधि । श्राद्धं विधायोपवसेदाघ्राय पितृसेवितम् ।।७०।।

वैष्णवैस्तु विशेषेण श्राद्धमेकादशीभवम् । द्वादश्यामेव कर्तव्यं पितरो वैष्णवा यतः ।।७१।।

सन्न्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणं हि तत् ।।७२

आमश्राद्धं तु पूर्वा एकोद्दिष्टं तु मध्यतः । पार्वणं त्वपरो स्यात्प्रातर्वृद्धिनिमित्तकम् ।।७३।।

मृताहं मृतमासं वा पित्रादेर्यो न वेत्ति सः । मार्गे माघेऽथवाऽमायां श्राद्धमाब्दिकमाचरेत् ।।७४।।

यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । निषेकादौ च दीक्षायां वृद्धिश्राद्धं समाचरेत् ।।७५।।

वृद्धो तीर्थे च सन्नयस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ।।७६।।

अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् । तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत् ।।७७।।

श्राद्धेष्वेतेषु सर्वेषु प्राप्ता अतिथयो द्विजः । भोजनीयाः प्रयत्नेन यत्स्याच्छ्राद्धस्य पूर्णता ।।७८।।

ब्रह्मचारी स्वपित्रोस्तु कुर्यादेवौर्ध्वदैहिकम् । मासिकान्याब्दिकाद्यं च श्राद्धं सर्वं यथाविधि ।।७९।।

सन्न्यासी तु न कुर्वीत मातापित्रोरपि क्वचित् । मृताशौचं चाश्रुपातं श्राद्धपिण्डोदकक्रियाम् ।।८०।।

स्वाधिकारानुसारेण यथाशक्ति सदैवतान् । नार्चयेद्यः पितन्काले स पतेन्नरके ध्रुवम् ।।८१।।

अरोगः प्रकृतिस्थश्च चिरायुः पुत्रपौत्रवान् । अर्थवानर्थभोगी च श्राद्धकर्ता भवेन्नरः ।।८२।।

न सन्ति पितरश्चेति कृत्वा मनसि यो नरः । श्राद्धं न कुरुते तस्य रक्तं क्रुद्धाः पिबन्ति ते ।।८३।।

यथा गोषु प्रनष्टो वै वत्सो विन्दति मातरम् । एवं श्राद्धान्नमुद्दिष्टं मन्त्रः प्रापयते पितन् ।।८४।।

देवो यदि पिता जातः शुभकर्मानुयोगतः । तस्यान्नममृतं भूत्वा नूनं तत्रोपतिष्ठते ।।८५।।

मर्त्यत्वे भोज्यरूपेण पशुत्वं च तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेऽप्यनुगच्छति ।।८६।।

तत्तदन्नत्यैवेत्थं श्राद्धान्नं सर्वयोनिषु । प्राप्यते प्राणिभिस्तस्माच्छ्राद्धं कार्यं प्रयत्नतः ।।८७।।

इत्येष ते विप्र ! मया समासाच्छ्राद्धस्य सर्वोऽपि विधिर्यथावत् ।
प्रकीर्तितोऽथर्षिगणैः स्मृतेषु धर्मेषु वक्ष्ये कलिवर्ज्यधर्मान् ।।८८।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे श्राद्धविधिनिरूपणनामा विंशोऽध्यायः ।।२०।।