द्वितीयोऽध्यायः

श्रीनारायणमुनिरुवाच :-


ब्रह्मक्षत्रियविट्शूद्रा वर्णाश्चत्वार ईरिताः । मुखबाहूरुपादेभ्यो वैराजस्याभवन् द्विज ! ।।१।।

तेषां साधारणो धर्मश्चतुर्णामप्युदीर्यते । अहिंसा ब्रहचर्यं च त्यागोऽस्तेयं क्षमाऽर्जवम् ।।२।।

सन्तोषो ब्रह्मवित्सेवा ग्राम्येच्छापरिवर्जनम् । शौचं तपो दया सत्यं तितिक्षा च शमो दमः ।।३।।

युक्तायुक्तविवेकश्च जन्ममृत्युसमीक्षणम् । सर्वदा पापभीरुत्वं कुसङ्गपरिवर्जनम् ।।४।।

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथोचितम् । तेष्वात्मदेवताबुद्धिर्मनुष्येषु विशेषतः ।।५।।

कथायाः श्रवणं नित्यं कीर्तनं स्मरणं हरेः ।सेवेज्यावनतिर्दास्यं सख्यं चात्मसमर्पणम् ।।६।।

एष साधारणो धर्मः सर्वेषां सुखदायकः । कथितोऽथ विशेषांस्ते तेषां धर्मान्वदाम्यहम् ।।७।।

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । अहिंस्रयज्ञोऽमात्सर्यं मैत्री सत्यं धृतिर्दया ।।८।।

धर्मोऽनसूया दानं च हर्यर्चा मार्दवं त्रपा । ज्ञानं विज्ञानमास्तिक्यं स्वाध्यायः समदृष्टिता ।।९।।

चतुर्विंशतिसङ्ख्याका ब्राह्मणस्य मयोदिताः । गुणाः स्वाभाविका ह्येते सर्वाभीष्टफलप्रदाः ।।१०।।

शौर्यं धैर्यं च विर्यं च तितिक्षा तेज उद्यमः । औदार्यं स्थैर्यमुत्साहो मान आत्मजयस्तथा ।।११।।

ब्रह्मण्यत्वं तथैश्वर्यं रक्षणं चारिनिग्रहः । दक्षत्वं च प्रसादश्च सङ्ग्रामेष्वपलायनम् ।।१२।।

शस्त्रवाहनयोः प्रीतिर्दानं द्रव्यमखे रुचिः । ब्राह्मणाभ्यर्चनं नित्यं वासुदेवार्चनं तथा ।।१३।।

प्रजानां पुत्रवद्रक्षा शरणागतपालनम् । क्षत्रियस्य गुणा ह्येते प्रोक्ताः स्वाभाविका मया ।।१४।।

आस्तिक्यं चोद्यमो नित्यमदम्भो ब्रह्मसेवनम् । पोषणं च त्रिवर्गस्य भक्तिश्च गुरुदेवयोः ।।१५।।

कृषिर्गोरक्षणरुचिर्दाननिष्ठा च दक्षता । स्वाभाविका गुणा ह्येते वैश्यस्य परिकीर्तिताः ।।१६।।

शुश्रूषणं द्विजगवां देवानां चाप्यमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ।।१७।।

ब्राह्मणक्षत्रियविशस्त्रयः प्रोक्ता द्विजातयः । एकजातिर्मतः शूद्र उपनितेरभावतः ।।१८।।

आद्यं तु सत्कुले जन्म तेषां प्रोक्तं ततः परम् । संस्कारैर्वैदिकैश्चान्यत्तेन प्रोक्ता द्विजा इति ।।१९।।

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमोऽन्नप्राशनं चौलकर्म च ।।२०।।

कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्ननमुद्वाहो विवाहाग्निपरिग्रहः ।।२१।।

त्रेताग्निसङ्ग्रहश्चेति संस्काराः षोडश स्मृताः । ब्राह्मणक्षत्रियविशां वेदमन्त्रैरुदीरिताः ।।२२।।

नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियाः । विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश ।।२३।।

सच्छूद्रस्य दश प्रोक्ताः संस्कारा मन्त्रवर्जिताः असच्छूद्रस्य तु ब्रह्मन् ! विवाहो ह्येक ईरितः ।।२४।।

शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ।।२५।।

यज्ञादानादिकं मन्त्रैः पौराणैर्ब्राह्मणेरितैः । कुर्याच्च श्रृणुयाद्विप्रात्सपुराणं स भारतम् ।।२६।।

युगान्तरे तु नारीणामासीन्मौञ्जीनिबन्धनम् । अध्यापनं च वेदानां सावित्रीवाचनं तथा ।।२७।।

तत्रापि ब्रह्मवादिन्यः सद्योवध्वश्च सुव्रत ! बभूवुर्द्विविधा योषा द्विजानां तीक्ष्णबुद्धयः ।।२८।।

तत्राद्यानां व्रतस्थानामासीदग्नीन्धनं सदा । स्वगृहे भैक्षचर्या च ब्रह्मचर्यं तथाऽष्टधा ।।२९।।

अन्यासां तूपनयनाद्विवाहोऽभूच्च योषिताम् । एतत्कलौ निषिद्धं वै योषितां बुद्धिजाडयतः ।।३०।।

अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः । जीविकावृत्तयस्तिस्त्रो ब्राह्मणस्य प्रकीर्तिताः ।।३१।।

प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् । अन्याभ्यामेव जीवेत्स शिलैर्वा दोषदृक् तयोः ।।३२।।

चतुर्विधा तथास्यान्या जीविकावृत्तिरुच्यते । मुख्यानुकल्पभेदेन देहनिर्वाहहेतुना ।।३३।।

वार्ता विचित्राः शालीनं यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ।।३४।।

शस्त्राजीव्यं क्षिते रक्षा परसैन्यस्य निर्जयः । राज्यं च नीत्या सहितं क्षत्रस्योक्ता हि जीविका ।।३५।।

कृषिवाणिज्यगोरक्षाः कुसीदं च तुरीयकम् । वार्ता वृत्तिश्चतुर्धेत्थं वैश्यस्योक्ता च जीविका ।।३६।।

सेवनं ब्राह्मणादीनां निश्छद्म क्रयविक्रयौ । शूद्रस्येति स्मृतिप्रोक्ता जीविकाऽस्ति द्विजोत्तम ! ।।३७

लवणं मधु तैलं च दधि तक्रं घृतं पयः । विक्रिणीयाच्छूद्रजातिर्न दोषस्तस्य विद्यते ।।३८।।

विक्रयो मद्यमांसादेरभक्ष्यस्य च भक्षणम् । अगम्यागमिता चौर्यं शूद्राणां पातहेतवः ।।३९।।

इत्येते द्विजवर ! कीर्तिता मया ते वर्णानां निगममता वृषाश्चतुर्णाम् ।
वक्ष्यामि क्रममनुसृत्य वेदगीतं सर्वांस्तान् परमहितानथाश्रमाणाम् ।।४०।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे चातुर्वर्ण्यधर्मनिरूपणनामा द्वितीयोऽध्यायः ।।२।।