तृतीयोऽध्यायः

श्रीनारायणमुनिरुवाच :-


ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थश्च सन्मते ! । सन्न्यास इति चत्वार आश्रमाः परिकीर्तिताः ।।१।।

त्रैवर्णिकस्य चत्वार आश्रमा विहिता इमे । तुरीयमाश्रमं तेचिन्नेच्छन्ति क्षत्रवैश्ययोः ।।२।।

कीर्त्यमानान्मया तत्र द्विजातीनां यथोचितम् । ब्रह्मचर्याश्रमस्थानां धर्मानादौ श्रृणु द्विज ! ।।३।।

जातकर्मादिभिः पूर्वं संस्कारैः संस्कृतोऽपि सन् । उपनीत्यैव लभते द्विजत्वं द्विजबालकः ।।४।।

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । एकादशे क्षत्रियस्य वैश्यस्य द्वादशे स्मृतम् ।।५।।

तीक्ष्णबुद्धेर्ब्राह्मणस्य पञ्चमेऽब्देऽपि शस्यते । अष्टमे क्षत्रियस्यापि वैश्यस्य नवमे तथा ।।६।।

ब्रह्मवर्चसकामो वा विप्रोऽब्दे पञ्चमेऽर्हति । बलार्थी मेखलां क्षत्रं षष्ठेऽर्थार्थ्यष्टमे च विट् ।।७।।

संस्कारेष्विह सर्वेषु द्विजत्वप्रापको ह्ययम् । मौञ्जीबन्धनस्ततः सम्यक् कर्तव्यः स यथाविधि ।।८

विप्रं वसन्ते क्षितिपं निदाघे वैश्यं धनान्ते व्रतिनं विदध्यात् ।
माघादिशुक्रान्तिमपञ्चमासाः साधारणा वा सकलद्विजानाम् ।।९।।

न जन्ममासे न च जन्मधिष्ण्ये न जन्मकालीयदिने विदध्यात् ।
ज्येष्ठे न मासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि ।।१०।।

जन्ममासे तिथौ भे च विपरीतदले सति । कार्यं मङ्गलमित्याहुर्गर्गभार्गवशौनकाः ।।११।।

बृहस्पतेर्बलं दृा कर्तव्यमुपनायनम् । तस्मिंस्तु निर्बले कुर्याच्चैत्रे मीनगते रवौ ।।१२।।

स्वशाखेशबलं दृा लग्नशुद्धिं विलोक्य च । स्वस्वशाखानुसारेण पूर्वा व्रतमादिशेत् ।।१३।।

पितैवोपनयेत्पुत्रं तदभावे पितुः पिता । तदभावे पितुर्भ्राता तदभावेऽपि सोदरः ।।१४।।

शुद्धकार्पाससूत्रेण समेनात्रुटितेन च । स्थाने पवित्रे सङ्खयातं षण्णवत्याङ्गुलीषु च ।।१५।।

त्रिवृदूर्ध्ववृतं कार्यं तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ।।१६।।

यज्ञोपविते द्वे धार्ये श्रौते स्मार्ते च कर्मणि । तृतीयमुत्तरीयार्थे वस्त्राभावे तदिष्यते ।।१७।।

उपवीतं बटोरेकं द्वे तथेतरयोः स्मृते । एकमेव यतीनां स्यादित्याहुरपि केचन ।।१८।।

उपवीतं क्रमेण स्यात्कार्पासं शाणमाविकम् । सर्वेषां वा द्विजातीनां कार्पासं तत्प्रशस्यते ।।१९।।

पृष्ठदेशे च नाभ्यां च धृते यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलम्बं नचोच्छ्रितम् ।।२०।।

विप्रस्य मेखला मौञ्जी मौर्वी राज्ञो विशस्तथा ।शाणा सा प्रवरग्रन्थिस्त्रिवृच्छ्लक्ष्णा समा मता ।।२१।।

पालाशो दण्ड आमौलेर्बैल्वो वा ब्राह्मणस्य तु ।न्यग्रोधजः खादिरो वा ललाटान्तो नृपस्य च ।।२२

नासान्तः पैलवो दण्डो वैश्यस्यौदुम्बरोऽपि वा । ऐणं रौरवमाजं च विप्रादेरजिनं मतम् ।।२३।।

उपविश्योत्तरे चाग्नेराचार्यः प्राङ्गमुखः सुधीः । प्रत्यङ्गमुखाय बटवे सावित्रीं समुपादिशेत् ।।२४।।

प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् । दण्डाजिनोपवीताढयो बटुर्भिक्षेत्समेखलः ।।२५।।

ब्राह्मणक्षत्रियविशामादिमध्यावसानतः । भैक्षचर्या क्रमेण स्याद्बवच्छब्दोपलक्षिता ।।२६।।

यावत्तु नोपनयनं क्रियते वै द्विजन्मनः । कामचेष्टोक्तिभक्ष्यस्तु तावद्बवति सुव्रत ! ।।२७।।

कृतोपनयनः सम्यक् ब्रह्मचारी स कीर्त्यते । द्विजश्च सोऽथ प्रयतो वसेग्दुरुगृहे व्रती ।।२८।।

मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथाविधि ।।२९।।

ईदृशो ब्रह्मचारी च शौचाचारसमन्वितः । आहूतोऽध्ययनं कुर्याद्वीक्षमाणो गुरोर्मुखम् ।।३०।।

आरम्भेऽन्ते च शिरसा पादयोः प्रणमेग्दुरोः । छन्दांसि समधीयीत त्यक्त्वाऽनध्यायवासरान् ।।३१।।

गुरुश्च ताडयित्वापि विद्यानध्यापयेत्स तम् । औद्धत्यनाशनार्थत्वान्न दोषः शिष्यताडने ।।३२।।

अधोभागे शरीरस्य शनैः कुर्वीत ताडनम् । नोत्तमाङ्गे न हृदये दोषभागन्यथा भवेत् ।।३३।।

लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ।।३४।।

ब्रह्मचारी गुरुं नित्यं विद्याकामो जितेन्द्रियः । सेवेत तद्ब्रह्मचर्यं चतुष्पादित्युदीर्यते ।।३५।।

आचार्यमेव पितरौ ज्ञात्वा द्रोहादिवर्जितः । शिष्यवृत्त्याऽप्नुयाद्विद्यां पादोऽयं प्रथमोऽस्य हि ।।३६

गुरोः पत्नीं च पुत्रं च विनयान्मानयन् शुचिः । जितेन्द्रियोऽभ्यसेद्विद्यां द्वितीयः पाद इत्ययम् ।।३७

उपकारं गुरुकृतं निजजाडयविनाशनम् । जानन्सेवेत तं प्रीत्या तृतीयः पाद इत्ययम् ।।३८।।

आचार्यस्य प्रियं कुर्याद्वाङ्गमनःकायकर्मभिः ।प्राणैर्धनैश्चाप्रमत्तः पादस्तुर्योऽयमस्य च ।।३९।।

ज्ञानं सत्यं तितिक्षा हीरमात्सर्यं धृतिस्तपः । शमो दमोऽनसूया च दानं यज्ञो गुणा अमी ।।४०।।

कामः क्रोधः शोकमोहौ तृष्णेर्ष्या चाकृपा स्पृहा । लोभोऽसूया जुगुप्सा च मानो दोषो इमे मताः ।।४१

त्यक्त्वा दोषान् द्वादशैतान् युक्तो द्वादशभिर्गुणैः । वेदाभ्यासं प्रकुर्वीत वेदार्थं च विचिन्तयेत् ।।४२

सायं प्रातरुपासीत वह्निं चार्कं समाहितः । प्रातःसन्ध्यां जपं कृत्वा गुर्वादीन्प्रणमेत्स च ।।४३।।

अभिवादनशीलस्य वृद्धसेवारतस्य च । आयुर्यशो बलं बुद्धिर्वर्धतेऽहरहोऽधिकम् ।।४४।।

सायं प्रातश्चरेद्बैक्षं पवित्रद्विजवेश्मसु । निवेद्य गुरुवे तच्च भुञ्जीत तदनुज्ञाया ।।४५।।

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।।४६।।

नैकस्यान्नं समश्नीयान्नित्यं वर्णी ह्यनापदि । ब्राह्मणः काममद्याच्च श्राद्धे व्रतमपीडयन् ।।४७।।

तिष्ठेत्कृताञ्जलिर्भक्त्या गुरोरभिमुखं सदा । त्वमत्रोपविशेत्युक्तस्तस्यासीत पुरः स तु ।।४८।।

गुरोश्च चक्षुर्विषये न यथेष्टासनो भवेत् । नचैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।।४९।।

गुरोर्निन्दा भवेद्यत्र सद्य उत्थाय तत्स्थलात् । कर्णौ पिधाय गच्छेद्वा शिक्षयेन्निन्दकान्प्रभुः ।।५०।।

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । नचैवास्योत्तरं ब्रूयादुच्चशब्देन कर्हिचित् ।।५१।।

उदकुम्भं कुशान्पुष्पं समिधोऽस्याहरेत्सदा । मार्जनं लेपनं नित्यमङ्गानां च समाचरेत् ।।५२।।

नास्य निर्माल्यशयने पादुकोपानहावपि । आक्रामेदासनं छायां मञ्चकं वा कदाचन ।।५३।।

साधयेद्दन्तकाष्ठादीन्कृत्यं चास्मै निवेदयेत् । अनापृच्छय न गच्छेत्तं क्व पि स प्रियकृग्दुरोः ।।५४।।

पादौ प्रसार्य पुरतो गुरोर्नासीत कर्हिचित् । आस्फोटनं चाट्टहासं न कुर्यात्तत्र च स्वपिम् ।।५५।।

धावन्तमनुधावेच्च गच्छन्तं गुरुमन्वियात् । नोदाहरेच्च तन्नाम ब्रूयान्नापृष्टमुत्तरम् ।।५६।।

जितेन्द्रियः स्यात्सततं वश्यात्माऽक्रोधनः शुचिः । प्रयुञ्जीत सदा वाचं मधुरां गुरुसन्निधौ ।।५७।।

स्त्रीणां कथायाः श्रवणं कीर्तनं प्रेक्षणं तथा । सङ्कल्पं क्रीडनं ताभिर्निश्चयं गुह्यभाषणम् ।।५८।।

वर्जयेत्प्रयतो नित्यं तत्स्पर्शं तु विशेषतः । स्त्रीसङ्गिसंगं च बटुर्न कुर्यात्कर्हिचिद्व्रती ।।५९।।

गुरुवग्दुरुपत्नी च पूज्या च गुरुपुत्रकः । अवमानं न कुर्वीत तयोरपि कदाचन ।।६०।।

अभ्यञ्जनं स्नपनं च गात्रसम्भर्दनं तथा । गुरुपत्न्या न कुर्वीत केशानां च प्रसाधनम् ।।६१।।

गुरुपत्नीति युवतिर्नाभिवाद्या हि पादयोः । कुर्वीत वन्दनं भूमावसावहमिति ब्रुवन् ।।६२।।

अङ्गस्पर्शो न कर्तव्यो गुरुपत्न्या अपि क्व चित् । तेनापि व्रतभङ्गः स्याद्यतोऽत्र ब्रह्मचारिणः ।।६३।।

पितृष्वसा मातृष्वसा भ्रातृजाया च मातुली । गुरुपत्नीव मान्याश्च जननी भगिनी तथा ।।६४।।

गुरोस्त्यागो न कर्तव्यः कर्हिचिद्ब्रह्मचारिणा । कामाल्लोभाच्च मोहाच्च तं त्यक्त्वा पतितो भवेत् ।।६५

गुरोरप्यवप्तितस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ।।६६।।

लौकिकं वैदिकं वापि ज्ञानमाध्यात्मिकं यतः । आददीत न तं क्व पि गुरुं शिष्योऽवमानयेत् ।।६७

अहेरिव गणाद्बीतः सौहित्यान्मरणादिव । राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ।।६८।।

द्यूतं पुस्तकशुश्रूषा वाटिकासक्तिरेव च । स्त्रियस्तन्द्रा च निद्रा च विद्याविघ्नकराणि षट् ।।६९ ।।

विद्यामेवमधीयानो ब्रह्मचारी गुरोर्गृहे । वसंस्त्रिषवणस्नयी कुसङ्गं परिवर्जयेत् ।।७०।।

पुष्पस्रजश्चदनं च रसासक्तिं च कुङ्कुमम् । सुगन्धिद्रव्यसम्पर्कं वर्जयेद्दन्तधावनम् ।।७१।।

अभ्यङ्गं चाञ्जनं छत्रमादर्शालोकनं तथा । व्रती स वर्जयेद्दयूतं गीतवादित्रनर्तनम् ।।७२।।

प्राणिहिंसां च पैशुन्यं कामं लोभं भयं तथा । वर्जयेन्मधु मांसं च ह्यभक्ष्यं लशुनादिकम् ।।७३।।

सन्ध्ययोश्च दिवास्वापं निशश्चाद्यन्तयामयोः । वर्जयेच्च प्रयत्नेन परीवादमुपानहौ ।।७४।।

अनृत्यदर्शी च भवेद्ग्राम्यगीतं च सर्वथा । शृणुयान्न व्रती धीरो नानृतं च वदेद्वचः ।।७५।।

न मञ्चे शयनं कुर्यान्न च ताम्बूलभक्षणम् । तत्तत्कालोचितं सर्वं वेदिकं विधिमाचरेत् ।।७६।।

उपाकर्म च वेदानां कुर्वीत हि यथाविधि । बह्वृचः श्रावणे मासि पूर्वा श्रवणाख्यभे ।।७७।।

यजुर्वेदी च तन्मासे पौर्णमास्यां विधानतः । मध्याह्ने तत्प्रकुर्वीत हस्तर्क्षे तत्र सामगः ।।७८।।

सङ्क्रान्तिर्ग्रहणं वापि यदि पर्वणि जायते । श्रावणे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते ।।७९।।

अर्धरात्रादधस्ताच्चेत् सङ्क्रन्तिर्ग्रहणं भवेत् । उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् ।।८०।।

पौषमासस्य रोहिण्यामष्टकायामथापि वा । जलान्ते छन्दसां कुर्यादुत्सर्गं च द्विजो बहिः ।।८१।।

उपाकर्मदिनेऽप्येके वेदोत्सर्गं प्रकुर्वते । कर्मणोरुभयोरत्र ऋषीणां पूजनं स्मृतम् ।।८२।।

एवमांचारसम्पन्नमात्मवन्तमदाम्भिकम् । वेदशास्त्रपुराणानि गुरुरध्यापयेत्स तम् ।।८३।।

बहुनापि च कालेन परीक्ष्य ब्रह्मचारिणम् । उपादिशेग्दुरुर्ज्ञानं भूत्वा निष्कपटोऽखिलम् ।।८४।।

वेदं वेदौ च वेदान्वा सोऽप्यधीत्य यथारुचि । गुरवे दक्षिणां दत्त्वा समावर्तेत च द्विजः ।।८५।।

गृहं वनं वा प्रविशेत्प्रव्रजेद्वा विलोक्य सः । मन्दत्वं मध्यमत्वं च स्ववैराग्यस्य तीव्रताम् ।।८६।।

चतुर्विधो ब्रह्मचारी कथ्यते द्विजसत्तम ! सावित्रः प्राजापत्यश्च ब्राह्मो नैष्ठिक इत्यसौ ।।८७।।

प्राप्योपनयनं सम्यग्गायत्रीं प्रपठन्व्रतम् । दिनत्रयं धारयेद्यः प्रथमः स प्रकीर्तितः ।।८८।।

द्वितीयस्तु पठन्वेदं व्रती संवत्सरं भवेत् । आवेदग्रहणाद्वापि द्वादशाब्दान्व्रती परः ।।८९।।

यावज्जीवं चतुर्थस्तु तिष्ठेग्दुरुकुले व्रती । उत्तरोत्तरतः श्रैष्ठयं ज्ञोयमेतस्य निश्चितम् ।।९०।।

अज्ञानान्मांसमिश्रं वा सुरासंसृष्टमेव वा । पुनः संस्कारमर्हन्ति भुक्त्वाऽन्नादि द्विजातयः ।।९१।।

सेवमानो गुरुं सोऽपि व्रतं स्वं पालयेत् दृढम् । अज्ञानाज्ज्ञानतो वापि तच्च्युतौ निष्कृतं चरेत् ।।९२

अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ।।९३।।

असद्बैक्षभुजौ वान्ते नग्नस्त्रीदर्शने तथा । नग्नस्वापेऽभिनिर्मुक्ताभ्युदितत्वे दिवाशये ।।९४।।

श्मशानाक्रमणेऽश्वाद्यारोहे पूज्यव्यतिक्रमे । विना यज्ञोपवितं च भोजनादिक्रियाकृतौ ।।९५।।

प्रतिग्रहे च मण्यादेर्वृक्षसर्पादिघातने । एतेष्वन्यतमे दोषे जाते तच्छुद्धये द्विजः ।।९६।।

स्नत्वाचम्योत्तमे देशे कृत्वा त्रीन्प्राणसंयमान् । अष्टोत्तरसहस्रं तु प्रजपेद्वेदमातरम् ।।९७।।

प्रायश्चित्तं हि सर्वत्र व्रतभङ्गे समीरितम् । तच्चाग्रेऽहं वदिष्यामि सर्वेषां हि हितावहम् ।।९८।।

नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्तितं सद्बिः शावं सौत्यं च सन्मते ।।९९।।

आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् । निर्हृत्य च व्रती प्रेतं सद्यः स्ननेन शुध्ध्यति ।।१००।।

न त्यजेत्सूतके कर्म ब्रह्मचारी स्वकं क्व चित् । सव्रतो ह्येव कुर्वीत तेषां पिण्डोदकक्रियाम् ।।१०१

एते मया ते द्विजवर्य ! धर्मा आद्याश्रमस्थस्य यथावद्दुक्ताः ।
समासतोऽथाऽह्निककर्म सर्वं वदामि शुद्धं विहितं द्विजानाम् ।।१०२।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे ब्रह्मचर्याश्रमधर्मनिरूपणनामा तृतीयोऽध्यायः ।।३।।