चतुर्थोऽध्यायः

श्रीनारायणमुनिरुवाच :-


स्ननं सन्ध्याजपो होमः स्वाध्यायः पितृतर्पणम् । देवताभ्यर्चनं चेति षट् कर्माणि दिनेदिने ।।१।।

प्रातःस्ननं विना नैव द्विजन्मा निजकर्मसु । अर्हः सन्ध्यादिषु स्याद्वै तस्मात्तत्पूर्वमाचरेत् ।।२।।

नद्यां तडागे कूपे वा गृहे वा स्ननमाचरेत् । उद्धृत्य पञ्च मृत्पिण्डान्स्नयात् परजलाशये ।।३।।

विशुद्धां मृदमादाय बर्हींषि तिलगोमयम् । शुचौ देशे प्रतिष्ठाप्य विधिवत्स्ननमाचरेत् ।।४।।

उपग्रही बद्धशिखो जलमध्ये प्रविश्य च । तत्तन्मन्त्रैर्मृदादींश्च स्नयात्स्वाङ्गे विलिप्य सः ।।५।।

मन्त्राः स्ननेऽम्बुदैवत्याः पावमान्यश्च पावने । ग्रहीतव्या ऋचस्तेन स्मरता हृदये हरिम् ।।६।।

स्ननाङ्गं तर्पणं कृत्वा परिधाय च वाससी । धौते ततः स चाचम्य सन्ध्योपासनमाचरेत् ।।७।।

प्रातःस्नने न कर्तव्यं कदाचित्तिलतर्पणम् । जलमध्ये स्थितः कुर्यात्केवलं कुशवारिणा ।।८।।

उष्णोदकेन यत्स्ननं वृथा स्ननं तदुच्यते । अशक्तस्यैव तत्स्ननं प्रशस्तं मुनिभिः स्मृतम् ।।९।।

रविसङ्क्रान्तिवारेषु ग्रहणे च शशिक्षये । व्रताहेषु च षष्ठीषु स्नतव्यं वोष्णवारिणा ।।१०।।

अशक्तावशिरस्कं वा स्ननमस्य विधीयते । आर्द्रेण वाससा वाऽथ मार्जनं पावनं स्मृतम् ।।११।।

देशकालौ विलोक्यैव प्राहुः स्ननान्तराणि च । आपन्नानां द्विजातीनां पूर्वजा हि महर्षयः ।।१२।।

मार्जनं पावनैर्मन्त्रैर्ब्राह्मं स्ननं कुशोदकैः भस्मोद्धूलनमाग्नेयमापादतलमस्तकम् ।।१३।।

गोखुरोद्धूतरजसा वायव्यं स्ननमुच्यते । स्ननं सातपवर्षेण यत्तद्दिव्यमुदाहृतम् ।।१४।।

मानसं च हरेर्ध्यानं स्ननमाहुर्मनीषिणः । स्ननान्येतान्यशक्तस्य शक्तस्यैव तु वारुणम् ।।१५।।

कालातिक्रमणं न स्यात्सन्ध्यायाश्च यथा तथा । प्रातःस्ननविधिः कार्यो मध्याह्नेऽशेषमाचरेत् ।।१६

उर्ध्वपुण्ड्रं मृदा कृत्वा भस्मना वा त्रिपुण्ड्रकम् । स्वस्वशाखानुसारेण कुर्युः सन्ध्याविधिं द्विजाः ।।१७

रात्र्यन्तयामनाडयौ द्वे सन्ध्याकालोऽयमुच्यते । दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः ।।१८।।

आयतं पूर्वतः कृत्वा गोकर्णाकृतिवत्करम् । संहताङ्गुलिना तेन गृीयादुदकं द्विजः ।।१९।।

मुक्ताङ्गुष्ठकनिष्ठेन करेणाचमनं चरेत् । ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।।२०।।

अङ्गुष्ठमूलरेखायां ब्राह्यं तीर्थमिहोच्यते । प्रदेशिन्याश्च यन्मूलं पितृतीर्थं तदीरितम् ।।२१।।

कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रकीर्तितम् । अङ्गुल्यग्रे स्मृतं दैवं मध्ये वाह्नं च सौमिकम् ।।२२।।

तत्तत्कार्येषु बोद्धव्यं तत्तत्तीर्थं द्विजन्मना । त्रिरेवमाचम्य ततस्त्रिः कुर्यात्प्राणसंयमम् ।।२३।।

गायत्रीं शिरसा सार्धं सप्तव्याहृतिपूर्वकाम् । दशप्रणवसंयुक्तां प्राणायामे जपेद्विजः ।।२४।।

पञ्चागुलीभिर्नासाग्रपीडनं प्रणवाभिधा । मुद्रेयं सर्वपापघ्नी वानप्रस्थगृहस्थयोः ।।२५।।

कनिष्ठानामिकाङ्गुष्ठैर्नासाग्रस्य च पीडनम् । ॐकारमुद्रा सा प्रोक्ता यतेश्च ब्रह्मचारिणः ।।२६।।

सूर्यनारायणं साक्षाद्ब्रह्मविष्णुशिवात्मकम् । ध्यात्वा तमुदयात्पूर्वमर्घ्यदानं समाचरेत् ।।२७।।

दुर्निवार्या रुजन्त्यन्यैर्मन्देहानाम राक्षसाः । उद्यन्तं भास्करं नित्यं हन्यन्तेऽर्घ्योदकैश्च ते ।।२८।।

दिनान्तरे पुनस्ते च जीवन्त्येव विधेर्वरात् । सन्ध्यामुपासीत ततः प्रत्यहं द्विजसत्तमः ।।२९।।

विवस्वतः सहायार्थं यो द्विजो नाञ्जलित्रयम् । दद्यान्मन्देहनाशाय सोऽपि मन्देहतां व्रजेत् ।।३०।।

ईषन्नम्रः प्रभाते तु मध्याह्ने ऋजुसंस्थितः । उपविष्टस्तु सायाह्ने द्विजश्चार्ध्यं विनिःक्षिपेत् ।।३१।।

हस्ताभ्यां स्वस्तिकं कृत्वा ह्युपतिष्ठेत्प्रगे रविम् । मध्याह्ने तु ऋजू बाहू सायं मुकुलितौ करौ ।।३२।।

उत्तमा तारकोपेता मध्यमा लुप्ततारका । कनिष्ठा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ।।३३।।

उत्तमा सङ्गवाहूर्ध्वं मध्यमा कुतपात्परम् । अपरोऽधमा ज्ञोया मध्यसन्ध्या त्रिधा स्मृता ।।३४।।

उत्तमा सूर्यसहिता मध्यमा लुप्ततारका । कनिष्ठा तारकोपेता सायंसन्ध्या त्रिधोदिता ।।३५।।

यस्तु द्विजो लौकिककर्मसक्तः सन्ध्यां न काले समुपास्त उर्व्याम् ।
जीवन्मृतः शूद्रसमः स नूनं भविष्यति श्वा नृतनुं विहाय ।।३६।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्ननसन्ध्याविधिनिरूपणनामा चतुर्थोऽध्यायः ।।४।।