श्रीनारायणमुनिरुवाच :-
श्रुताध्ययनसम्पन्ना धर्मज्ञा: सत्यवादिनः । ह्रीनिषेवास्तथा दान्ता दयार्जवसमन्विताः ।।१।।
शक्ताः कथयितुं सम्यङ् न्यायान्यायौ यथातथम् । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ।।२
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यो नृपतिः पश्येद्वयवहारान् यथाविधि ।।३।।
लोकवेदज्ञाधर्मज्ञा: सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञासदृशी सभा ।।४।।
चतुष्पाद्वयवहारोऽयं विवादेषूपदर्शितः । भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।।५।।
व्यवहारपदान्यत्र ज्ञोयान्यष्टादशैव हि । ऋणादानं च निक्षेपस्तथैवास्वाभिविक्रयः ।।६।।
सम्भूय च समुत्थानं दत्तस्यानपकर्म च । संविद्वयतिक्रमः सीमाविवादः स्तेयसाहसम् ।।७।।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः । अशुश्रूषाभ्युपेत्याथ पारुष्ये दण्डवाचिके ।।८।।
स्त्रीसङ्ग्रहो वेतनस्यादानं द्यूतसमाह्वयः । दायभागश्च स्त्रीपुंसोर्धर्मश्चाष्टादशेति हि ।।९।।
तेषां विनिर्णयं कुर्यात्प्रमाणैर्दिव्यमानुषैः । प्रोक्तानि तत्र मुख्यानि मानुषाण्यर्थसिद्धये ।।१०।।
मानुषाणि तु त्रीण्याहुः साक्षिणो लेख्यभुक्तयः । प्रमाणानीति मुनयः सर्वश्रेयस्कराणि हि ।।११।।
तुलाग्न्यम्बुविषं कोशो तण्डुलास्तप्तमाषकः । दिव्यानीति प्रमाणानि धर्माधर्माख्यमष्टमम् ।।१२।।
यत्र सभ्यो जनः सर्व इदं साध्विति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा किल १३
गौरवं लाघवं दृा विवादस्याधिकारिणः । देशं कालं ततः कुर्यात्प्रमाणैर्निर्णयं नृपः ।।१४।।
यद्येको मानुषीं ब्रूयादन्यो ब्रूयाच्च दैविकीम् । मानुषीं तत्र गृीयान्न तु दैवीं क्रियां नृपः ।।१५।।
यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ।।१६।।
कुर्यात्स्वस्य च सभ्यानां धीबलेन च शास्त्रतः । प्रमाणैर्मानुषैर्वादनिर्णयं स नृपोत्तमः ।।१७।।
यस्य बुद्धिबलं नास्ति सभ्यानां स्वस्य वा स तु । प्रमाणैर्निर्णयं दिव्यैः कुर्याद्राजा स चाधमः ।।१८
बुद्धेः परीक्षा सभ्यानां स्वस्य ज्ञोया च निर्णये । विनाऽर्दनं कार्यसिद्धिः प्राणिनां स्यान्मतिर्हि सा ।।१९
वक्ताऽध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः । गणको गणयेदर्थं लिखेन्न्यायं च लेखकः ।।२०
पूर्वामुखस्तूपविशेद्राजा सभ्या उदङ् मुखाः । गणकः पश्चिमास्यस्तु लेखको दक्षिणामुखः ।।२१।।
ये चारण्यचरास्तेषामरण्ये करणं भवेत् । सेनायां सैनिकानां तु सार्थेषु वणिजां तथा ।।२२।।
केवलं शास्त्रमाश्रित्य न कर्तव्यो हि निर्णयः । देशजातिकुलाचारान् प्राचीनान् पालयेन्नृपः ।।२३।।
विवादे प्रतिभूर्ग्राह्यः समर्थ उभयोरपि । दुष्टश्च पुरुषो राज्ञा ज्ञातव्यो लक्षणैरिह ।।२४।।
स्विन्नभालः सृक्किलिट् च सगग्ददस्खलद्वचाः । स्थिरो नैकत्र पाण्ड्वास्यो दशन्नोष्ठौ च वक्रदृक् ।।२५
वाचालश्चैव विकृतिं दधत्स्वाभाविकीं तु यः । दुष्टः स इति विज्ञोयो राज्ञा साक्ष्यादिकर्मसु ।।२६।।
तत्रापि कश्चित्पुरुषः स्वभावमृदुलोऽपि च । सभाक्षोभस्खलद्वाक्यः परीक्ष्यो भीस्रवद्वपुः ।।२७।।
कुलीना दानशीलाश्च धार्मिकाः सत्यवादिनः । ऋजवः पुत्रवन्तश्च धनिनोऽथ तपस्विनः ।।२८।।
श्रौतस्मार्तक्रियानिष्ठास्त्र्यवराः साक्षिणो मताः । यथावर्णं यथाजाति सर्वे सर्वेषु वा स्मृताः ।।२९।।
नैते तु साक्षिणो ग्राह्या राज्ञा धर्मविदा क्व.चित् । स्त्री बालश्चातिवृद्धोऽपि मत्तोन्मत्ताक्षदेविनः ।।३०।।
अभिशस्तश्च पतितो धूर्तश्च विकलेन्द्रियः । तस्करः साहसी शत्रुः पाषण्डी कूटकृतसुहृत् ।।३१।।
बन्धुत्यक्तो दृष्टदोषः सहायश्चारणस्तथा । साक्ष्यानर्हा इमे ज्ञोयाः कार्यध्वंसविधायिनः ।।३२।।
जानन्नप्यब्रुवन् प्रश्नोत्तरं कामात् क्रुधा भिया । क्षिपत्यात्मनि पाशान्स सहस्रं वारुणान्नरः ।।३३।।
साक्षी वाप्यब्रुवन्साक्ष्यं विरुद्धं वा वदन्नपि । पाशान् सहस्रं क्षिपति पारिणान्सोऽपि चात्मनि ।।३४
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते । तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ।।३५।।
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते । तं निःशल्यं न ये कुर्युस्ते विद्धाः स्युः सभासदः ।।३६।।
अर्धं प्राप्नोत्यधर्मस्य मुख्यः किल सभापतिः । कर्तार एकं पादं च पादं चान्ये सभासदः ।।३७।।
वितथं तु वदेयुर्ये धर्मं सदसि पृच्छते । इष्टापूर्तं च ते घ्नन्ति सप्त सप्त परावरान् ।।३८।।
ये पातककृतां लोका महापातकिनां तथा । अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।।३९।।
तान् सर्वान्समवाप्नोति यः साक्ष्ये ह्यनृतं वदेत् । नश्यत्यशेषं सुकृतं सदस्यनृतभाषणात् ।।४०।।
प्राणिनां स्याद्वधो यत्र तत्र साक्ष्येऽनृतं वदन् । न दुष्यति पुमान्नूनं प्राप्नोत्येवान्यथा त्वघम् ।।४१।।
सभ्यामात्यादिभिः प्रोक्ते दण्डेऽपि नृपतिः स्वयम् । दद्याद्दमं विचार्यैव शिक्षार्थं सहसा न तु ।।४२
लोभमोहितमतिश्च भूपतिर्योऽर्थशास्त्रपर एव केवलम् ।
स्यात्स तु द्विज निजाच्च्युतो वृषात्स्याद्विनष्टनिखिलार्थ आशु वै ।।४३।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेष्वष्टादशव्यवहारनिर्णयनिरूपणनामा षड्विंशोऽध्यायः ।।२६।।