पञ्चविंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः । कुलीनः स्मृतिमान् धीमान्नीतिज्ञाश्चानृशंस्यवान् ।।१।।

मानितोऽमानितो वापि न च दूष्येत्कदाचन । शूरो विद्वान् हितैषी यः कार्यो मन्त्री स भूभुजा ।।२।।

कुलीनाः शीलसम्पन्ना इङ्गितज्ञा अनिष्ठुराः । देशकालविधानज्ञां शूरा धीरा हितैषिणः ।।३।।

ज्ञानविज्ञानसम्पन्नाः प्रकृतिज्ञा: परात्मनाम् । सत्यनिष्ठाश्च सन्तुष्टा ये ते कार्याः सुहृज्जनाः ।।४।।

सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतीकारः कार्यसिद्धिश्च पञ्चमी ।।५।।

पञ्चाङ्गानीति मन्त्रस्य विद्याद्वै राजकर्मसु । मन्त्रसंवरणं राज्ञा कर्तव्यं च प्रयत्नतः ।।६।।

अल्पप्रज्ञौर्दीर्घसूत्रैरलसैरबलैः सह । मन्त्रं न कुर्यान्नृपतिर्निद्रां तन्द्रां जयेत्तथा ।।७।।

विद्यामदं धनमदं हित्वा चाभिजनं मदम् । मन्त्रं सङ्गोपयेद्राजा यावत्स्याच्च फलोदयः ।।८।।

प्रासादे गिरिपृष्ठे वा निःशलाके वने रहः । मन्त्रं कुर्यान्महीपालः सम्यङ् नीतिरहोविदा ।।९।।

धन्वभूमिगिरिवृक्षजलमर्त्यमयानि षट् । राज्ञो दुर्गाणि तेष्वेकं नरदुर्गं सुदुस्तरम् ।।१०।।

नित्यमेव दया कार्या चातुर्वर्ण्ये हितैषिणा । सुरक्षिताः प्रजा राज्ञो वर्धयन्ति यशो महत् ।।११।।

मद्यशीला द्यूतकरा धूर्ताः पाषण्डिनो विटाः । कुशीलवाश्चारणाश्च नियन्तव्या नृपेण हि ।।१२।।

धनिनो मानयेद्राजा यतस्ते लोकधारकाः । वनस्पतीन्भक्ष्यफलांश्छेदयेन्नैव कर्हिचित् ।।१३।।

विप्राणां वृत्तिहीनानां कल्पयेज्जीविकां नृपः । आपद्भ्य उद्धरंस्तांश्च न क्वचिद्दुःखमाप्नुयात् ।।१४।।

कृपणानाथवृद्धानामश्रूणि परिमार्जयेत् । हर्षं सञ्जनयन्राजा न सीदत्यापदि क्वचित् ।।१५।।

आपत्काले तु नृपतिर्दीर्घसूत्री भवेन्नहि । लभतेऽर्थं क्षिप्रकारी दीर्घसूत्री विनश्यति ।।१६।।

गोविप्राणां हितं कुर्याद्युध्येच्छूरैश्च तत्कृते । तत्सस्यं नापहर्तव्यं सीरविघ्नं च नाचरेत् ।।१७।।

यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ।।१८।।

आयुधान्यायुधीयानां वाह्यानि बाह्यजीविनाम् ।
वेश्यानां न हरेद्बूषा वाद्यातोद्यादि तद्विदाम् ।।१९।।

जीविकोपकरणाहृतिर्नृणां शस्त्रघातत इहातिरिच्यते ।
धर्मविन्नरपतिस्तु तां ततो नाचरेत्क्वचन विप्रसत्तमः ।।२०।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेषु मन्त्र्यादिनिरूपणनामा पञ्चविंशोऽध्यायः ।।२५।।