सप्तविंशोऽध्यायः

धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । रिपौ मित्रे च पुत्रे च शिक्षायां स्यात्समो नृपः ।।१।।

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ।।२।।

विरोधो दृश्यते यश्च कर्तुरैक्येऽपि कुत्रचित् । अन्योन्यं स्मृतिवाक्यानां तत्र हेतुं वदामि ते ।।३।।

हरीच्छयैव मुनिभिर्दृा ननधिकारिणः । सात्त्विकादींस्ततस्तेषां हिताय स्मृतयः कृताः ।।४।।

तासु ये यादृशास्तेषां रोचन्ते तादृशानि हि । वचांसि तत्रापि मतं बलिष्ठं धर्मशासनम् ।।५।।

ततो राज्ञा ससभ्येन विचार्य स्वस्थचेतसा । दण्डोऽपराधिने देयः शिक्षार्थं धर्मवृद्धये ।।६।।

रुद्रस्वरूपो दण्डोऽयमधर्मेण प्रवर्तितः । यदि तर्हि विनाशाय राज्ञा एव प्रवर्तते ।।७।।

धर्मेण सुप्रयुक्तश्च शिक्षार्थं यदि तर्हि सः । निःसपत्नं वर्धयति राज्यं धार्मिकभूपतेः ।।८।।

यदि दण्डं न कुर्वीत राजा तर्हि जनाः स्वयम् । यथेष्टं कर्म कर्वीरन्धर्मध्वंसो भवेत्किल ।।९।।

देवैर्ब्राह्मादिभिर्भक्त्या प्रार्थितः शङ्करः पुरा । ससर्ज कृपया दण्डं प्रजानां वीक्ष्य सङ्करम् ।।१०।।

साक्षाद्रुद्रस्वरूपोऽसौ नियन्तुं जगदीश्वरः । आविर्भूतः स वै सर्वान्मर्यादायां व्यतिष्ठिपत् ।।११।।

ब्रह्मादिभिः पूजितोऽसौ क्षुपमन्वादिभिस्ततः । पूजितो ब्रह्मणः पुत्रैस्तत इन्द्रादिभिः सुरैः ।।१२।।

दिक्पालैः पूजितः सर्वैस्तन्मर्यादास्थितैस्ततः । सम्प्राप्तो भूतलं तत्र पूज्यते सर्वराजभिः ।।१३।।

नीलोत्पलदलश्यामश्चतुर्द्रंष्ट्रश्चतुर्भुजः । अष्टपान्नैकनयनः शंकुकर्णोर्ध्वरोमवान् ।।१४।।

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः । एवंरूपः सदा पूज्यो दण्डः सर्वनियामकः ।।१५।।

खड्गाद्यायुधरूपेण सर्वेषां सर्वकर्मदृक् । दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान् ।।१६।।

देवा दैत्या नरा नागाः सप्रजापतयः सदा । तद्बीताः स्वस्वमर्यादामाश्रिताः सुखिनोऽभवन् ।।१७।।

न स्याद्यदीह दण्डो वै प्रमन्थेयुः परस्परम् । भयाद्दण्डस्य नान्योन्यं घ्नन्ति लोका इति ध्रुवम् ।।१८

दण्डेन रक्ष्यमाणा हि वर्धयन्ति नृपं प्रजाः । तस्माद्राज्ञा माननीयो दण्डोऽसौ धर्मगुप्तये ।।१९।।

धर्मशीलैर्नृपैः पूर्वं यथा दण्डः प्रवर्तितः । अनुसृत्यैव तन्मार्गं वर्तेत न यथारुचि ।।२०।।

शिक्षार्थं विहितो दण्डो न वधायेति निश्चयः । सन्मार्गे स्थापयेद्राजा शिक्षयित्वा ततः प्रजाः ।।२१।।

वधार्हानपि नो हन्याद्धार्मिको नृपतिर्द्विजान् । विष्णवादिदेवभक्त्यङ्काननाथांस्त्यागिनस्तथा ।।२२।।

महापापादिके दोषे राजद्वेषादिके कृते । किञ्चिच्चिह्नं विधायैतान्स्वदेशान्ते विसर्जयेत् ।।२३।।

आततायिनमायान्तमपि विप्रादिकं रणे । निगृह्य स्थापयेद्राजा धार्मिको न तु घातयेत् ।।२४।।

युद्धेऽपि नृपतिर्नैव हन्यादपयशस्करान् । असमैर्नैव युध्येत नातिनीचैः स्वयं नृपः ।।२५।।

श्रान्तं भीतं रुदन्तं च बालं वृद्धं च रोगिणम् । अनुद्यते चासहायमतिनीचं च भिक्षुकम् ।।२६।।

तवाहंवादिनं क्लीबं निःशस्त्रं परसङ्गतम् । युद्धप्रेक्षकमुनिमत्तं सूतं दूतं पराङ्मुखम् ।।२७।।

प्रकीर्णकेशं चाकच्छमुपविष्टमसारथिम् । व्यश्वं कृताञ्जलिं वृक्षारूढं विकवचं तथा ।।२८।।

पिबन्तमम्बु भुञ्जानं राजानं चाहवे क्वचित् । राजा न हन्यादश्वं च सारथिं च गजं वृषम् ।।२९।।

अदण्डय ब्राह्मणा राज्ञा यतो राजा तदुद्बवः । अन्यथा शाम्यति क्षात्रं तेजस्तेष्वप्सु वह्निवत् ।।३०।।

पितरौ च गुरुं क्वापि ताडयेन्न तपस्विनम् । सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित् ।।३१।।

अवृत्त्या यो भेत्स्तेनो वेदवित्स्नतकस्तथा । स तु राज्ञौव भर्तव्यः स्त्रियो रङ्काश्च साधवः ।।३२।।

यदि ते न निवर्तेरन्वृत्तिं लब्ध्वा कुकर्मेणः । तदा निर्वासनीयाः स्युस्तस्माद्देशात्सबान्धवाः ।।३३।।

न च हन्यान्नृपो जातु दूतं शत्रूक्तवादिनम् । कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः ।।३४।।

यथोक्तवादी स्मृतिमान् दूतः स्यात्सप्तभिर्गुणैः । तं हत्वा निरयं यायाद्राजा धर्मच्युतो भवेत् ।।३५।।

देवविप्रार्तसाधूनामनाथानां च वृत्तिहृत् । सामात्यो नृपतिर्याति कुम्भीपाकं न संशयः ।।३६।।

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । षष्टिं वर्षसहस्राणि विष्ठायां जायते कृमिः ।।३७।।

अनाथा दुर्बला ये स्युर्जनास्तेषु नराधिपः । कृपामेव प्रकुर्वीत क्लेशयेन्न तु तान्क्वचित् ।।३८।।

दुर्बलस्य हि यच्चक्षुस्तद्विषाग्निसमं मतम् । राज्ञाः कुलं दहत्येव क्लेशदातुर्न संशयः ।।३९।।

नहि दुर्बलदग्धं वै पुनः किञ्चित्प्ररोहति । अमानुषकृतो दण्डो हन्ति तं च नराधिपम् ।।४०।।

यत्राबलस्ताडयमानस्त्रातारं नाधिगच्छति । तत्र राज्ञाः सदस्यानां मूलच्छेदो भवेद्ध्रूवम् ।।४१।।

यः कोऽपि दुर्बलं जीवं बलवान् पीडयेज्जनः । कुलं समूलं दहति सोऽन्यायस्तस्य निश्चितम् ।४२

कृपणानाथवृद्धानां यदश्रुपरिमार्जनम् । पोषणं पालनं यच्च स राज्ञो धर्म उच्यते ।।४३।।

कामाल्लोभाद्बयाद्वेषाद्धर्मं जह्यान्न कर्हिचित् । धर्मेणैव नृपाः सर्वे दिव्यांल्लोकानवाप्नुवन् ।।४४।।

युधिष्ठिराद्याः क्षितिपा महान्तो धर्मं स्वकीयं न जहुर्यतोऽत्र ।
ततस्तदीया विशदैव कीर्तिरद्यापि लोके वितताऽस्ति विप्र ! ।।४५।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेषु दण्डनिरूपणनामा सप्तविंशोऽध्यायः ।।२७।।