अष्टाविंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


ब्राह्मणानां ब्रह्मविदां सेवां कुर्यात्प्रयत्नतः । राज्यवृद्धिक्षयौ तेषां प्रसादाच्चाप्रसादनात् ।।१।।

सन्तुष्टाः सेवया विप्राः किं किं न नृपवाञ्छितम् । साधयेयुः स्वतपसा देवान्कुर्युर्हि स्वकान् ।।२।।

ब्राह्मणानां प्रसादेन पार्थिवा बहवः पुरा । कृत्वा महान्ति पुण्यानि प्राप्ताः सिद्धिं सुदुर्लभाम् ।।३।।

अवमानाद्ब्राह्मणानां प्रनष्टा नहुषादयः । स्वर्गगा अपि राजानो देवा दैत्याः सहस्रशः ।।४।।

तस्मान्नित्यं ब्राह्मणानां कुर्वीत प्रीणनं नृपः । श्रेयोर्थी निर्मदो भूत्वा भ्रश्यत्येवान्यथा श्रियः ।।५।।

ब्राह्मणानां परिभवो राज्ञा कार्यो न कर्हिचित् । ते पूज्याश्च नमस्कार्याः पालनीयाश्च पुत्रवत् ।।६।।

लोकानिमान्धारयन्ति ब्राह्मणा धर्मसेतवः । प्रणेतारश्च शास्त्राणां धर्मज्ञा धर्मपालकाः ।।७।।

तानाश्रित्यैव जीवन्ति सदेवा मानवादयः । यज्ञाप्रवर्तका विप्रा हव्यकव्याग्रभोजिनः ।।८।।

क्रीडोद्यानानि वेदानां फलज्ञा: सर्वकर्मणाम् । गतिज्ञा: सर्वभूतानां मानार्हा एव वाडवाः ।।९।।

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । सृजेयुरन्यांल्लोकांश्च कुपिता ब्राह्मणा द्विज ! ।।१०।।

येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति । अपेयः सागरो यैश्च कृतः सद्यो महात्मभिः ।।११।।

येषां वृद्धश्च बालश्च सर्वः सन्मानमर्हति । जात्यैव लोकगुरवः सर्वपूज्यास्ततो हि ते ।।१२।।

तपोविद्याविशेषात्ते मानयन्ति परस्परम् । प्रमाणस्य प्रमाणं ये कस्तानभिभवेद्बुधः ।।१३।।

अविद्वान्ब्राह्मणो देवः पात्रं वै परमं महत् । विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः ।।१४।।

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतो वाऽप्रणीतो वा यथाग्निर्दैवतं महत् ।।१५।।

स्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । नितरां यज्ञाशालायां शोभते च तथा द्विजः ।।१६।।

यादृशस्तादृशो वापि पूज्यो विप्रः सदा मतः । किरातरूपोऽप्यदहद्यतः कण्ठं गरुत्मतः ।।१७।।

पूज्या विप्राः सदा सर्वैर्नृपेण तु विशेषतः । तद्व्यतिक्रमतो यस्माद्राज्यं नश्येत्क्षणेन वै ।।१८।।

ब्राह्मणांस्तर्पयेन्नित्यं पक्वान्नैर्बहुधा कृतैः । प्रचुराज्यसितैर्भोज्यैस्तत्प्रियैर्व्यञ्जनादिभिः ।।१९।।

यथा यथा प्रसीदेयुर्ब्राह्मणाः स्वेष्टभोजनैः । तथा तथा प्रकुर्वीत नृपतिर्धार्मिकः सदा ।।२०।।

हुतेर्हविर्भिर्विप्रास्ये प्रचुराज्यादिभिर्यथा । तृप्यतीशस्तथा नैव यज्ञोष्वग्निमुखे हुतैः ।।२१।।

तद्बुद्धयैव ततो विप्रा भोजनीयाः प्रयत्नतः । दधाच्च दक्षिणास्तेभ्यः सन्तोष्यैतान्विसर्जयेत् ।।२२।।

नित्यं दशशतं वापि सहस्रमयुतं तथा । लक्षं वा भोजयेद्विप्रान् यथासम्पन्नृपोत्तमः ।।२३।।

गोहेमतिलमुख्यानि दद्याद्दानानि नित्यशः । नैमित्तिकानि च तथा वेदोक्तानि यथाविधि ।।२४।।

नक्षत्रेषु च तिथिषु सङ्क्रान्तिषु पृथक्पृथक् । दानान्युक्तानि कुर्वीत नानापर्वसु चर्षिभिः ।।२५।।

वापीः कूपांस्तडागांश्च कारयेच्च प्रपा नृपः । गावो विप्रो साधवश्च नरा यत्र पिबन्त्यपः ।।२६।।

निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् । स दूर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात् ।।२७।।

प्रतिमासं प्रत्यृतु वा तत्तत्कालोचितै रसैः । भोज्यैर्यस्तर्पयेत्विप्रांस्तस्य पुण्यमनन्तकम् ।।२८।।

तथा हविर्भिर्यज्ञोषु पायसाज्यसितादिभिः । देवान्सन्तर्पयेद्राजा दद्यात्प्रचुरदक्षिणाः ।।२९।।

देवालयानि नृपतिः कारयेत्सुदृढानि च । वृत्तिभिः सह तत्राथ स्थापयेद्देवताः स्वयम् ।।३०।।

धर्मशालाश्च विविधाः कारयेत्सह वृत्तिभिः । सोपस्कराणि वेश्मानि ब्राह्मणेभ्योऽर्पयेन्नृपः ।।३१।।

फलपुष्पद्रुमाढयानि नानोद्यानानि कारयेत् । दद्याच्च फलितान्वृक्षान्द्विजेभ्यः सुव्रतो नृपः ।।३२।।

संरक्षन् पोषयन्राजा जनसङ्घं नयेत यः । तीर्थक्षेत्राणि पुण्यं स लभेतानन्तयज्ञाजम् ।।३३।।

जितेन्द्रियं ब्रह्मनिष्ठं यद्येकमपि पूजयेत् । भक्त्या निष्कपटो राजा तत्पुण्यं सर्वतोऽधिकम् ।।३४।।

अन्नार्थिजीवमात्रेभ्यो राजा चान्नं प्रदापयेत् । नान्नदानात्परं दानं श्रेष्ठमित्येव निश्चयः ।।३५।।

अन्नं हि प्राणिनां प्राणा भवन्त्यन्नाच्च देहिनः । निरन्नो मृत्युमाप्नोति तस्मादन्नं प्रदापयेत् ।।३६।।

अन्नसत्राणि सर्वत्र स्वराष्ट्रे कारयेन्नृपः । प्रत्यहं स्वपुरे दद्यादन्नार्थिभ्योऽन्नमुत्सुकः ।।३७।।

ब्राह्मणानतिथीन्भिक्षूननाथान्पथिकांस्तथा । योऽन्नेनार्चेद्यथायोग्यं तेन देवाः सुतर्पिताः ।।३८।।

एकाहं क्षुधितस्तिष्ठेदन्नमप्राप्य यत्पुरे । यः कोऽपि स हरेत्पुण्यं तस्य राज्ञो न संशयः ।।३९।।

तस्मान्नित्यं प्रयत्नेन शोधयित्वा पुरे स्वयम् ।दापयेत्क्षुधितेभ्योऽन्नमप्रमत्तः सुधीर्नृपः ।।४०।।

अन्नदः प्राणदो लोके प्रोच्यते सर्वदश्च सः । अनन्तं फलमाप्नोति परत्रेह च सद्यशः ।।४१।।

हैममर्कप्रभं दिव्यं किङ्किणीजालमण्डितम् । अप्सरोमण्डितं नानादीर्घिकाद्युपशोभितम् ।।४२।।

वस्त्रभूषाभोज्यनगरसनद्युपमण्डितम् । यात्यारुह्य विमानं स कामगं स्वर्गमन्नदः ।।४३।।

सुखानि भूयांसि च तत्र दिव्ययानाप्सरोदिव्यरसोपभोगान् ।
प्राप्नोति गन्धर्वगणोपगीतकीर्तिः स ऐन्द्रान् द्विजवर्य ! भूपः ।।४४।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेषु ब्राह्मणप्रशंसादिनिरूपणनामाष्टाविंशोऽध्यायः ।।२८।।