द्वात्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


नार्यः पतिव्रता प्रोक्ता यास्तास्तु त्रिविधा मताः । उत्तमा मध्यमाश्चैव कनिष्ठा इति भेदतः ।।१।।

कनिष्ठा तत्र पूर्वोक्तान्धर्मान्सर्वानुपाश्रिता । कामसौख्यं समीहेत सेवमाना पतिं ततः ।।२।।

शृङ्गाररसमिश्राभिर्हावभावोक्तियुक्तिभिः । कामयेत यथात्मानं पतिः कुर्यात्तथा च सा ।।३।।

परपुंसो रूपगुणान् दृा तत्र व्रजन्मनः । नियन्तुं शक्नुयान्नैव नियच्छेच्च वचो वपुः ।।४।।

मध्यमा त्वखिलान्धर्मान्प्रागुक्तान्पालयेत्सदा । पतिसेवापरा प्रीत्या देहपुष्टिमनिच्छती ।।५।।

स्वपत्युरधिकं चान्यं धनरूपवयोगुणैः । दृापि पुरुषं कायवाङ्मनोभिश्चलेन्न सा ।।६।।

देशकालक्रियासङ्गवैषम्ये दैवयोगतः । क्वचिज्जाते तु मनसा चलेद्वा पुरुषान्तरे ।।७।।

अन्यथा तु मनोऽप्यस्याः स्वप्नेऽपि पुरुषान्तरम् । क्वापि सङ्कल्पयेन्नैव प्राप्तायाः परमां धृतिम् ।।८।।

स्वतः कामसुखं नेच्छेत्क्वचित्सा स्वपतेरपि । पतिना दीयमानं तु तदिच्छेद्धृष्टचेतसा ।।९।।

इत्युक्ता मध्यमा नारी प्रोच्यतेऽथोत्तमा शुभा । प्रागुक्तान्सा तु सेवेत धर्मान्सर्वानशेषतः ।।१०।।

स्वपत्युरधिकं चान्यं धनरूपवयोगुणैः । दृाऽपि पुरुषं कायवाङ्गमनोभिश्चलेन्न वै ।।११।।

देशकालादिवैषम्ये जातेऽपि मनसाऽपि सा । सङ्कल्पयेन्न पुरुषं स्वपत्युरितरं क्वचित् ।।१२।।

सन्निपातादिरोगे वा क्वचिद्वा मादकाशने । अप्यस्या मानसं नैव भ्रान्तं स्यात्पुरुषान्तरे ।।१३।।

सेवमानाऽप्यसौ नारी पतिं कामसुखं स्वतः । नेच्छेत्तेन क्वचित्प्रीत्या दीयमानमपि ध्रुवम् ।।१४।।

पत्याऽगिरहेण दत्तं चेदरुच्या तत्सुखं भवेत् । भूरिजम्बीराम्लदन्तो यथा चणकचर्वणम् ।।१५।।

स्वदेहमन्यदेहांश्च दैहिकं च सुखं ह्यसौ । विद्याद्वैराग्यतोऽसत्यं सत्यं च भगवत्सुखम् ।।१६।।

पतिश्चेत्कामसौख्यार्थमुद्वहेद्योषिदन्तरम् । हृष्टा स्यात्तर्हि तद्दास्यमपि पत्योदिताऽचरेत् ।।१७।।

एवं विधोत्तमा साध्वी दुर्लभा किल भूतले । देवा अपि न यां द्रष्टुं क्षमन्ते दुष्टचक्षुषा ।।१८।।

कनिष्ठा योदिता साध्वी सप्तभिर्जन्मभिस्तु सा । स्वधर्मनिष्ठा सत्येव मध्यमात्वं प्रपद्यते ।।१९।।

सप्तभिर्जन्मभिः सा च भवत्येवोत्तमा सती । अथैतासां मृते पत्यौ या गतिः सा निगद्यते ।।२०।।

तत्रोत्तमा तु प्रागेव स्वपत्युर्मरणात्स्वयम् । विद्यादस्मिन्दिने चास्मिन्मुहूर्तेऽसौ मरिष्यति ।।२१।।

प्राक्तनानि स्वजन्मानि पत्युर्जन्मानि चाप्यसौ ।यथापूर्वं विजानाति सप्त वाप्यधिकानि वा ।।२२।।

विवर्धमानसत्याङ्गी मरणाह्नि तदात्मताम् । पत्या प्राप्य वपुर्भानरहिता जायते ध्रुवम् ।।२३।।

चिताप्रवेशे तद्देहाज्जीवः प्रागेव गच्छति । वलोकं ततश्चाग्निर्दहत्यस्याः कलेवरम् ।।२४।।

अतो दाहव्यथा तस्या जायते नैव किञ्चन । नात्मधातस्य दोषोऽपि तस्या भवति निश्चितम् ।।२५।।

मध्यमा मरणाह्नयेव साधवी प्राग्जन्म चात्मनः । पत्युश्चैकं हि जानाति पत्या तादात्म्यमेति सा ।२६

दाहव्यथा चितायां सा प्राप्तशौर्या स्वधैर्यतः । अविक्लवैव सहते रणे शूर इवाचला ।।२७।।

कनिष्ठा तु न जानाति प्राग्जन्म स्वधवात्मनोः । चिताप्रवेशं कुरुते केवलं लोकलज्जया ।।२८।।

कामेन व्याकुलत्वात्तु पैत्रश्वाशुर्यवंशयोः । लाञ्छनं व्यभिचारेण भवेदिति भयेन वा ।।२९।।

वैधव्यधर्माचरणदुष्करत्वेन वा तथा । सत्पुत्रादेरभावेन स्वत्रातुर्याति सा चिताम् ।।३०।।

चितायां दह्यते सा च व्याकुला धर्मचारिणी । एताः श्रीरुद्रयुक्तायाः सत्या लोकं व्रजन्ति हि ।।३१

तत्रोत्तमोत्तमं सौख्यं मध्यमं मध्यमा तथा । कनिष्ठं तु कनिष्ठा वै भुङ्क्ते सौख्यं सभर्तुका ।।३२।।

पतिव्रतासु प्रोक्तासु ह्येतासु त्रिविधास्वपि । यासामग्निप्रवेशस्य निषेधोऽस्ति वदामि ताः ।।३३।।

भगवद्बक्तियुक्ता च ज्ञानयुच्क विरागयुक् । शक्ता च ब्रह्मचर्यादिविधवाधर्मपालने ।।३४।।

मुमुक्षुर्वीरसूश्चैव बालापत्या च गर्भिणी । अग्निप्रवेशो नैताभिः कार्यः सेव्यो हरिः सदा ।।३५।।

पतिव्रताया धर्मोऽपि द्विविधः परिकीर्तये । केवलो नवधाभक्त्या वासुदेवस्य चान्वितः ।।३६।।

तत्राद्यस्य फलं प्रोक्तं सतीलोकाप्तिलक्षणम् । द्वितीयस्य फलं ज्ञोयं गोलोकप्राप्तिरुत्तमम् ।।३७।।

लक्ष्मीतिल्यं सुखं तत्र प्राप्नोत्यनुपमं सती । तद्बर्तापि भवेत्तत्र पार्षदप्रवरः प्रभोः ।।३८।।

पतिव्रतासु या धर्मवंश्यविप्रस्त्रियो द्विज ! स्त्रीगुर्व्यः स्युश्च तासां तु धर्माः सामान्यतस्त्विमे ।।३९।।

विशेषधर्मस्तासां च कृष्णायानर्पितं तु यत् । तत्किञ्चिदपि नैवाऽश्यं प्रसवाद्यापदं विना ।।४०।।

स्वसम्बन्धीतरनरस्पर्शभाषेक्षणादि च । न कार्यमिति तासां च विशेषो धर्म ईयताम् ।।४१।।

इति ते कथिता मया वृषाः सधवानामिह योषितां द्विज ! ।
सहिताः स्वफलैरथ ब्रुवे विधवानामपि तानशेषतः ।।४२।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु पतिव्रताभेदतद्धर्मफलनिरूपणनामा द्वात्रिंशोऽध्यायः ।।३२।।