एकत्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


नार्याः पतिव्रतायास्तु पतिरेवेश्वरो मतः । अतस्तमेव सेवेत भक्त्येश्वरमिवादरात् ।।१।।

प्रतिबुध्योषसि स्नत्वा सुसम्मृष्टपरिच्छदा । धौतवासाः शुचिर्नित्यं भर्तृसेवापरा भवेत् ।।२।।

स्नपयित्वा सुपूतेन वारिणा निर्मलेन च । तस्मै दत्त्वा धौतवस्त्र तत्पादौ क्षालयेन्मुदा ।।३।।

आसने चासयित्वा तं तस्य भाले च चन्दनम् । दोष्णोश्च हृदये कृत्वा दद्यान्माल्यं गलेऽपि च ।।४।।

नमः कान्ताय मन्त्रेण भोगद्रव्यैः सुधोपमैः । सम्पूज्य भक्तितः कान्तं स्तुत्वा च प्रणमेन्मुदा ।।५।।

प्रकाशेऽन्नं विशोध्याथ शुचिर्भूत्वा शुचिस्थले । सुसंस्कृतं पत्युरिष्टं पाकं कृत्वा तमाशयेत् ।।६।।

भुक्ते पत्यौ तु भुञ्जीत तिष्ठेत्तस्मिंश्च तिष्ठति । निद्रिते सति निद्रायाद्बुध्येताऽदौ पतिव्रता ।।७।।

अनलङ्कृतमात्मानं न पतिं दर्शयेत्क्वचित् । कार्यार्थं प्रोषिते पत्यौ भवेन्मण्डनवर्जिता ।।८।।

पत्युर्नाम न गृीयात्तस्यायुष्यविवृद्धये । पुरुषान्तरनामापि न गृीयात्कदाचन ।।।।९।।

आक्रुष्टापि च नाक्रोशेत्प्रसीदेत्ताडितापि च । चिरं द्वारि न तिष्ठेच्च नोच्चैर्भाषेत कर्हिचित् ।।१०।।

आहूता गृहकार्याणि त्यक्त्वाऽगच्छेच्च सत्वरम् । एषाऽस्म्याज्ञाप्यतां स्वामिन्निति ब्रूयाच्छनैर्वचः११

हरिपूजोपकरणं पत्याऽनुक्तापि साधयेत् । उपयुक्तं यदा यत्स्यात्तत्तदानीमुपाहरेत् ।।१२।।

सेवेत भर्तुरुच्छिष्टमिष्टमन्नं फलादि च । महाप्रसाद इत्युक्त्वा प्रतीच्छेत्पतिनाऽर्पितम् ।।१३।।

देवपित्रतिथिभ्यश्च गोभ्यो भिक्षुभ्य एव च । परिचारकवर्गेभ्यो नादत्वाऽद्यात्पतिव्रता ।।१४।।

ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस्तथा । यः कोऽपि क्षुधितस्तं च साध्वी साऽन्नेन पोषयेत् १५

संयतोपस्करा हृष्टा दक्षा व्ययपराङ्मुखी । कुर्यात्पतिमनापृच्छय नोपवासव्रतादिकम् ।।१६।।

स्वाचारा वर्जयेत्सा च समाजोत्सवदर्शनम् । न गच्छेत्तीर्थमेकैव विवाहप्रेक्षणाय च ।।१७।।

रहस्येष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् । सुखसुप्तं सुखासीनं रममाणं यदृच्छया ।।१८।।

स्त्रीधर्मिणी त्रिरात्रं तु मुखं नैव प्रदर्शयेत् । स्ववाक्यं श्रावयेन्नैव यावन्न स्ननमाचरेत् ।।१९।।

सुस्नता भर्तृवदनमीक्षेतान्यस्य न क्वचित् । अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ।।२०।।

हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा । कूर्पासकं च ताम्बूलं मङ्गल्याभरणं शुभम् ।।२१।।

केशसंस्कारकबरीकरकर्णादिभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ।।२२।।

न रजक्या न हैतुक्या तथा श्रमणया न च । न च दुर्भगया नार्या सखीत्वं क्वचनाचरेत् ।।२३।।

न च विश्वास्य घातिन्या न प्रेक्षणिकया तथा । न तृतीयप्रकृत्या च नार्या सख्यं समाचरेत् ।।२४।।

न च पुंवेषधारिण्या नातिवार्ताप्रसक्तया । बहुगेहभ्रमण्या स्त्रिया सख्यं न चाचरेत् ।।२५।।

न द्यूतादिव्यसनया मादकाशनया न च । न च पैशून्यपरया सख्यं कुर्यान्न वेश्मया ।।२६।।

न चण्डाया न शौण्डायाश्चौराया दुष्टचेतसः । चपलाया बहुभुजः स्त्रियाः सख्यं न चाचरेत् ।।२७।।

भर्तृविद्वेषिणीं नारीं न सम्भाषेत कर्हिचित् । नैकाकिनी क्वचिद्बूयान्नग्ना स्नयान्न च क्वचित् ।।२८।।

नोलूखले न मुसले न वर्धन्यां दृषद्यपि । न यन्त्रके न देहल्यां सती चोपविशेत्क्वचित् ।।२९।।

विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् । यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ।।३०।।

उच्चासनं न सेवेत न व्रजेत्परवेश्म च । न त्रपाकरवाक्यानि नापशब्दान् क्वचिद्वदेत् ।।३१।।

गुरूणां सन्निधौ वापि नोच्चैर्ब्रूयान्न वा हसेत् । नान्येन पुंसा भाषेत न स्पृशेत्पुरुषान्तरम् ।।३२।।

प्रव्राजकेन वणिजा भिषजा स्थविरेण च । यावत्प्रयोजनं कुर्याद्बाषणं व्यावहारिकम् ।।३३।।

बुद्धिपूर्वं न वीक्षेत पुरुषं पशुमप्यसौ । न कुर्यात्कलहं क्वापि नापवादं च कस्यचित् ।।३४।।

नार्याः स्वपतिरेवैकं दैवतं परमं स्मृतम् । पूजयेत्तमतो नित्यं नातिक्राम्येच्च तद्वचः ।।३५।।

क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव वा । दुःशीलं दुर्भगं वापि पतिं सेवेत सर्वथा ।।३६।।

हृष्टा हृष्टे विषण्णा च विषण्णे स्यात्प्रिये सदा । एकरूपा भवेत्पत्युः सम्पत्सु च विपत्सु च ।।३७।।

सर्पिर्लवणतैलादिक्षयेऽपि च पतिव्रता । पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ।।३८।।

बाह्यादायान्तमालोक्य शीघ्रोत्थानजलासनैः । ताम्बूलव्यजनाभ्यां च पादसंवाहनेन च ।।३९।।

मधुरैश्चाटुवसनैः खेदसंनोदनैः शुभैः । प्रीणयेत्स्वपतिं भक्त्या प्राञ्जलिर्विनयानता ।।४०।।

भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च । स एव सर्वथा तस्मान्नापमान्यः क्वचित्स्त्रिया ।।४१।।

देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः । द्रव्यवानभिरूपो वा ज्ञोयोऽन्यो विट्समः पुमान् ।४२

भर्ता सदानुयातव्यो देहवच्छायया यतः । भर्तुः सहचरी भूया इत्युद्वाहेऽब्रुवन् द्विजाः ।।४३।।

पत्युराज्ञां गृहीत्वैव नित्यानैमित्तिकांस्तथा । व्रतोपवासनियमान् कुर्यादेव पतिव्रता ।।४४।।

साध्वी त्वेतेषु धर्मेषु यद्येकस्यापि कर्हिचित् । च्युतिर्भवेत्तर्हि कुर्यात्तत्प्रायश्चित्तमाशु च ।।४५।।

उषःप्रबोधमुख्येषु स्वव्रतेषु ह्यबुद्धितः । भग्नेष्वेकैकमेवाथ पृथक्पृथगुपोषणम् ।।४६।।

ब्रह्मपञ्चमवक्रोत्थमपशब्दं वदेद्यदि । वाग्दोषात्तर्हि सा नारी पादकृच्छ्रं व्रतं चरेत् ।।४७।।

इति सेपतो धर्मः सुवासिन्या मयोदितः । पतिव्रताधर्मवती नारी जगति दुर्लभा ।।४८।।

व्रतोपवासनियमान् पतिमुल्लङ्घय याऽचरेत् । आयुष्यं हरते भर्तुः सा मृता निरयं व्रजेत् ।।४९।।

दानोपवासपुण्यानि सुकृतान्यपि सर्वथा । निष्फलानि भवन्त्येव च्युतायाः पतिधर्मतः ।।५०।।

कर्मणा मनसा वाचा पतिं नातिचरेत्तु या । तस्याः पुण्यफलं प्रोक्तं नान्यस्या इति निश्चितम् ।।५१।।

अवाग्दुष्टाः शौचयुक्ता धृतिमत्यः शुभव्रताः । अयोनिदुष्टा नार्यो हि धारयन्त्यखिलं जगत् ।।५२।।

योनिदुष्टस्त्रिया नास्ति प्रायश्चित्तं हतैव सा । वाग्दुष्टे विहितं सद्बिः प्रायश्चित्तं पुरातनैः ।।५३।।

कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् । तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात् ।।५४।।

यदि सा नाम मानुष्यं स्त्री लभेतासती तदा । चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना ।।५५।।

उक्ता प्रत्युत्तरं दद्यान्नारी क्रोधेन या पतिम् । सा शुनी जायते ग्रामे शृगाली निर्जने वने ।।५६।।

या भर्तारं परित्यज्य रहश्चरति दुर्मतिः । उलूकी सा भवेत् क्रूरा वृक्षकोटरशायिनी ।।५७।।

ताडिता ताडितुं येत्छेत्सा व्याघ्री वृषदंशिका । कटाक्षयति याऽन्यं च केकराक्षी तु सा भवेत् ।।५८

या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् । सा ग्रामे शूकरी स्याच्च वागुली वा स्वविड्भुजा ।५९

या त्वंकृत्य पतिं ब्रूयान्मूका सा तु भवेत्किल । या सपत्नीं सदेर्ष्येच्च दुर्भगा सा पुनः पुनः ।।६०।।

दृष्टिं विलुप्य भर्तिर्या कञ्चिदीक्षेत कौतुकात् ।काणा च दुर्मुखी वापि कुरूपा सा भवेद्बुवि ।।६१।।

शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथा पत्युरिहामुत्र च दुःखिताः ।।६२।।

शीलभङ्गेन नारीणां भर्ता धर्मपरोऽपि हि । पतेद्दुःखार्जितात्स्वर्गाच्छीलं रक्ष्यं ततः स्त्रिया ।।६३।।

रक्षणीयं महायत्नादिदं सुकृतभाजनम् । वपुः परस्य तु स्पर्शात्सुखाभासात्मकात्स्त्रिया ।।६४।।

इह कीर्तिश्च विपुला स्वर्गे वासस्तथाऽक्षयः ।पातिव्रत्यात् स्त्रिया लभ्यं सखीत्वं च श्रिया सह ६५

पतिश्चासौ यदि भवेद्विमुखो वासुदेवतः । महापातकदुष्टो वा तर्हि त्याज्यः स्त्रिया किल ।।६६।।

भगवन्तं भजेदेष यर्हि शुद्धयेच्च पातकात् । प्रायश्चित्तैस्तदा त्वेनं भजेत्पुनरिवेश्वरम् ।।६७।।

यावत्स्वलोमसङ्खयाऽस्ति तावत्कोटययुतानि च ।भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता ।।६८।।

धन्या सा जननी लोके धन्योऽसौ जनकः पुनः । धन्यः स च पतिः श्रीमान् यस्य गेहे पतिव्रता ६९

पुण्यं यस्य भवेत्पुंसः शतजन्मसमर्जितम् । गृहे तस्य भवेन्नारी धर्मनिष्ठा पतिव्रता ।।७०।।

पितृवंश्या मातृवंश्यां पतिवंश्यास्त्रयस्त्रयः । पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ।।७१।।

अकार्यकारिणं वापि पतितं वापि निर्गुणम् । स्त्री पतिं तारयत्येव तथात्मानं पतिव्रता ।।७२।।

बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि । सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ।।७३।।

पृथिव्यां यानि तीर्थानि तानि सन्ति सतीपदे । तेजश्च सर्वदेवानां तनौ तस्यास्तपस्विनाम् ।।७४।।

साध्वीपादरजोभिर्भूः पूता सद्यो हि जायते । नमस्कृत्य च तां पापी पापेभ्यो मुच्यते किल ।।७५।।

त्रैलोक्यं भस्मसात्कर्तुं क्षणेनैव पतिव्रता । स्वतेजसा समर्था स्यान्महापुण्यवती सदा ।।७६।।

पतिव्रता त्वरुन्धत्या सावित्र्या चानसूयया । शाण्डिल्याऽहल्यया सत्या द्रौपद्या शतरूपया ।।७७।।

मेनया च सुनीत्या च संज्ञाया स्वहया तथा । तुल्या लोपामुद्रयाऽस्ति विरला कापि भूतले ।।७८।।

गृहे गृहे सन्ति हि तत्र तत्र द्विजेन्द्र ! योषास्तु शुनीसमानाः ।
धन्यैव सा कापि सती सुरीभिः साश्चर्यवन्द्याङ्घ्रियुगापि मर्त्या ।।७९।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु पतिव्रताधर्मनिरूपणनामैकत्रिंशोऽध्यायः ।।३१।।