श्रीनारायणमुनिरुवाच :-
स्त्रीणां धर्मान्प्रवक्ष्यामि सधवानामथ द्विज ! । विधवानां च नारीणामिहामुत्र सुखप्रदान् ।।१।।
सत्या गीताः पुरा सर्वे धर्माः सकलयोषिताम् । गङ्गाद्याः स्त्रीः प्रति शुभाः कैलासे शम्भुसन्निधौत्रि २
तानेव तुभ्यं कथये सविशेषानहं द्विज ! । हिताय योषितां भूमाविच्छन्तीनां सुखं महत् ।।३।।
कुलरूपगुणैर्योग्यान्वरान् दृा यथाविधि । तेभ्यः पित्रादिना दत्ताः सधवास्तास्तु योषितः ।।४।।
कालगत्या च या नार्यो भवेयुर्मृतभर्तृकाः । विधवास्तास्तु विज्ञोया याः प्रोक्ता न्यासिभिः समाः ।५
तत्राद्या द्विविधाः प्रोक्ताः कुलटाश्च पतिव्रताः । भर्तृभिन्नेषु याः रतास्ताः कुलटा मताः ।।६।।
दुष्टस्वभावा कुलटा भवेत्सद्वंशजापि च । अधर्मशीला नित्यं स्याद्दुर्मुखा कलहान्विता ।।७।।
स्वपतिं भत्सर्येन्नित्यं जारं च रमयेत्सदा । विषतुल्यं पतिं पश्येद्धर्मिष्ठमपि दुर्मतिः ।।८।।
कामदेवसमं चापि जारं पश्येच्च कामतः । शुभदृष्टया कटाक्षेण शश्वत्पापीयसी मुदा ।।९।।
सुवेशं पुरुषं दृायुवानं रतिशूरकम् । कामातुरा भवेत्सा तु कुलटा कामिनी सदा ।।१०।।
गुरुणा भर्त्सिता सापि रक्षिता च सुतादिभिः । तथापि जारं कुर्वीत नैव साध्या नृपैरपि ।।११।।
नास्ति तस्याः प्रियं किञ्चित्सर्वं कार्यवशात्प्रियम् । गावस्तृणमिवारण्यं प्रार्थयेत्सा नवं नवम् ।।१२
व्रते तपसि धर्मे च न मनो गृहकर्मसु । न गुरौ च भवेत्तस्या जारे स्न्ग्धिं च चञ्चलम् ।।१३।।
स्वैरिण्योऽथ च कामिन्यः पुंश्चल्य इति भेदतः । प्रोक्ताः सन्ति पुराणेषु त्रिविधाः कुलटाः स्त्रियः १४
सवर्णेषु रताः पुंसु स्वैरिण्यस्तत्र कीर्तिताः । असवर्णेष्वपि रताः सवर्णेषु तथाऽपराः ।।१५।।
सवर्णेष्वसवर्णेषु स्वसम्बन्धिषु पुंसु च । योषितो या रताः स्युस्ताः पुंश्चल्य इति कीर्तिताः ।।१६।।
कुलटास्त्रिविधा ह्येता देहान्ते यमयातनाः । आकल्पं प्राप्नुवन्त्येव नैवासामस्ति सग्दतिः ।।१७।।
पतिरेव व्रतं यस्याः सा तु प्रोक्ता पतिव्रता । प्राणेभ्योऽपि प्रियतरः पतिस्तस्या भवेद्ध्रुवम् ।।१८।।
देवदैत्यनरादिभ्यो यस्याः स्यादधिकः पतिः । सेवेत तं सदा प्रीत्या निश्छद्मेश्वरवद्धि सा ।।१९।।
व्रतं दानं तपः पूजां जपहोमादिकं तु यत् । आज्ञायैव स्वभर्तुर्या कुर्यात्सा तु पतिव्रता ।।२०।।
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ । नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।।२१।।
क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम् । यथा परस्वे चौराणां यथा जारे कुयोषिताम् ।२२
विदुषां च यथाशास्त्रे वाणिज्ये वणिजां यथा । तथा शश्वन्मनः साध्व्याः स्वीये भवती भर्तरि ।।२३
पतिव्रतानां द्विजवर्य ! धर्मान् स्त्रीणां वदाम्यादित एव तुभ्यम् ।
यानाश्रिता यान्ति हि सप्रियास्ताः सत्यास्तु लोकं सुरदर्शनीयम् ।।२४।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु सधवास्त्रीभेदलक्षणनिरूपणनामा ऽध्यायः ।।३०।।