त्रयोत्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


विधवाकबरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात्कार्यं विधवया द्विज ! ।।१।।

रक्षेत्केशान्यदि तदा जटातुल्यानसंस्कृतान् । रक्षेत्तन्मुण्डनं कार्यं तीर्थे वा शुभपर्वणि ।।२।।

एकाहारं सदा कुर्याद्दिनान्ते सा त्वनापदि । संङ्गं न धर्महीनानां सा कुर्याद्योषितामपि ।।३।।

पर्यङ्के न स्वपेन्नारी रोगाद्यापदमन्तरा । नग्ना स्ननं न कुर्याच्च त्यजेत्क्रोधं तु दूरतः ।।४।।

तैलाभ्यङ्गं न कुर्वीत विधवाऽनापदि क्वचित् । गन्धद्रव्यस्य सम्भोगो नैव कार्यस्तया तथा ।।५।।

नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि । मादकं भक्षयेन्नैव न ताम्बूलं च कर्हिचित् ।।६।।

न चातिभोजनं कुर्याच्छरीरे धातुवर्धकम् । नात्यश्नीयात्पयः सर्पिर्विनाऽपदमसौ क्वचित् ।।७।।

मिष्टान्नं नातिभुज्जीत नाद्यादुत्तेजकं तथा । न दध्याद्दिव्यवसनं न च कौसुम्भमंशुकम् ।।८।।

पुष्पस्रजं चन्दनं च शङ्खान् सिन्दूरमञ्जनम् । न दध्याद्धात्वलङ्कारान् धातुयुक्तं च नाम्बरम् ।।९।।

हरेः प्रासादिकमपि सौभाग्यद्रव्यचन्दनम् । अङ्गुल्यैव गले दध्यान्न त्वङ्गेष्वलिकादिषु ।।१०।।

तथा प्रासादिकमपि हरेः पुष्पस्रगादि सा । कण्ठादौ धारयेन्नैव भक्त्याऽघ्राय विसर्जयेत् ।।११।।

न च सूक्ष्माणि वस्त्राणि चित्राणि च न धारयेत् । कञ्चुकं परिदध्यान्नो वासो वा विकृतं क्वचित् ।। १२।।

न रञ्जयेत्पाणिपादं दन्ताश्च नखरानपि । न धारयेत्कुंकुमं च न कुर्याद्बालपत्रिकाम् ।।१३।।

न वै सुवासिनीवेषं न पुंवेषं च कर्हिचित् । सन्न्यासिन्या न वेषं च न नर्तक्याश्च धारयेत् ।।१४।।

नोत्पाटयेद्बालकेशान्न च व्यर्थं परिभ्रमेत् । नोपवेष्टुं चान्यगृहं गच्छेदेकाकिनी क्वचित् ।।१५।।

वृद्धस्यापि न पित्रादेरुत्सङ्गे क्वाप्युपाविशेत् । श्वाशुर्यवत्पैत्रपक्षे नोपहासवचो वदेत् ।।१६।।

न ग्राम्यधर्मवार्तां च मातुरग्रे वदेच्च सा । न चान्ययोषितोऽप्यग्रे वार्ताः शृङ्गारिकाश्चरेत् ।।१७।।

न होलोत्क्रीडनं कुर्यान्नापशब्दान्वदेत्क्वचित् । मिथ्यापवादं न वदेद्दद्याग्दालिं च नैव सा ।।१८।।

न च श्वशुरपक्षीयैर्निर्लज्जा वादमाचरेत् । न पापदुष्टाया नार्या मैत्रीं कुर्यात्कदाचन ।।१९।।

तथा परिव्राजक्या दूत्या स्त्रीपुंसयोरपि । शूद्रादवरजात्या च मैत्रीं नैवाचरेत् सा ।।२०।।

न यवन्या न कामुक्या पाषण्डिन्या च योषिता । अवतारेष्वविश्वस्ता या हरेश्च तया सह ।।२१।।

निर्लज्जयौषधिविदा मन्त्रयन्त्रज्ञाया तथा । मैत्रीं न गर्भपातिन्या कुर्यात्सा धूर्तया न च ।।२२।।

अभिशस्तस्य पुंसश्चेग्दृगे नारी पतिव्रता । भवेत्तर्ह्यपि तग्देहं न गच्छेत्तां समीक्षितम् ।।२३।।

स्वतोऽतिनीचजातेश्च धर्मवत्या अपि स्त्रियाः । उपवेष्टुं गृहे नैव गच्छेन्नारी विभर्तृका ।।२४।।

जीविकामात्रपर्याप्तं धनं स्यादात्मनस्तु यत् । न कुर्याद्धर्मकार्येऽपि व्ययं तस्य कदाचन ।।२५।।

व्यये कृते तु सा नारी जीविकार्थं पराश्रयात् । भ्रष्टा भवेत्स्वीयधर्मात्संशयो नात्र विद्यते ।।२६।।

विवाहं पान्थसार्थं च नृत्यं गीतं जनोत्सवम् । द्रष्टुं न गच्छेद्विधवा सुवेषं पुरुषं तथा ।।२७।।

पश्येन्मुखं च नाऽदर्शे व्रजेन्नैकाकिनी क्वचित् । स्वच्छन्दं पुरुषान्नैव वीक्षेत क्रीडतः क्वचित् ।२८

कामान्नेक्षेत पुरुषं न सम्भाषेत न स्पृशेत् । न तद्वार्तां च शृणुयात्सच्छास्त्रीयकथां विना ।।२९।।

व्याघ्राह्यग्नयम्बुभीत्यादावापदि स्पर्शभाषणे । पुंसो जाते तु नैव स्याद्दोषोऽथ स्तनपस्य च ।।३०।।

धौतशुष्कं च धौतार्द्रं नवीनं चांशुकं विना । पुंसो धार्यं स्पृशेन्नैव तदङ्गस्थं च नांशुकम् ।।३१।।

न पुंसश्चिन्तनं कुर्याद्धृदये कामभावतः । न लिखेन्न स्पृशेच्चित्रं पुत्तलं ग्राम्यधर्मि च ।।३२।।

बुद्धिपूर्वं न वीक्षेत पशुपक्ष्यादिमैथुनम् । सिध्यत्यपि स्वकार्ये च पुंसा मैत्रं तु नाचरेत् ।।३३।।

पुंसो मूत्रमलोत्सर्गस्थले कुर्यान्न तत्क्रियाम् । पुंसो दृष्टया निजां दृष्टिं निबध्येक्षेत न क्वचित् ।।३४।।

अवदन्ती नरं नैव बोधयेत्करदृग्भ्रमैः । पश्येत्पुंसो न गुह्याङ्गं विधवा धर्मसंस्थिता ।।३५।।

धनुर्मानान्तरेणैव पुंसो दूरं व्रजेत्सदा । देवालयाल्पाध्वमहे रक्ष्यं पुंस्पर्शतो वपुः ।।३६।।

यत्रोर्ध्वभूमिकायां तु सुप्तः स्यात्पुरुषो गृहे । निशि तत्र स्वपेन्नैका तदूर्ध्वं तदधोऽपि वा ।।३७।।

पुंसभादृश्यहृत्तुन्दसक्थिर्नोपविशेत्क्वचित् । चापल्यं करपादस्य न कुर्यादङ्गघर्षणम् ।।३८।।

पैत्रश्वाशुर्यपक्षाभ्यां छन्नं पुंसा न केनचित् । स्त्रिया व्यवहरेत्तस्मै न दद्यान्नाददीत तत् ।।३९।।

स्वबन्धुनापि चैकेन यूना सह पथि क्वचित् । तारुण्ये विधवा नैव गच्छेन्नोपविशेद्रहः ।।४०।।

भाषणस्पर्शवीक्षादि पुंसो यत्तु निषेधितम् । तदत्रासन्नसम्बन्धिपुम्भ्योऽन्यत्रावगम्यताम् ।।४१।।

पिता भ्राता पितृव्यश्च तत्पुत्रास्तत्सुतादयः । मातामहो मातुलश्च तत्पुत्रास्तत्सुतादयः ।।४२।।

मातृष्वसुः पतिः पुत्रास्तथा पितृष्वसुः पतिः । तत्पुत्रा गुरुतत्पुत्रावन्नदाता च तत्सुतः ।।४३।।

सभ्रातृकश्च श्वशुरस्तथा ज्येष्ठाश्च देवराः । तेषां पुत्राश्च दौहित्रादुहितृपतयस्तथा ।।४४।।

पुत्रपौत्रादयः स्वस्या एते सम्बन्धिनो मताः । तत्स्पर्शभाषणेक्षासु न दोषो यदि धार्मिकाः ।।४५।।

न कपाटावृते गेहे विजने वा स्थले क्वचित् । स्वपित्रापि सहासीत विधवैकाकिनी ध्रुवम् ।।४६।।

स्वसम्बन्धिजना एते पापिनो विमुखाः प्रभोः । यदि स्युस्तर्हि तान्नैव भाषयेच्च न सा स्पृशेत् ।।४७

हित्वा तान्पापिनः साध्वी निष्कामव्रतरक्षकम् । पोषकं त्वाश्रयेदन्यं पितृभ्रातृसुतैः समम् ।।४८।।

पितृवत्पोषयेद्यः स्वं धर्मं च परिपालयेत् । स एव हि पिता प्रोक्तो न स्वधर्मस्य घातकः ।।४९।।

भ्रातृवत्पोषयेद्यः स्वं धर्मं च परिपालयेत् । भ्राता स एव हि प्रोक्तो न स्वधर्मस्य घातकः ।।५०।।

पुत्रवत्पोषयेद्यः स्वं धर्मं च परिपालयेत् । पुत्रः स एव हि प्रोक्तो न स्वधर्मस्य घातकः ।।५१।।

शारीरसम्बन्धहीना अपि ते धर्मरक्षकाः । पित्रादितुल्या विज्ञोया भिन्नवर्णा अपि ध्रुवम् ।।५२।।

तत्स्पर्शभाषणेक्षासु स्पर्शे तद्वाससामपि । विधवाया धर्मवत्या दोषो नास्त्येव निश्चितम् ।।५३।।

पितृभ्रात्रादयो यस्या न स्युः सम्बन्धिनो जनाः । सा धर्मरक्षामिच्छुश्चेदाश्रयेद्धर्मरक्षकम् ।।५४।।

स्वतन्त्रा न भवेत्क्वापि नारी धर्मपरायणा । ज्ञातेरभावे राजानमाश्रयेद्धर्मरक्षकम् ।।५५।।

जातिभ्रंशकरं कर्म किञ्चिदप्याचरेन्न सा । जातिशुद्धिर्यता हेतुर्बुद्धिशुद्धेरुदीर्यते ।।५६।।

अथ यस्या जीविका तु क्रयविक्रयकर्मणा । कृषिसेवादिना वा स्यात्तस्या निर्णय उच्यते ।।५७।।

भाषणं स्पर्शनं पुंसो व्यवहारेऽत्र चेद्बवेत् । तावत्कालं तु तत्कुर्याद्यतः सा जीविका मता ।।५८।।

कुलोचितं न चेत्कुर्याद्व्यवहारं स्वजीवने । पराश्रयात्तदा भ्रष्टा सा निष्कामव्रताद्बवेत् ।।५९।।

श्रीविष्णोः पूजनं कार्यं यथालब्धोपचारकैः । मनसि प्रतिमायां च ज्ञोयो भर्ता स एव च । ।।६०।।

तन्नाममन्त्रस्य जपं कुर्यान्नित्यं स्वशक्तितः । दिवा रात्रौ च कार्येषु स्मर्तव्यो हरिरेव हि ।।६१।।

ऋतौ च सूतके रोगे मानसं त्वर्चनं हरेः । स्वयं कुर्याद्बाह्यपूजां कारयेदन्ययोषिता ।।६२।।

आवश्यकं गेहकार्यं कृत्वा सा सकलं दिनम् । भक्तिमेव हरेः कुर्याद्वयर्थं कालं तु न क्षिपेत् ।।६३

न भक्षयेत्सा यतीनां च वर्णिनामनाश्रमस्थस्य जनस्य च द्विज ! ।
अन्नं क्वचापद्यपि धर्मसंस्थिता यद्बक्षणान्नश्यति वै मतिः शुभा ।।६४।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु विधवानां कबरीबन्धवर्जनादिधर्मनिरूपणनामा त्रयस्त्रिंशोऽध्यायः ।।३३।।