चतुर्त्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


एकादशीस्तथा जन्माष्टम्यादीनि व्रतानि च । नित्यानि कुर्यात्तत्रार्चां वासुदेवस्य सादरम् ।।१।।

धर्मनिष्ठा व्रतान्येव सा तु कुर्यान्निरन्तरम् । त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ।।२।।

मासोपवासं वा कुर्याच्चान्द्रायणमथापि वा । कृच्छ्रं पराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा ।।३।।

यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ।।४।।

वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् । स्ननं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ।।५।।

वैशाखे जलकुम्भांश्च कार्तिके घृतदीपकान् माघे धान्यतिलान् दद्याद्विधवा सति वैभवे ।।६।।

प्रपा कार्या च वैशाखे देवे देया गलन्तिका । उपानद्वयजनं छत्रं सूक्ष्मवासांसि चन्दनम् ।।७।।

सकर्पूरं च ताम्बूलं पुष्पदाम तथैव च । जलपात्राण्यनेकानि तथा पुष्पगृहाणि च ।।८।।

पानानि च विचित्राणि द्राक्षारम्भाफलानि च ।तया देयानि विप्रेभ्यः पतिर्मे प्रीयतामिति ।।९।।

ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः । वृन्ताकं सूरणं चैव शूकशिम्बीं च वर्जयेत् ।।१०।।

कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु । कार्तिके वर्जयेत्कांस्यं कार्तिके शुक्तसन्धितम् ।।११।।

कार्तिके मौननियमे घण्टां चारुं प्रदापयेत् ।पत्रभुक्कांस्यपात्रं तु घृतपूर्णं द्विजाय च ।।१२।।

भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका । फलत्यागे फलं देयं रस त्यागे च तद्रसः ।।१३।।

धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः । धेनूर्दद्यात्प्रयत्नेन सालङ्काराः सकाञ्चनाः ।।१४।।

एकतः सर्वदानानि दीपदानं तथैकतः । कार्तिके मासि तत्तस्मात्कर्तव्यं सर्वथा मतम् ।।१५।।

किञ्चिदभ्युदिते सूर्ये माघस्ननं समाचरेत् । यथाशक्त्या च नियमान्माघस्नत्री समाचरेत् ।।१६।।

पक्वान्नैर्भोजयेद्विप्रान् यतिनोऽपि तपस्विनः । लड्डुकैः फेणिकाभिश्च वटकैर्घुर्घुरादिभिः ।।१७।।

घृतपक्वै : समरिचैः शुचिकर्पूरवासितैः । गर्भे शर्करया पूर्णैर्नेत्रानन्दैः सुगन्धिभिः ।।१८।।

शुष्केन्धनानां भारांश्च दद्याच्छीतापनुत्तये । कञ्चुकं तूलगर्भं च तूलिकां सोपधानिकाम् ।।१९।।

मञ्जिष्ठारक्तवासांसि तथा तूलवतीं पटीम् । जातीफललवङ्गैलाताम्बूलानि बहून्यपि ।।२०।।

कम्बलांश्चित्रवर्णांश्च निर्वातानि गृहाणि च । मृदुलाः पादरक्षाश्च सुगन्ध्युद्वर्तनानि च ।।२१।।

दानानि ददती सा च दानेनानेन मे सदा । भर्तृस्वरूपो भगवान्प्रीयतामिति चोच्चरेत् ।।२२।।

एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः । वैशाखान्कार्तिकान्माघान् यथाशक्त्यतिवाहयेत् ।।२३।।

व्रतोपवासहीना तु नारी भ्रष्टा भवेद्ध्रुवम् । कामाकुला स्याच्च यथा ह्यूर्जे मासि शुनी कपी ।।२४।।

शृणियात्सच्छास्त्रकथां वक्तुर्धर्मपरायणात् । उपविश्य स्त्रीसमेया पालयन्ती निजं व्रतम् ।।२५।।

कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याच्चरेन्न तु ।।२६।।

एतान्धर्मांस्तु या नारी चिन्तयन्ती मृतं पतिम् । पालयेत्सा सतीलोकं प्राप्नुयाद्वै सभर्तृका ।।२७।।

कृष्णमेव पतिमात्मनस्तु या चिन्तयन्त्यविरतं भजेच्च तम् ।
संस्थिता च निजधर्मवर्त्मनि तत्पदं द्विज ! लभेत सा परम् ।।२८।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु विधवानां व्रतविशेषविधिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ।।३४।।