षड्त्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


नित्यं श्रीवासुदेवस्य योषाभिः पूजनं मुदा । कर्तव्यं तस्य च विधिं कथयामि समासतः ।।१।।

प्रातः शुच्यम्बुना स्नत्वा धौतं धवलमंशुकम् । वसित्वाऽचमनं कृत्वा पूजाद्रव्याणि साधयेत् ।।२

उज्जवलं जलपात्रं च गालितं निर्मलं जलम् । तथाऽचमनपात्रं च देवस्न्पनभाजनम् ।।३।।

चन्दनं चाक्षतान् पुष्पं धूपं दीपं निवेदनम् । मुखवासं दक्षिणां च नीराजनमुपाहरेत् ।।४।।

शालग्रामो नार्चनीयः स्त्रीभिः सर्वाभिरप्यतः । प्रतिमापूजनं ताभिः कर्तव्यं कमलापतेः ।।५।।

नखस्पृष्टेनोदकेन न कुर्यात्पूजनं हरेः । न चाचमनशिष्टेन पादाक्रान्तेन चाम्बुना ।।६।।

घृतेन दीपं कुर्वीत तिलतैलेन वाऽर्चने । पूजोपहारालाभे तु मन्त्रमात्रमुदीरयेत् ।।७।।

पूजायां क्रियमाणायां स्त्री न भाषेत यान्यया । इतस्ततो न पश्येच्च क्रोधं कुर्वीत न क्वचित् ।।८।।

उपविश्य शुचिस्थाने पुनराचम्य सा हरिम् । उत्थापयेत्तालिकाभिर्घण्टानादेन वा शनैः ।।९।।

उत्तिष्ठोत्तिष्ठ गोविन्द ! उत्तिष्ठ गरुडध्वज ! । उत्तिष्ठ कमलाकान्त ! त्रैलोक्ये मङ्गलं कुरु ।।१०।।

उत्थाप्य प्रतिमामेवं हरेर्वस्त्रेण मार्जयेत् । सिंहासने तां मृदुले स्थापयेद्वा करण्डके ।।११।।

शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता ।।१२।।

प्राङ्मुखोदङ्मुखा वापि प्रतिमासम्मुखाऽथवा । स्वस्तिकासनमासीना ध्यायेत्स्वहृदये हरिम् ।।१३।।

कोटिकोटयर्करुचिरे दिव्यसिंहासने स्थितम् । द्विभुजं च घनश्यामं कोटिकन्दर्पसुन्दरम् ।।१४।।

अनेकदिव्याभरणं पीतकौशेयवाससम् । मुरलीं वदयन्तं च स्थितं राधारमायुतम् ।।१५।।

उपाश्रितं च धर्मेण वामे शुभ्ररुचाऽदरात् । उपास्यमानं भक्त्या च गाढस्नेहेन दक्षिणे ।।१६।।

अनेकदिव्योपहारैः पूजितं देवतागणैः । सेव्यमानं पार्षदैश्च छत्रव्यजनचामरैः ।।१७।।

एवंविधं वासुदेवं ध्यात्वा स्वहृदयाम्बुजे । स्वेष्टैरनेकोपचारैर्मानसैस्तं समर्चयेत् ।।१८।।

आवाह्य प्रतिमायां तं यथालब्धोपचारकैः । श्रीकृष्णाय नम इति षडर्णमनुनाऽर्चयेत् ।।१९।।

आवाहनासने पाद्यमर्घ्यमाचमनीयकम् । स्ननं वासश्चन्दनं च पुष्पं धूपं च दीपकम् ।।२०।।

नैवेद्यं मुखवासं च दक्षिणां च क्रमेण सा । नीराजनं मन्त्रपुष्पं समर्प्य प्रार्थयेद्धरिम् ।।२१।।
श्रीकृष्ण ! नारायण ! देवदेव ! श्रीराधिकाकान्त ! सदर्चनीय ! ।

भक्तप्रियाऽनन्दितभक्तिधर्म ! प्रभो ! हरे ! नाथ ! मयि प्रसीद ।।२२।।
त्वय्येव लोके पतिशब्द ईशे ह्यन्वर्थ एवास्ति समन्ततो मे ।

भीतेरिहामुत्र च रक्षके वै ततः पतिस्त्वं हि मया कृतोऽसि ।।२३।।
अन्यं पतिं या तु वृणोति नारी भवन्तमाराध्य तपोर्चनाद्यैः ।

सा मोहिता ते ननु माययैव भयादिहामुत्र न मुच्यते यत् ।।२४।।
अतो मया धर्मतपोव्रताद्यैस्त्वत्प्रीतिरेवेष्यत ईश ! नान्यत् ।

अतः प्रसन्नो हि भवात्मबन्धो ! मनोरथं पूरय मे हृदिस्थम् ।।२५।।

इति सम्प्रार्थ्य नत्वा तं धारयेद्धृदये पुनः । करण्डके च प्रतिमां स्वापयेद्योषिदन्वहम् ।।२६।।

पूजाविधिरिति प्रोक्तः सेपेण मया हरेः । यस्मिन् कृते तु नारीणां प्रेमवृद्धिर्भवेत्प्रभौ ।।२७।।

कृष्णपूजनविधेश्च समाप्तौ कृष्णमन्त्रमचला गुरुलब्धम् ।
स्त्री जपेदनघ ! पञ्चशतं सा कृष्णपादकमलाहितचित्ता ।।२८।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु श्रीकृष्णपूजाविधिनिरूपणनामा षट्त्रिंशोऽध्यायः ।।३६।।