सप्तपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


समाधियोगस्याङ्गानि प्रोक्तान्यष्टौ मनीषिभिः । तानि तेऽनुक्रमेणाहं कथयामि दृढव्रत ! ।।१।।

आद्यं यमास्ततः प्रोक्ता नियमाश्चासनान्यथ । प्राणायामश्चतुर्थं तु प्रत्याहारश्च पञ्चमम् ।।२।।

धारणा च ततो ध्यानं समाधिश्चाष्टमं मतम् । अङ्गी समाधिरेतैर्हि सिद्धयत्यङ्गैः किलाष्टभिः ।।३।।

तत्राद्यानि तु पञ्चापि बहिरङ्गाणि तस्य हि । अन्तरङ्गाणि च त्रीणि धारणादीनि विद्धि भोः ! ।।४।।

अथैतेषां लक्षणानि सेपेण पृथक्पृथक् । योगशास्त्रोदितान्येव कथयामि फलैः सह ।।५।।

हिंसादिभ्योऽघकर्मभ्यः साधकं योग एव ये । स्वाश्रितं यमयन्त्यत्र ते तु प्रोक्ता यमा बुधैः ।।६।।

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं च सुव्रत ! । अपरिग्रह इत्येवं यमाः पञ्च प्रकीर्तिताः ।।७।।

शरीरवाङ्गमनोभिर्यदक्लेशजननं सदा । प्राणिमात्रस्य सा सद्बिरहिंसेत्यभिगीयते ।।८।।

धर्माधर्मौ समीक्ष्यैव यथार्थकथनं तु यत् । सर्वेषां हितकृद्यच्च वाक्यं तत्सत्यमुच्यते ।।९।।

अदत्तस्य परस्वस्य पारोक्ष्येण बलेन वा । यन्नैव ग्रहणं क्वापि तदस्तेयमुदीर्यते ।।१०।।

स्त्रीसङ्गस्याष्टधा त्यागः सम्यग्वस्तुविचारतः । ब्रह्मचर्यं तदेवाहुर्ब्रह्मप्राप्तिकरं तु यत् ।।११।।

स्वयं विचार्य त्यक्तानां पदार्थानां न सङ्ग्रहः । सोऽपरिग्रह इत्याहुर्मुनयस्तत्त्वदर्शिनः ।।१२।।

अहिंसायाः फलं तत्र निर्वैरत्वं हि सर्वथा । अस्रावित्थं च सत्यस्य फलं वै पुण्यकर्मणाम् ।।१३।।

अस्तेयस्य फलं नानादिव्यरत्नोपलम्भनम् । वीर्यलाभो योगसिद्धिर्ब्रह्मचर्यस्य च द्रुतम् ।।१४।।

मनोविक्षेपनाशश्चापरिग्रहफलं मतम् । इति प्रोक्ता यमाः पञ्च नियमान्कथयाम्यथ ।।१५।।

निवर्त्य काम्यधर्मेभ्यो मोक्षधर्मेषु योगिनम् । ये वै नियमयन्त्यत्र नियमास्ते प्रकीर्तिताः ।।१६।।

शौचं तपश्च सन्तोषः स्वाध्यायश्चेश्वरार्चनम् । इति पञ्चैव कथितास्ते च योगविशारदैः ।।१७।।

तत्र शौचं द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः । मृज्जलाभ्यां भवेद्बाह्यं भावशुद्धया तथान्तरम् ।।१८।।

शरीरशोषणं यत्तु कृच्छ्रचान्द्रायणादिभिः । ऐकाग्रयमिन्द्रियाणां च तप इत्युच्यते तथा ।।१९।।

अन्येच्छारहिता तुष्टिः सम्प्राप्तेनेश्वरेच्छया । अन्नादिना स सन्तोषः कथ्यते सुमते ! बुधैः ।।२०।।

भक्त्योपनिषदां पाठो यथाशक्ति निरन्तरम् । भक्तिशास्त्रस्य वान्यस्य स्वाध्यायः स च कथ्यते ।।२१

मनसा चिन्तनं नित्यं हरेश्च वचसा स्तुतिः । कायेन पूजा पुष्पाद्यैरित्युक्तं चेश्वरार्चनम् ।।२२।।

सत्त्वशुद्धिः सौमनस्यमिन्द्रियाणां च निग्रहः । आत्मदर्शनयोग्यत्वं फलं शौचस्य तेष्वथ ।।२३।।

तपसस्त्विन्द्रियधियां शुद्धिश्चाघक्षयः फलम् । सर्वोत्तमसुखप्राप्तिः सन्तोषस्य फलं तथा ।।२४।।

प्रसन्नतेष्टदेवस्य स्वाध्यास्य फलं मतम् । फलमीश्वरपूजायाः समाधेः सिद्धिराशु च ।।२५।।

आस्यते योगिना यत्र येन वा योगसिद्धये । तदासनमिति प्रोक्तं योगस्याङ्गं तृतीयकम् ।।२६।।

आसनानि तु योगज्ञा: प्राहुर्बहुविधानि हि । चतुरशीतिसंख्यानि तेषु मुख्यानि योगिनाम् ।।२७।।

तत्रापि त्रिंशन्मुख्यानि योगिनः कथयन्ति हि । चतुर्दश च तत्रापि मुख्यानि कथयामि ते ।।२८।।

स्वस्तिकं गोमुखं वीरं योगं पद्मं च कौक्कुटम् । कौर्मं चापं च मायूरं तथा पश्चिमतानकम् ।।२९।।

शाबं सिद्धं तथा सैहं भद्रं चेति चतुर्दश । लक्षणानि क्रमेणैषां कथयाम्यथ तत्त्वतः ।।३०।।

जानूर्वोरन्तरे पादतले द्वे अपि योगकृत् । कृत्वासीत ऋजुर्यत्तत्स्वस्तिकं परिकीर्तितम् ।।३१।।

दक्षपार्श्वे सव्यगुल्फं सव्ये दक्षिणमर्पयेत् । गोमुखाकृति तत्प्रोक्तमासनं गोमुखाभिधम् ।।३२।।

न्यसेदूरौ पादमेकमूरुमन्यपदे तथा । वीरासनमिति प्रोक्तं सुकरं साधकैरिदम् ।।३३।।

व्युत्क्रमेण गुदं रुध्वा गुल्फाभ्यां स्यात्समाहितः । एतद्योगासनं प्रोक्तं योगविद्यमिसम्मतम् ।।३४।।

वामोरौ दक्षिणं पादं दक्षोरौ न्यस्य चेतरम् । अपाक्कराभ्यामंगुष्ठौ दध्यात्पद्मासनं त्विदम् ।।३५।।

बध्वा पद्मासनं हस्तौ जानूर्वोरन्तरेण च । भुवि संस्थाप्य व्योमस्थो भवेत्तत्कुक्कुटासनम् ।।३६।।

कुक्कुटासनबन्धस्थो दोर्भ्यां संहृत्य कन्धराम् । भवेत्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ।।३७।।

सव्योरुमूले दक्षांघ्रि कृत्वा जान्वोर्बहिर्धरेत् । वेष्टितेन करेणान्यं दक्षेण धनुरासनम् ।।३८।।

एतज्जाठररोगघ्नं कुण्डलीबोधकारकम् । अङ्गानां स्थैर्यकृत्तोक्तमासनं मुनिसम्मतम् ।।३९।।

दोर्भ्यां भूमिमवष्टभ्य नाभिपार्श्वे कफोणिगे । कृत्वा भवेत्स्वस्थवपुर्मायूरं तद्धि दण्डवत् ।।४०।।

रोगानौदरिकान्हन्ति प्रदीपयति जाठरम् । भुक्तं विषं कदशनं जरयत्येतदासनम् ।।४१।।

प्रसार्य दण्डवत्पादौ गृहीत्वाग्रद्वयं तयोः । न्यसेज्जानूपरि शिर इति पश्चिमतानकम् ।।४२।।

पवनं पश्चिमगतिं जठराग्निप्रदीपनम् । कृशत्वमुदरस्यापि कुर्यादेतत्किलासनम् ।।४३।।

शबासनं च शबवदुत्तानं शयनं भुवि । सर्वासनश्रान्तिहरं चित्तविश्रान्तिसाधनम् ।।४४।।

निपीडय सीवनीं वामपार्ष्णिना वामगुल्फके । विन्यसेद्दक्षिणं गुल्फमेतत्सिद्धासनं स्मृतम् ।।४५।।

आसनाग्रयं च रोगघ्नमेतद्वज्रासनं विदुः । केचिन्मुक्तासनं प्राहुरेके गुप्तासनं जगुः ।।४६।।

अधो वृषणयोर्गुल्फौसीवनीपार्श्वयोः क्षिपेत् । सव्ये दक्षं दक्षिणेऽन्यं प्रसृतांगुलिकौ करौ ।।४७।।

जान्वोर्धृत्वा व्यात्तवक्रो नासिकाग्रं विलोकयेत् । एतत्सिंहासनं प्रोक्तं योगिनामभिवाञ्छितम् ।।४८।।

सीवनीपार्श्वयोर्गुल्फौ वृषणाधः क्रमान्न्यसेत् । दध्यात्पादावपाग्दोर्भ्यामिति भद्रासनं परम् ।।४९।।

इत्यादीन्यासनान्याहुर्योगशास्त्रविशारदाः । स्थिरं सुखं ध्यानकाले तेषामेकतमं श्रयेत् ।।५०।।

आसनश्रमजातेन स्वेदेनाङ्गं विमर्दयेत् । दृढता लघुता चैव तेन गात्रस्य जायते ।।५१।।

आसनानां फलं प्रोक्तं सर्वद्वन्द्वसहिष्णुता । शरीररोगनाशश्च प्राणायामाधिकारिता ।।५२।।

उदितान्यासनान्यस्य सिद्धानि स्युर्यदा तदा । गुरूपदिष्टमार्गेण नाडीशोधनमभ्यसेत् ।।५३।।

विना नाडीशोधनं तु प्राणायामो न सिध्द्यति । मलाकुलासु नाडीषु नान्तश्चरति मारुतः ।।५४।।

धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिका तथा । कपालभातिश्चेत्याद्याः क्रियाः सन्त्यत्र कीर्तिताः ।।५५

शनैर्ग्रसेत्सितं वस्त्रं चतुरङ्गुलविस्तृतम् । प्रत्याहरेत्पुनरिति धौतिः कासादिरोगहा ।।५६।।

नाभिमात्रे जले स्थित्वा पायुनाकृष्य वारि च । त्यजेद्बस्तिं क्षालयित्वा स बस्तिः सर्वरोगत्हृत् ।।५७

शिश्नेनाकृष्य सलिलं पुनस्तेनैव रेचयेत् । गुदेन वा रेचयेत्तद्बस्तिरेष द्वितीयकः ।।५८।।

पीत्वा मुखेन पानीयं रेचयेत्तग्दुदेन च । शङ्खप्रक्षालनाख्यैषा बस्तिरुक्ता मनीशिभिः ।।५९।।

पीत्वा जलं मुखेनादौ पुनस्तेनैव तद्वमेत् । प्रोक्ता गजकरण्येषा क्रिया वै नाडिशोधनी ।।६०।।

नासानाले स्न्ग्धिसूत्रं प्रवेश्याकर्षयेन्मुखात् । एषा नेतिर्नेत्रमूर्धरोगघ्नी दिव्यदृष्टिदा ।।६१।।

त्राटकं च सूक्ष्मलक्ष्यं यावत्स्यादश्रुपातनम् । तावत्स्थिरदृशेक्षेत नेत्ररुक्तन्द्रिहन्त्रिदम् ।।६२।।

अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिर्दोषैकशोषणी ।।६३।।

रेचकं पूरकं कुर्याद्बस्त्रावच्च ससम्भ्रमम् । कपालभातिः सा प्रोक्ता दोषघ्नी योगिसम्मता ।।६४।।

शुद्धयन्ति नाडय एताभिः क्रियाभिर्योगचारिणः । शुद्धासु तस्य नाडीषु प्राप्नोति कृशतां तनुः ।।६५

देहे भवति कान्तिश्च जठराग्निप्रदीपनम् । नादाभिव्यक्तिरारोग्यं यथेष्टं वायुधारणम् ।।६६।।

इत्थं नाडीः शोधयित्वा प्राणायामं समभ्यसेत् । चले वाते चलं चित्तं निश्चले निश्चलं यतः ।।६७।।

आसनं दृढमाश्रित्य कुर्वीत प्राणासंयमम् । गुरुप्रोक्तक्रमेणैव स्वस्थचित्तः शनैः शनैः ।।६८।।

प्राणशब्देन तु मुने ! शारीरो वायुरुच्यते । आयामो निग्रहस्तस्य प्राणायामस्ततः स्मृतः ।।६९।।

प्राणायामो द्विधा प्रोक्तः सगर्भोऽगर्भ एव च । जपध्यानं विनाऽगर्भः सगर्भस्तत्समन्वितः ।।७०।।

अगर्भात्केवलात्सिद्धिः सगर्भः श्रेष्ठ उच्यते । सगर्भाभ्यासतः शीघ्रं सिद्धिं योगस्य विन्दति ।।७१।।

द्वयोऽप्यसौ चतुर्धोक्तः पूरको रेचकस्तथा । कुम्भकः शून्यकश्चेति शृणु तल्लक्षणान्यपि ।।७२।।

यथा कमलनालेन जलं वक्त्रधृतेन तु । आकर्षयेत्तथा वायुं पूरकः स निगद्यते ।।७३।।

समुत्क्षिप्य बहिर्वायुं शून्यं कुर्याद्धृदम्बरम् । स रेचक इति प्रोक्तो योगशास्त्रविशारदैः ।।७४।।

उच्छ्वासमथ निःश्वासं रुन्ध्याद्योगी स्थिरस्थितिः । स कुम्भक इति प्रोक्तः पूर्णकुम्भ इव स्थितिः ।।७५

कुम्भको द्विदिधो ब्रह्मन्नेष सङ्कथ्यते बुधैः । एक आभ्यन्तरस्तत्र द्वितीयो बाह्य उच्यते ।।७६।।

अपाने प्राणसंरोधो ज्ञोय आभ्यन्तरो मुने ! । प्राणेऽपानस्य संरोधो द्वितीयः कुम्भकः स्मृतः ।।७७।।

पूरकः प्रणवैस्तत्र कार्यः षोडशभिः शनैः । द्वात्रिशता रेचकस्तु चतुःषष्टया च कुम्भकः ।।७८।।

अथवा विष्णुगायत्रीं योगी स्वमनसा पठन् । यथाशक्त्येव कुर्वीत प्राणायाममतन्द्रितः ।।७९।।

पिङ्गला दक्षिणे वामे नाडीडासंस्थितौ तयोः । सूर्यचन्द्रौ सुषुम्णा तु तन्मध्ये तत्र पावकः ।।८०।।

इडया पूरकं कृत्वा ततः कुर्वीत कुम्भकम् । ततः पिङ्गलया कुर्याद्रेचकं तु शनैः शनैः ।।८१।।

यद्वा पिङ्गलया कुर्यात्पूरकं कुम्भकं ततः । कृत्वा च रेचकं कुर्यादिडया योगसाधकः ।।८२।।

शनैः कृतेन युक्तेन प्राणायामेन योगिनः । रोगनाशश्च सिद्धिः स्यादन्यथा तु विपर्ययः ।।८३।।

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ।।८४।।

कनीयसि प्राणरोधे स्वेदः कम्पस्तु मध्यमे । उत्तमे चासनोत्थानं साधकस्य मुहुर्भवेत् ।।८५।।

बहिःस्थितस्याग्रहणमत्यागोऽन्तःस्थितस्य च । वायोः स शून्यको ज्ञोयः शून्यवेधाद्यभूमिका ।।८६।।

प्राणायामफलं प्रोक्तं मुनिभिर्योगवित्तमैः । योग्यता धारणासु स्यान्मनसस्त्विति सुव्रत ! ।।८७।।

अस्य शून्यकसंज्ञास्य प्राणरोधस्य सर्वतः । विशेषो वर्तते तं च सर्वं ते कथयाम्यहम् ।।८८।।

न शून्यकप्राणनिरोधसाम्यं योगाङ्गमाप्नोत्यपरं हि किञ्चित् । 
नादाभिधब्रह्मणि यत्र लब्धे भवेत्परब्रह्मसुखानुभूतिः ।।८९।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे यमनियमासनप्राणायामलक्षणनिरूपणनामा सप्तपञ्चाशत्तमोऽध्यायः ।।५७।।