अष्टपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


प्राणायामः शून्यकाख्यो मतः श्रेष्ठतया बुद्धैः । स निर्वासनचित्तस्य पुंसो हृद्येव जायते ।।१।।

हृदि तस्मिञ्जायमाने प्राणाद्या दश वायवः । स्वस्वस्थानावकाशेषु शाम्यन्ति हृदयादिषु ।।२।।

योगिनो जायतेऽवस्था तदा जाग्रत्सुषुप्तिवत् । देहे च स्तब्धता चान्तर्नादस्य श्रवणं तथा ।।३।।

आदौ तन्त्रीरवमिव श्रुत्वा सूक्ष्मध्वनिं ततः । अन्तः प्रबुद्ध्यते चाथ वेणुनादं शृणोति सः ।।४।।

ततो मृदङ्गवन्नादं शङ्खदुन्दुभिवत्ततः । भेर्याद्यनेकवादित्रतुल्यनादं शृणोत्यथ ।।५।।

मेघगर्जनतुल्यांश्च नादान्नैकविधानिति । श्रुत्वाऽतीव प्रबुद्धः सन्प्रकाशं हृदि पश्यति ।।६।।

ततः स्थूलविराडाख्यदेहेषु प्रणवं स च । श्वासोच्छ्वासस्वरूपेण स्थितं स्वहृदि पश्यति ।।७।।

अभ्यसन्ति योगिनोऽत्र प्राप्तये यस्य नित्यदा । प्रतिश्वासं महामन्त्रमष्टाक्षरमतन्द्रिताः ।।८।।

आदौ तु तेजसां राशिमाकाशवदनन्तकम् । नादब्रह्मेति यं प्राहुस्तं पश्यति महोज्ज्वलम् ।।९।।

यस्माच्चाग्नेर्विस्फुलिङ्गा इव निर्यान्ति सर्वतः । तेजसो मण्डलान्यर्कबिम्बतुल्यान्यनन्तशः ।।१०।।

तस्मात्तु तेजसां राशेरुद्यन्तं प्रणवं ततः । स वीक्षते नादरूपं योगी तेजोमयं सितम् ।।११।।

प्रणवध्वनयस्तत्र तेजोभ्रमिसमप्रभाः । उत्पद्यन्तोऽपियन्तश्च दृश्यन्ते तेन भूरिशः ।।१२।।

यथा समुद्रे कल्लोला विद्युतो वा बलाहके । उत्पद्यन्ते च लीयन्ते तेजःपुञ्जे तथा रवाः ।।१३।।

नादात्मकस्य तस्याथ प्रणवस्य महाध्वनौ । प्राक्श्रुता इतरे नादास्तिरोधीयन्त एव ते ।।१४।।

प्रणवस्यास्य माहात्म्यं वेदेषु बहुधोदितम् । तस्य सारं समाकृष्य सेपेण वदाम्यहम् ।।१५।।

यत्किञ्चिद्वाङ्गयं लोके प्रणवो ह्येष तस्य तु । ज्ञोयः कारणमस्तीति बीजरूपः सनातनः ।।१६।।

तस्याकार उकारश्च मकारश्चार्धमात्रिका । मात्राश्चतस्र इत्याहुः सर्वाधारतया मताः ।।१७।।

विराड्विष्णुः स्थितिश्चेति त्रयं चाकारमाश्रितम् । सूत्रं हिरण्यगर्भश्च सृष्टिश्चोकारमाश्रिताः ।।१८।।

अव्याकृतेश्वरलया मकारमिति संश्रिताः । चिदाकाशाक्षरब्रह्मतुर्यमित्यर्धमात्रिकाम् ।।१९।।

मातृकाश्च द्विपञ्चाशद्वेदा व्याहृतिभिः सह । वेदाङ्गान्यथ यत्किञ्चित्तन्मूलं वाङ्मयं हि तत् ।।२०।।

ततोऽवकाशोऽप्यखिलः प्रणवस्यास्य तेजसा । व्याप्त इत्यवलोक्यासौ प्राप्नोत्यानन्दमुत्तमम् ।।२१।।

तस्यैवालम्बनाच्छून्यमहाशून्यादिभूमिकाः । विध्वा नादात्मकं योगी याति नारायणं प्रभुम् ।।२२।।

कार्यकारणरूपोऽसौ नादः सर्वो यदङ्गतः । प्रादुर्भवति तं देवं साक्षात्स्वहृदि वीक्षते ।।२३।।

ततः स कृतकृत्योऽत्र भवत्येव न संशयः । तत्प्रसादादवाप्नोति तद्धाम परमं ब्रृहत् ।।२४।।

शून्यकप्राणसंरोधाद्येयं स्थितिरुदीरिता । सहजः स समाधिर्हि कथ्यते तत्त्वदर्शिभिः ।।२५।।

तद्वान्योगी वपुःस्थोऽपि वर्तते साक्षिवत्सदा । प्राप्य चात्यन्तिकलयस्थितिमुन्निद्र एव सः ।।२६।।

न सर्वलोकसाध्योऽयं शून्यकः प्राणसंयमः । न चैकजन्मजन्येन सुकृतेनापि लभ्यते ।।२७।।

अनेकजन्मजन्यानां सञ्चयैः पुण्यकर्मणाम् । अशेषवासनाहीनं यस्य चित्तं तु जायते ।।२८।।

तस्य सत्सङ्गसच्छास्त्रे विनापि शून्यकस्थितिः । वासुदेवस्यैव साक्षादिच्छया जायते मुने ! ।।२९।।

सहात्मनो ब्रह्मणैक्यं बाल्येऽप्यनुभवत्यसौ । आर्षभेषु यथा पूर्वं नवयोगेश्वरास्तथा ।।३०।।

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ।।३१।।

पुत्रा ऋषभदेवस्य नवैते योगवित्तमाः । सिद्धा बभूवुर्बाल्येऽपि प्राप्तब्रह्मात्मदर्शनाः ।।३२।।

तथाविधाश्च ये केचित्तेऽधुनाप्यत्र भूतले । नारायणेच्छयाऽकस्माल्लभन्ते तादृशीं स्थितिम् ।।३३।।

चित्तस्य निर्वासनतां विना शून्यकसिद्धये । उपायोऽन्यस्तु नास्त्येव कश्चिदप्यत्र सन्मते ! ।।३४।।

सनिर्वासनचित्तस्य हृदये प्राणसंयमः । जायते सहसैवापि पूरकाद्याः क्रिया विना ।।३५।।

इति ते प्राणसंरोधो मया सङ्कीर्तितो मुने ! । यः सामान्यविशेषाभ्यां प्रोक्तो योगविशारदैः ।।३६।।

यः प्राणसंयमनमभ्यसतीह सिद्धयोगोपदर्शितपथेन पुमांस्तु धीरः । 
तस्यातिचञ्चलमपि प्रशमं समेति मोक्षोन्मुखैकरिपुराशु मनोऽपि नूनम् ।।३७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे शून्यकप्राणायामलक्षणनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ।।५८।।