श्रीनारायणमुनिरुवाच :-
पुंसा सिसाधयिषता प्राणायाममिहाञ्जसा । ज्ञोयानि नासानिःश्वासे पञ्च तत्त्वानि सर्वथा ।।१।।
इडायां पिङ्गालायां वा सुषुम्णायां च योगिना । वहन्त्यां यच्च कर्तव्यं ज्ञोयं तदपि तत्त्वतः ।।२।।
सौरांश्चान्द्रांश्च तिथ्यादीनपि ज्ञात्वा यथागमम् । विदधीत यथाकालं योगकृत्सकलाः क्रियाः ।।३।।
विस्तृतं सर्वमेतद्धि वर्तते स्वरशासने । ब्रुवे तत्सारमाकृष्य साधकानां हिताय च ।।४।।
तत्र पीतं चतुष्कोणं ज्ञोयं तत्त्तु पार्थिवम् । श्वासस्तदा मध्यगतिर्भवेच्च द्वादशांगुलः ।।५।।
तदा स्थिरः स्वभावः स्यादर्थे च सुरभौ रुचिः । पीतवर्णपदार्थानां सङ्कल्पश्च भवेत्धृदि ।।६।।
एवंविधे धरातत्त्वे वर्तमाने तु योगिना । स्थिरकार्याणि कार्याणि स्वोचितान्येव नेतरत् ।।७।।
वारितत्त्वं भवेच्छ्वेतमर्धचन्द्रसमाकृति । अधोगतिस्तदा श्वासः षोडशांगुलमायतः ।।८।।
तदा स्वभावे चाञ्चल्यं रसेहाचिन्तनं हृदि । भवेच्छ्वेतपदार्थानां शान्तिकर्मात्र चाचरेत् ।।९।।
तेजस्तत्त्वं भवेच्छोणं त्रिकोणं मरुतो गतिः । चतुरङ्गुलमूर्ध्वा च स्वभावे तीक्ष्णता तदा ।।१०।।
रूपे रुचिश्च शोणार्थचिन्तनं हृदये भवेत् । तदा तीक्ष्णं कर्म यत्तद्योगी स्वस्योचितं चरेत् ।।११।।
वायुतत्त्वं हरिद्वर्णं वर्तुलं च गतिस्तदा । श्वासस्याष्टाङ्गुलं तिर्यक्स्यात्स्वभावोऽतिचञ्चलः ।।१२।।
प्रीतिः स्पर्शसुखेऽथ स्याद्धरिदर्थस्य मानसे । सङ्गल्पस्तत्र कुर्वीत चरकर्माणि योगकृत् ।।१३।।
आकाशतत्त्वं श्यामं स्याद्बिन्दुवच्च तदा गतिः । एकाङ्गुलं सर्वतश्च भवेच्छ्वासस्य योगिनः ।।१४।।
स्वभावे शून्यता शब्दे रुचिः सङ्कल्पहीनता । भवेत्तदा तु कर्तव्यं योगिनात्मविचिन्तनम् ।।१५।।
श्रेष्ठ आद्येऽन्तिमे तत्त्वे प्राणायामोऽथ मध्यमः । द्वितीये च तृतीयेऽपि कनिष्ठस्तु तुरीयके ।।१६।।
इडायामम्बुतत्त्वे च वहत्येव पिबेदपः । पिङ्गलायामग्नितत्त्वे भुक्तिं चोत्सर्गमाचरेत् ।।१७।।
सुषुम्णायां हरेर्ध्यानं कुर्याद्वा प्राणसंयमम् । अन्यत्किञ्चिन्न कुर्वीत स्थिरं कर्माथवा चलम् ।।१८।।
दिवा च वाहयेत्तान्द्रीं नाडीं सौरीं तथा निशि । कर्तव्ये त्वम्बुपानादौ तावत्तां विपरीतयेत् ।।१९।।
ज्ञोयश्चान्द्रः सितः पक्षः कृष्णः सौरोऽथ योगिना । सौम्यशुक्रेन्दुगुरवो वाराश्चेन्दोः परे रवेः ।।२०।।
शुक्रप्रतिपदोऽमान्तं त्रीणि त्रीणि दिनानि च । ज्ञातव्यानि क्रमेणैव चन्द्रस्य च रवेः पुनः ।।२१।।
चान्द्रयां नाडयां विधोः पक्षतिथिवारसमागमे । सौर्यां तथेव सूर्यस्य सर्वं कार्यं हि सिद्धयति ।।२२।
एतेषां मिश्रतायां तु कृतारम्भस्य कर्मणः । मनोभिलषितं तूणं फलं नैव हि जायते ।।२३।।
इति ज्ञात्त्वादिरूपाणि तुभ्यं सेपतो मया । प्रोक्तानि तानि जानीयाद्योगकृत्स्वार्थसिद्धये ।।२४।।
एतत्तत्त्वादिविज्ञानं पूर्वोक्तनियमस्थितेः । भवेद्योगकृतः सर्वं नतु तद्बाह्यवर्तिनः ।।२५।।
कुपथ्यभोजी बह्वाशी प्रमादी व्यसनी सरुट् । बहुभाषी दिवास्वापी कामी चैतन्न बुध्यते ।।२६।।
प्राणायामप्रसङ्गेन तत्त्वाद्येतन्निरूपितम् । यज्ज्ञानिनाऽर्थस्य सिद्धिरसिद्धिश्च हृदीक्ष्यते ।।२७।।
अङ्गानि चत्वारि मया सुबुद्धे ! योगस्य तुभ्यं स्फुटलक्षणानि ।
निरूपितानीत्थमथापराणि फलैः सहानुक्रमतो वदामि ।।२८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे तत्त्वादिज्ञाननिरूपणनामैकोनषष्टितमोऽध्यायः ।।५९।।