षष्टोऽध्यायः

श्रीनारायणमुनिरुवाच :-


कालातिक्रमणं यस्तु प्रमादात्कुरुते द्विजः ।
सन्ध्यायाः स तु कृत्वैव प्रायश्चितं विशुध्द्यति ।।१।।

सन्ध्याकाले त्वतिक्रान्ते स्नत्वाऽचम्य यथाविधि ।
जपेदष्टशतं देवीं ततः सन्ध्यां समाचरेत् ।।२

प्रातरेव प्रकृर्वीत कार्य आवश्यके सति ।
अपि माध्याह्निकीं सन्ध्यां द्विजन्मा न तु सर्वदा ।।३।।

नोपास्ते यस्तु मूढात्मा सन्ध्यां पूर्वां च पश्चिमाम् ।
स शूद्रेण समो ज्ञोयः सर्वकर्मबहिष्कृतः ।।४।।

अर्घ्यान्तां मानसीं सन्ध्यां कुशवारिविवर्जिताम् ।
सूतके मृतके वाऽपि द्विजः कुर्यान्न चाखिलाम् ।।५

गृहे गोष्ठे नदीतीरे सन्ध्या दशगुणा क्रमात् ।
सम्भेदे स्याच्छतगुणा ह्यनन्तेश्वरसन्निधौ ।।६।।

सन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमे फलं यत्स्यान्न तदन्येन लभ्यते ।।७।।

ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः ।
एतैरपि हुतं यत्स्यात्तद्धुतं स्वयमेव तु ।।८।।

होमे यत्फलमुद्दिष्टं जुह्वतः स्वयमेव तु ।
हूयमाने तदन्येन फलमर्धं प्रपद्यते ।।९।।

कार्य आवश्यके प्राप्ते प्राप्तायां क्व पि चापदि ।
पक्षहोमं प्रकुर्वीत नान्यथा तु कदाचन ।।१०।।

पवित्रपाणिः पूतात्मा शुक्लाम्बरधरो द्विजः ।
अनन्यमनसा नित्यं जुहुयात्संयतेन्द्रियः ।।११।।

पवित्रं कौशिकं ताम्रं राजतं हैममेव वा ।
दक्षिणे तत्करे धार्यं पवित्रं चोत्तरोत्तरम् ।।१२।।

सुवर्णस्य सुवर्णस्य सुवर्णस्याङ्गुलीयकम् ।
पवित्रमिति विज्ञोयं सर्वकर्मसु शोभनम् ।।१३।।

अनामिक्यां धृतं हेम तर्जन्यां रूप्यमेव च ।
 कनिष्ठिक्यां धृतं खङ्गं तेन पूतो भवेन्नरः ।।१४।।

दैवतानि नमस्कुर्यादुपहारान्निवेदयेत् ।
दद्यात्पुष्पादिकं तेभ्यो वृद्धांश्चैवाभिवादयेत् ।।१५।।

वेदपाठं ततः कुर्याद्यथाशक्ति समाहितः ।
उपविश्य शुचौ देशे प्राचीनाग्रकुशासने ।।१६।।

वेदान् साङ्गान् पुराणानि भारतं वा यथारुचि ।
स्तोत्राणि वा तदुक्तानि रामायणमपि द्विजः ।।१७।।

स्वाध्यायसिद्धये नित्यं यथाशक्ति पठेद्विजः ।
आरम्भे च समाप्तौ च प्रणवं समुदीरयेत् ।।१८।।

देवान् ब्रह्मऋषींश्चाथ तर्पयेदक्षतोदकैः ।
तिलोदकैः पितन्भक्त्या स्वसूत्रोक्तविधानतः ।।१९।।

तर्पयेत्प्राङ्गमुखो देवानृषींश्चोदङ्मुखः पितन् ।
दक्षिणाभिमुखश्चैवं तर्पणस्य विधिः स्मृतः ।।२०।।

पितृत्वादपसव्येन दक्षिणाभिमुखस्तिलैः ।
देवत्वाद्देवतीर्थेन यमान्सन्तर्पयेद्बुधः ।।२१।।

आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ।
क्षिपेत्तिलोदकं भूमौ कुर्वन्सङ्क्षेपतर्पणम् ।।२२।।

वस्त्रं निष्पीडयेद्बूमौ न द्वादश्यां न सङ्क्रमे ।
चतुर्दश्यां श्राद्धदिने न च क्षारेण योजयेत् ।।२३।।

यज्ञोपवीती दैवे स्यान्निवीत्यार्षे च तर्पणे ।
प्राचीनावीती पैत्रे च तत्तन्मन्त्रान्समुच्चरन् ।।२४।।

देवान् दैवेन तीर्थेन ब्राह्मेण च मुनींस्तथा ।
पैत्रेण तर्पयेत्पितन्स्वकीयान्दैविकानपि ।।२५।।

साग्रान्समूलान्दर्भांश्च धृत्वा दक्षिणपाणिना ।
सेव्येन चान्वारब्धेन देवादींस्तर्पयेद्द्विजः ।।२६।।

अग्रैस्तु तर्पयेद्देवान्मनुष्यांश्चैव मध्यतः ।
पितंश्चैव तु मूलाग्रैः कुशानां तु यथाक्रमम् ।।२७।।

कुशा काशा यवा दूर्वा उशीराश्च सकुन्दराः ।
गोधूमा व्रीहयो मुञ्जा एते दर्भाः प्रकीर्तिताः ।।२८।।

नभोमासस्य दर्शे ये कुशाः शुद्धा उपाहृताः ।
अयातयामास्ते दर्भा नियोक्तव्यां पुनःपुनः ।।२९।।

कुश प्रादेशमात्रः स्याद्द्विगुणो दर्भ उच्यते ।
हस्तमात्रो भवेद्वज्रो गोपुच्छस्तृणमुच्यते ।।३०।।

श्राद्धकाले कुशः श्रेष्ठो दानेषु दर्भ उच्यते ।
आवसथ्ये भवेद्वज्रो गोपुच्छः प्रेतकर्मणि ।।३१।।

पाणिनैकगुणं प्रोक्तं दर्भैः शतगुणं तथा ।
अक्षय्यं खङ्गपात्रेण पितणां तर्पणं भवेत् ।।३२।।

एकैकमञ्जलिं देवा द्वौ द्वौ च सनकादयः ।
त्रींस्त्रीन् वाञ्छन्ति पितरः स्त्रियश्चैकैकमञ्जलिम् ।।३३।।

मातृमुख्यास्तु यास्तिस्रस्तासां दधाज्जलाञ्जलीन् ।
त्रींस्त्रीनेव ततोऽन्यासां दद्यादेकैकमञ्जलिम् ।।३४

रवौ शुक्ले त्रयोदश्यां सप्तम्यां निशि सन्ध्ययोः ।
मघासु भौमे नन्दायां न कुर्यात्तिलतर्पणम् ।।३५।।

तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तिलमिश्रिततर्पणम् ।।३६।।

तिलाभावे निषिद्धाहे सुवर्णरजतान्वितम् ।
तदभावे निषिञ्चेत्तु दर्भैर्मन्त्रेण वोदकम् ।।३७।।

प्रत्यूषहोममुखकर्म मयोदितं ते स्मार्तैर्वचोभिरखिलं विहितं द्विजानाम् ।
देवार्चनस्य विधिमद्य वदामि सर्वमावश्यकं द्विजवरानुदिनं विधेयम् ।।३८।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रातर्होमब्रह्मयज्ञादेवपितृतर्पणविधिनिरूपणनामा षष्ठोऽध्यायः ।।६।।