श्रीनारायणमुनिरुवाच :-
करिष्यन्पूजनं विष्णोः कृतसन्ध्याविधिर्द्विजः ।
पूजाद्रव्याणि सम्भृत्य पूर्वं कुर्यात्ततोऽर्चनम् ।।१।।
समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः पूजयेन्न रमापतिम् ।।२।।
दैवं पित्र्यं च वा कर्म सन्ध्योपास्त्यादि नैत्यकम् ।
शूद्राहृतेन तोयेन विप्रो नैव समाचरेत् ।।३।।
उदङ्मुखः प्राङ्मुखो वा देवतासम्मुखोऽथवा ।
उपविश्यार्चयेद्बक्त्या निजेष्टं साङ्गमीश्वरम् ।।४।।
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ।।५।।
एतास्वपि भवेच्छ्रद्धा यस्य यत्र स तां नरः ।
निश्छद्म पूजयेद्भक्त्या यथालब्धोपचारकैः ।।६।।
भक्त्यार्पितं दलं पुष्पं गृात्यम्भोऽपि केशवः ।
न पश्यत्यन्यथा त्वङ्ग ! द्रव्यपुञ्जानपि ध्रुवम् ।।७।।
चतुर्णां ब्राह्मणादीनां वर्णानां योषितां तथा ।
प्रतिमापूजनं शस्तं विष्ण्वादीनां हि भक्तितः ।।८।।
शालग्रामशिलापूजा विहिता ब्राह्मणस्य वै ।
त्रयाणां क्षत्रियादीनां वैष्णवत्वे तु सोचिता ।।९।।
विष्णुः शिवो गणपतिः सूर्यो देवी च पञ्चमी ।
एता भक्तिमता पूज्या देवता विष्णुरेव वा ।।१०।।
शालग्रामाः समाः पूज्या विषमेष्वेक एव च ।
खण्डिता स्फुटिता वापि शालग्रामशिला शुभा ।।११
गृहे लिङ्गद्वयं नार्च्यंर् शालग्रामद्वयं तथा ।
द्वे चक्रे द्वारिकायास्तु नाऽर्च्ये सूर्यद्वयं तथा ।।१२।।
शक्तित्रयं तथा नार्च्यंर् गणेशत्रयमेव च ।
द्वौ शङ्खौ नार्चनीयौ च खण्डिता प्रतिमा तथा ।।१३।।
पञ्चायतनपूजायां देवतासन्निवेशनम् ।
यथोक्तविधिना कृत्वा ततः पूजनमाचरेत् ।।१४।।
मध्ये विष्णुस्तथेशाने शिवो वह्नौ गणेश्वरः ।
नैऋर्तेऽर्कश्च वायव्ये दुर्गा स्थाप्या क्रमेण च ।।१५।।
पञ्चायतनमेतद्वै पूजनीयं सतां सदा ।
सूक्तेन पौरुषेणाथ तत्तन्मन्त्रैश्च वैदिकैः ।।१६।।
देशकालौ प्रकीर्त्यादौ गणेशस्मृतिपूर्वकम् ।
कुर्यान्न्यासविधिं सम्यक्सूक्तेनैतेन च द्विजः ।।१७।।
करयोः पादयोर्जान्वोः रटयोर्नाभौ हृदि क्रमात् ।
कण्ठे बाह्वोर्मुखे नेत्रे मूर्ध्नि वामाङ्गतो न्यसेत् ।।१८
पूजाद्रव्याणि संशोध्य शङ्खं घण्टां च पूजयेत् ।
यथादृष्टं श्रुतं वाथ ध्यात्वा श्रीविष्णुमर्चयेत् ।।१९।।
अर्चकस्य तपोयोगादर्चनस्यातिशायनात् ।
आभिरूप्याच्च बिम्बानां देवः सान्निध्यमृच्छति ।।२०।।
सूक्तमन्त्रैः षोडशभिरुपचारास्तु षोडश ।
अर्पणीया भक्तिमता द्विजेन प्रत्यहं द्विज ! ।।२१।।
आवाहनं चासनं च पाद्यार्घ्याचमनानि च ।
स्ननवस्त्रोपवितानि चन्दनं कुसुमानि च ।।२२।।
धूपं दीपं च नैवेद्यं ताम्बूलं दक्षिणां तथा ।
पुष्पाञ्जलिं प्रदायैव नमस्कुर्वीत सादरम् ।।२३।।
स्थिरायां प्रतिमायां च शालग्रामेऽपि सर्वदा ।
बाणलिङ्गे च कर्तव्ये नावाहनविसर्जने ।।२४।।
तत्र सूक्ताद्यमन्त्रेण ध्यानमेव विधियते ।
पूजाविधौ न कुर्वीत वित्तशाठयं कदाचन ।।२५।।
नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणाधिपम् ।
न दूर्वया यजेद्देवीं बिल्वपत्रैर्दिवाकरम् ।।२६।।
चम्पकेन च केतक्या नार्चयेच्छङ्करं तथा ।
उन्मत्तमर्कपुष्पं च विष्णोर्वर्ज्यं सदा बुधैः ।।२७।।
मल्लिकामालतीजातीकेतकाशोकचम्पकैः ।
पुन्नागनागबकुलैः पद्मकैरुत्पलैस्तथा ।।२८।।
कुन्दैश्च करवीरैश्च पुष्पैरन्यैः सुगन्धिभिः ।
प्रशस्तं पूजनं विष्णोर्वर्ज्याऽत्र वनकेतकी ।।२९।।
वर्ज्यं पर्युषितं पत्रं वर्ज्यं पर्युषितं जलम् ।
वर्ज्यं पर्युषितं पुष्पं मालाकारगृहं विना ।।३०।।
बिल्वपत्रं च माध्यं च तमालामलकीदलम् ।
कह्लारं तुलसी चैव पद्मं च मुनिपुष्पकम् ।।३१।।
हेमपुष्पाद्यालङ्काराः कुशाश्च कलिकास्तथा ।
एतत्पर्युषितं न स्यात्तीर्थतोयं च सुव्रत ! ।।३२।।
वैधृतौ च व्यतीपाते भौमभार्गवभानुषु ।
पर्वद्वये च सङ्क्रान्तौ द्वादश्यां सूतकद्वये ।।३३।।
तुलसीं न विचिन्वीत सन्ध्ययोश्च तथा निशि ।
विचिन्वन्नन्यदा तां च मन्त्रमेतमुदीरयेत् ।।३४।।
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ! ।
केशवार्थे विचिन्वामि वरदा भव शोभने ! ।।३५।।
कृष्णमूर्धनि विन्यस्ता तुलसीपत्रमञ्जरी ।
सुवर्णकोटिपुष्पाणां फलं यच्छत्यतोऽधिकम् ।।३६।।
पृथक् शिवार्चने चाथ न ग्राह्यं तन्निवेदितम् ।
निर्माल्योल्लङ्घनेऽप्यस्य नृणां दोषो महान्भवेत् ।।३७
ग्राह्यं न शैवं नैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलासङ्गात्सर्वं याति पवित्रताम् ।।३८।।
बाणलिङ्गे स्वयम्भूते प्रतिमायां शिवस्य च ।
नैवेद्यादेर्न दोषोऽस्ति सिद्धे लिङ्गे च धातुजे ।।३९।।
पृथग्देव्याश्च पूजाथ नवरात्रादिषु द्विजैः ।
उपहारैः पायसाद्यैर्दैवैः कार्या न चासुरैः ।।४०।।
ग्रन्थमप्यासुरं दृा द्विजातिर्मद्यमांसयोः ।
संसर्गमपि नो कुर्यात्सद्यः पातित्यकारणम् ।।४१।।
सुरामांसादि नैवेद्यं यस्यै प्रागर्पितं भवेत् ।
तस्या देव्या न नैवेद्यं ग्राह्यमन्नाद्यपि क्वचित् ।।४२।।
द्विजन्मा तु दातव्यं देवीपूजनकर्मणि ।
माषान्नं श्रीफलं वापि पायसान्नं च सर्वदा ।।४३।।
यो जह्यान्मत्कृतामेतां मर्यादां दुर्मतिः पुमान् ।
वंशोच्छेदोऽत्र तस्य स्यात्कुम्भीपाके मृतः पतेत् ।।४४
कुसङ्गेनासुरैर्देवीमुपहारैर्यजेत यः ।
अरण्ये निर्जले देशे स भवेद्ब्रह्मराक्षसः ।।४५।।
देवार्चनमिति प्रोक्तमर्चायां खलु मानद ! ।
स्थानान्तरेष्वपि विधिं पूजायाः कथयामि ते ।।४६।।
स्थण्डिले तत्त्वविन्यासैः सूर्ये चाभ्यर्हणादिना ।
पूजयेद्धविषा वह्वौ सलिले सलिलादिभिः ।।४७।।
भावद्रव्यैश्च हृदये ब्राह्मणे भोजनादिभिः ।
वैष्णवे बन्धुसत्कृत्या यजेद्देवं जितेन्द्रियः ।।४८।।
प्रातःकाले च मध्याह्ने प्रदोषे चार्चनं हरेः ।
त्रिः कर्तव्यं द्विजैर्भक्तैरशक्तैस्तु सकृद्द्विज ! ।।४९।।
पूजनान्ते कृष्णमन्त्रः स्वाचार्यप्राप्त आदरात् ।
कालत्रयेऽपि जपतव्यः स्मरद्बिर्हृदये ।।५०।।
गायत्रीमन्त्रवच्चैष आपत्काले द्विजन्मभिः ।
द्विकालमेव जप्तव्यः शुचिभिः प्रतिवासरम् ।।५१।।
दैनंदिनानामिति कर्मणां ते षण्णां मयोक्तो हि विधिर्द्विजानाम् ।
अथो गृहस्थाश्रणिणां च तेषां धर्मान्समासेन वदामि विप्र ! ।।५२।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे देवार्चनविधिनिरूपणनामा सप्तमोऽध्यायः ।।७।।