श्रीनारायणमुनिरुवाच :-
स्वस्येभ्यो विषयेभ्यो यत्समाकर्षणमात्मनि । इन्द्रियाणां तु सर्वेषां स प्रत्याहार उच्यते ।।१।।
इन्द्रियाणां पारतन्त्र्याद्विमुक्तिर्योगिनस्त्विति । प्रत्याहारस्य कथितं फलं योगविशारदैः ।।२।।
आधारादिषु चक्रेषु प्राणस्य मनसा सह । हृदि वा भगवन्मूर्तौ धारणं धारणोच्यते ।।३।।
ध्यानसिद्धिर्धारणायाः फलं सद्बिर्निगद्यते । तच्च ध्यानं प्रवक्ष्यामि योगस्याङ्गं हि सप्तमम् ।।४।।
षडङ्गाभ्यासतः क्षीणकर्मदोषे स्वमानसे । योगिना साधनीयं तद्बगवत्प्रेमवृद्धिकृत् ।।५।।
अस्ति नाभिहृदे पद्ममष्टपत्रमधोमुखम् । कदलीकोशसङ्काशं द्वादशाङ्गुलनालकम् ।।६।।
प्रणवध्वनिभिस्तस्मिन्फुल्ले चोर्ध्वमुखीकृते । तेजोबिम्बे वासुदेवचिन्तनं ध्यानमुच्यते ।।७।।
भास्वत्कोटिसमप्रभं सुवदनं सत्पद्मपत्रेक्षणं कण्ठे कौस्तुभराजितं च मुरलीं सन्नादयन्तं रसात् ।
सर्वालंकृतिभूषणं सुमुकुटं कर्णोल्लसत्कुण्डलं ध्यायेद्दीर्घभुजं च पीतवसनं श्रीवासुदेवं हृदि ।।८।।
भातं मौक्तिकपुष्पहारततिभिर्भक्तार्पिताभिर्गले हैमं बिभ्रतमुज्ज्वलं च रुचिरं सद्ब्रह्मसूत्रं प्रभुम् ।
तं ध्यायंश्चरणाम्बुजादिषु मनश्चाङ्गेषु सन्धारयेत्प्रत्येकं तु पृथक्पृथग्दृढमतिर्योगी चिरं सुस्थिरः ।।९
अवतारा भगवतो वासुदेवस्य येऽभवन् । तेष्वन्यतममव्यग्रो ध्यायेद्वा योगसाधकः ।।१०।।
प्रतिमां वा यथादृष्टां ध्यायेद्बगवतोऽन्वहम् । यत्किञ्चिद्धरिसम्बन्धि वस्तु तद्धयेयमुच्यते ।।११।।
ध्यानमभ्यसतो नित्यमिथं वै योगिनोऽचिरात् । प्रेमाविवर्धते विष्णौ भक्तानामतिवाञ्छितः ।।१२।।
ध्यानस्थानानि देहेऽस्मिन्सन्त्यनेकानि योगिनः । तत्रापि नाभिकन्देऽस्मिन्विशेषोऽस्तीति तं शृणु ।।१३
तेजोमण्डलके तस्मिन्ध्याता योगी यदेक्षते । भगवन्तं वासुदेवं सर्वदेवाधिदैवतम् ।।१४।।
तदैव नाडयः सकलाः संकुचन्त्यसुभिः सह । निरोधं मनसश्चासौ ध्येये सपदि विन्दते ।।१५।।
ध्यायन्ति योगिनो नित्यमत एव समाहिताः । भगवन्तं नाभिपद्मे तद्विदः शीघ्रसिद्धिदे ।।१६।।
ध्यायन्तं भगवन्मूर्तिं भक्तं विघ्नाश्चतुर्विधाः । पीडयन्तीति ताञ्ज्ञात्वा जयेद्विद्वानतन्द्रितः ।।१७।।
तत्र चाद्यो लयः प्रोक्तो विक्षेपस्तदनन्तरः । कषायाख्यस्तृतीयश्च रसास्वादश्चतुर्थकः ।।१८।।
चित्तावस्थाविशेषा हि दोषा जेया इमे बुधैः । योगभ्रष्टोऽन्यथा योगी संसृतिं यात्यसंशयम् ।।१९।।
लयात्प्रबोधयेच्चित्तं विक्षेपाच्च निवर्तयेत् । कषायां क्षालयेद्बुद्धया विरक्त्या वर्जयेद्रसान् ।।२०।।
न सिद्ध्यत्यन्यथा ध्यानं ध्यानाभावे कुतः स्थितिः । तां विना च कृतो मुक्तिर्ध्याता दोषाञ्जयेत्ततः ।२१
समाधिमष्टमं चाङ्गं योगस्याथ वदामि सः । ध्यानाभ्यासविवृद्धेन प्रेम्णा स्यान्मनसो हरौ ।।२२।।
एकैकाव्यवस्योक्तं पृथग्यच्चिन्तनं हरौः । तत्तथा न प्रकुर्वीत सर्वां मूर्तिं विचिन्तयेत् ।।२३।।
नैरन्तर्येण यन्मूर्तेः सर्वस्याश्चिन्तनं हरेः । स समाधिरिति प्रोक्तो योगाङ्गं योगवित्तमैः ।।२४।।
ध्येयाकारमनोवृत्तिप्रवाहः सुचिरं तु यः । स संप्रज्ञातनामाङ्गी समाधिः कथ्यते बुधैः ।।२५।।
ध्यानेऽङ्गे चाङ्गिनि तथा समाधौ सूक्ष्मया दृशा । विशेषस्त्ववगन्तव्यः पक्वापक्वत्वभेदतः ।।२६।।
यथा वेदमधीयानोऽधीतवेदश्च पूरुषः । वेदाध्यापक इत्येते क्रमाच्छ्रेष्ठाः प्रकीर्तिताः ।।२७।।
तथाऽत्र ध्यानवाञ्छ्रेष्ठस्तस्मादङ्गसमाधिमान् । तस्माच्छ्रेष्ठश्च कथितः संप्रज्ञातसमाधिमान् ।।२८।।
अष्टस्वङ्गेषु चैतेषु बहिरङ्गान्तरङ्गता । प्रोक्ता तत्राप्यन्तरङ्गश्रेष्ठत्वं विद्धि सन्मते ! ।।२९।।
पूर्वपुण्यौघसंस्कारैरादावेव लभेत यः । अन्तरङ्गं स नो कुर्याद्बहिरङ्गाप्तये श्रमम् ।।३०।।
भक्त एकान्तिको विष्णोः स्नेहस्यातिशयेन यः । तस्मिन्समाधिं प्राप्नोति सिद्धयस्तस्य विघ्नदाः ।३१
अणिमा महिमा प्राप्तिः प्राकाम्यं वशितेशिता । लघिमा कामपूर्तिश्चेत्यष्टौ मुख्या हि सिद्धयः ।।३२।।
शतशोऽन्या अपि तथा सिद्धयः सन्ति मोहिकाः । तासु सक्तो भवेन्नैव योगी माहात्म्यविद्धरेः ।३३
सिद्धिजालसमासक्तं योगिनं काललुब्धकः । प्रमत्तं पक्षिणमिव निहन्त्येव न संशयः ।।३४।।
तस्मान्मनः समाकृष्य सर्वतः परमात्मनि । वासुदेवे समादध्याज्ज्ञानिमुक्तो यत्तो भवेत् ।।३५।।
अन्यत्र भगवन्मूर्तेः कस्मिंश्चिदपि वस्तुनि । मनो यस्यात्र सक्तं स्यात्तस्य विघ्नो महान्भवेत् ।।३६।।
सक्तस्तुच्छपदार्थेऽत्र यः सोऽसौकिकवस्तुषु । सज्जेत न कथं योगी भगवद्धामवर्त्मनि ।।३७।।
अत्र सम्यग्विरक्तस्य दृढज्ञानवतो मुनेः । कुत्रापि स्थानके नास्ति विघ्नः कश्चन कर्हिचित् ।।३८।।
देवैः प्रलोभ्यमानोऽपि तत्र तत्र च सिद्धिभिः । उद्दालकादिमुनिवद्योगी नासज्जते क्वचित् ।।३९।।
अङ्गी समाधिरेषोऽपि द्वेधा सम्प्रोच्यते बुधैः । सम्प्रज्ञाताख्य एकोऽन्यस्त्वसम्प्रज्ञातसंज्ञाकः ।।४०।।
लक्षणं तत्र चाद्यस्य प्रोक्तामन्यस्य कीर्तये । चित्तस्य भूमिकास्तस्य प्रसङ्गाच्छृणु पञ्च च ।।४१।।
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं रुद्धमेव च । चित्तं पञ्चविधं तेन तत्संज्ञा भूमिका अपि ।।४२।।
आद्यद्वये तु शङ्कैव समाधेस्तत्र नास्ति हि । सन्देहोऽस्ति च विक्षिप्ते क्वाचित्कध्यानसम्भवात् ।।४३।
सम्प्रज्ञातसमाधिस्तु चित्तैकाग्रये समीरितः । रोधे तु सर्ववृत्तीनामसम्प्रज्ञात उच्यते ।।४४।।
चेतसो विलये ह्यत्र हरावानन्दवारिधौ । मग्नः किञ्चिन्न जानाति बाह्यमाभ्यन्तरं तथा ।।४५।।
व्युत्थानेऽस्य पुनश्चित्तवृत्तीनां सम्भवोऽपि च । निरिन्धनाग्निवद्ब्रह्मञ्छाम्यत्येव शनैः शनैः ।।४६।।
ततो योगी प्रशान्तात्मा ब्रह्मरूपतया स्थितः । अनिर्वाच्यं महानन्दं हृदयेऽनुभवत्यसौ ।।४७।।
यत्किञ्चित्स्वशरीरस्थं स्थूलं सूक्ष्मं च भौतिकम् । यथावत्किल तत्सर्वं समाधौ वीक्षते मुनिः ।४८
ब्रह्माण्डस्थं च यत्किञ्चित्तत्सर्वं स्वहृदम्बरे । स्वातन्त्र्येणेक्षते चासौ तत्तन्नाडयध्वना व्रजन् ।।४९।।
नाडीचक्राद्यात्मदेहस्थितं यत्सम्यग्योगी वीक्षते भौतिकं च ।
तत्ते सर्वं तत्त्वतो वच्मि विद्वन् ! प्राप्तैरन्तं योगशास्त्रस्य बुद्धम् ।।५०।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे प्रत्याहारधारणाध्यानसमाधिलक्षणनिरूपणनामा षष्टितमोऽध्यायः ।।६०।।