श्रीनारायणमुनिरुवाच :-
कोशा वपुषि षट् सन्ति वह्निस्थानतया मताः । वह्निनाऽन्नरसः पक्वो जाठरेण भवत्यसृक् ।।१
स्वकोशस्थेन तत्पक्वं वह्निना जायते पलम् । तत्स्वकोशाग्निना पक्वं मेदस्त्वं प्रतिपद्यते ।।२
मेदः स्वकोशाग्निपक्वमस्थितां तच्च वह्निना । पक्वं मज्जा भवेत्सोऽपि शुक्रतां याति वह्निना ।।३
परिणामो न शुक्रस्य कोश आद्यस्तदात्मनः । रम्भास्तम्भत्वच इव षट्कोशा देहरूपिणः ।।४
अस्थ्नां शतत्रयं चास्ति नरदेहेषु षष्टियुक् । दन्तास्तत्र चतुःषष्टिः सस्थाला विंशतिर्नखाः ।।५
शलाकाः पाणिपादस्य सङ्खयाता विंशतिः खलु ।
अस्थ्नां षष्टिस्त्वङ्गुलीनामेकैकस्यास्त्रिकं त्रिकम् ।।६
गुल्फेषु सन्ति चत्वारि पार्ष्ण्योर्द्वे अस्थिनी मते । बाह्वोररत्निमानानि चत्वार्येवं च जङ्घयो ।।७
जानूरुफलकस्कन्धकपोलस्य द्वयं द्वयम् । ताल्वक्षश्रोणिफलके द्वे द्वे चैकं तु मेहने ।।८
हनावेकं पञ्चदश ग्रीवायां जत्रुणोर्द्वयम् ।हनुमूले द्वे च पृष्ठे चत्वारिंशच्च पञ्च च ।।९
अक्षिगण्डललाटे च द्वे द्वे चैकं नसि स्थितम् । अर्बुदैः स्थालकैः सार्धं पार्र्श्वास्थीनि द्विसप्ततिः ।।१०
चतुष्टयं कपालानां शीर्ष्णश्च द्वे तु सङ्खयोः । हृदि सप्तदशास्थीनि पुंस इत्यस्थिसङ्ग्रहः ।।११
ओजो नाभिर्गुदं शुक्रं रक्तं शङ्खौ शिरो गलः । प्राणस्यायतनान्यत्र हृदयादीनि सन्ति च ।।१२
वातपित्तश्लेष्मवहाश्चत्वारिंशच्छिरा इह । शाखाभेदेन चैताः स्युः शतानि सप्तसङ्खयया ।।१३
चतुर्विंशतिसङ्खयाका धमन्यो वायुवाहिकाः । नाभिजास्ताश्च शाखाभिर्द्वे शते सन्ति सङ्खयया ।।१४
एकोनत्रिंशल्लक्षाणि तथा नव शतानि च । षट्पञ्चाशच्च शाखाभिः शिराधमनिसंयुताः ।।१५
अङ्गप्रत्यङ्गसन्धीनां बन्धकाः स्नयवोऽपि च । शतानि नव सन्तीह पेश्यः पञ्चशतानि च ।।१६।।
श्मश्रूणि केशा उभये त्रीणि लक्षाणि देहिनाम् । सप्तोत्तरं मर्मशतं मुख्यसन्धिशतद्वयम् ।।१७।।
शरीररोम्णां सर्वेषां सूक्ष्मांशाः परमाणुभिः । वायवीयैः संविभक्ताः सन्ति स्वेदायनैः सह ।।१८।।
चतुःपञ्चाशदत्रोक्ताः कोटयः सप्ताधिका तथा । षष्टिर्लक्षाणि पञ्चाशत्सहस्राण्येव ते मताः ।।१९।।
न स्थूलदृष्टया केनापि ज्ञातुं शक्यं कथञ्चन । समाधिस्थैरिदं सर्वं दृश्यते सूक्ष्मदर्शिभिः ।।२०।।
सम्यक्परिणताहारसारस्याञ्जलयो नव । सन्ति देहे दशैवापां विशः सप्तासृजोऽष्ट च ।।२१।।
मूत्रपित्तश्लेष्मणां च चत्वारः पञ्च षट् क्रमात् । मज्जमेदोवसानां चाप्येको द्वौ च त्रयः क्रमात् ।।२२
मस्तिष्कस्याञ्जलिष्चार्धस्तावाञ्श्लेष्मरसस्य च । रेतसोऽर्ध इति प्रोक्ता सम्धातुवपुःस्थितिः ।।२३।।
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् । कफस्य हृदयं स्थानं पित्तं नाभ्यां प्रतिष्ठितम् ।।२४।।
पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्मृतः । मध्ये च जाठरो वह्निस्तयोस्तिष्ठन्ति चासवः ।।२५।।
अण्डाकृतिस्तत्र कन्दश्चतुरङ्गुलसम्मितः । हेतुर्देहस्थितेश्चास्ति नाभिचक्रं तदन्तरं ।।२६।।
जीवो भ्रमति तच्चक्रे पुण्यपापप्रचोदितः । प्राणारूढो यथोर्णायुः स्वकृते तन्तुपञ्जरे ।।२७।।
कन्दपार्श्वेऽस्ति परितः शक्तिः कुण्डलिनी मुने ! । ब्रह्मरन्ध्रमुखं रुध्वा सुप्ताऽष्टवलयोरगी ।।२८।।
द्वासप्ततिः सहस्राणि नाडयः कन्दसमुद्बवाः । प्रसृताः सर्वतस्तासां सन्ति मुख्याश्चतुर्दश ।।२९।।
सुषुम्णा पिङ्गलेडा च वारुणा च सरस्वती । यशस्विनी हस्तिजिह्वा पूषा विश्वोदरा कुहूः ।।३०।।
अलम्बुषा च गान्धारी शङ्खिनी च पयस्विनी । नाडयस्तिस्रः सन्ति मुख्या एतास्वप्यादिमा मुने ! ।।३१
कन्दमध्योद्बवा तत्र सुषुम्णोर्ध्वगतिप्रदा । मूर्ध्नि च ब्रह्मरन्ध्रे सा स्थिताऽतः सर्वतोऽधिका ।।३२।।
पिङ्गला चोर्ध्वगा याम्ये नासान्ते प्राप्य संस्थिता । इडापि सव्यनासान्तं सव्यभागेऽस्ति संस्थिता ।।३३
अधश्चोर्ध्वं च विज्ञोया वारुणा सर्वगामिनी । सरस्वती तथैवोर्ध्वमाजिह्वायाः प्रतिष्ठिता ।।३४।।
यशस्विनी याम्यभागे पादाङ्गुष्ठान्तमस्ति च । हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठावधि स्थिता ।।३५।।
याम्ये पूषा च नेत्रान्तं पिङ्गलायास्तु पृष्ठतः । विश्वोदराभिधा नाडी तुण्डमध्ये व्यवस्थिता ।।३६।।
पूर्वभागे सुषुम्णाया मेढ्रान्तं च कुहूः स्थिता । अलम्बुषा तथा नाडी तुण्डामध्यादधोमुखी ।।३७।।
गान्धारी सव्यनेत्रान्तमिडायाः पृष्ठतः स्थिता । आसव्यकर्णाच्च मुने ! सङ्खिन्यस्त्यूर्ध्वगामिनी ।।३८
पयस्विनी तथैवौर्ध्वं याम्ये कर्णावधि स्थिता । एतास्वन्याः समुत्पन्ना नाडय ज्ञोयाः सहस्रशः ।।३९
इत्यादि स्वशरीरस्थं यत्किञ्चिदिह भौतिकम् । वीक्षते योगदृष्टया तद्योगवानेव नापरः ।।४०।।
वासुदेवचरणाब्जकृपायाः पात्रतामुपगतैस्तदुपास्त्या ।योगिभिर्न किमपि ह्यनवाप्यं सर्वथेह च परत्र महर्षे ! ।।४१।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे भौतिकदेहविकारनिरूपणनामैकषष्टितमोऽध्यायः ।।६१।।