शतानन्द उवाच :-
वायुस्वरूपं भगवन्पिण्डब्रह्माण्डसंस्थितम् । अञ्जसा ज्ञातुमिच्छामि वक्तुमर्हति तद्बवान् ।।१।।
श्रीनारायणमुनिरुवाच :-
सर्वात्मा सर्वगो वायुः सर्वाधारतया स्थितः । पिण्डे सोऽस्ति च ब्रह्माण्डे तद्बहिश्च स वर्तते ।।२।।
ज्ञोयः सप्तविधो वायुः पिण्डब्रह्माण्डयोः पृथक् । तत्र पिण्डे स्थितं वायुं सप्तधा शृणु बुद्धिमन् ! ।।३
प्राणोऽपानस्तथा व्यान उदानश्च समानकः । षष्ठ उत्क्रमणो वायुराधाराख्यस्तु सप्तमः ।।४।।
अथावहश्च प्रवह उद्वहः संवहस्तथा । विवहोऽथो परिवहः परावह इति क्रमात् ।।५।।
ब्रह्माण्डसंस्थितो वायुः सप्तधैष प्रकीर्तितः । उभयेषां लक्षणानि कथयामि च तेऽनघ ! ।।६।।
तत्रान्तराणां पञ्चानां प्राणादीनां नभस्वताम् । प्रोक्तानि लक्षणान्यत्र षष्ठस्य कथयामि ते ।।७।।
षष्ठ उत्क्रमणो वायुर्मूलाधारे व्यवस्थितः । मृत्युमाश्रित्य सोऽस्त्येव प्राणोत्क्रमणकारकः ।।८।।
आधाराख्यस्तु देहस्य बहिरन्तश्च तिष्ठति । आश्रयः स हि सर्वेषां तत्त्वानामिति कथ्यते ।।९।।
ब्रह्माण्डे प्रथमो वायुर्वृष्टिकाले विहायसि । धूमोष्मजातान्यभ्राणि प्रेरयत्यावहाभिधः ।।१०।।
धूमज्योतिर्जलस्नेहान्सम्प्राप्यानुक्रमेण सः । महाद्युतिस्तडिद्रूपो भवतीत्यवधारय ।।११।।
द्वितीयः प्रवाहो वायुर्ज्योतिश्चक्रभ्रमाश्रयः । सोमादीनामुदयकृन्मुने ! संवाति सर्वतः ।।१२।।
तृतीय उद्वहो वायुः समुद्रेभ्यो जलं स तु । जीमूतेभ्यः समुद्धृत्य ददात्येवाम्बरे द्रुतम् ।।१३।।
चतुर्थः संवहो वायुर्मेघान्सङ्घीकरोति सः । पुनर्भिनत्ति तान्नादो महानुत्पद्यते यतः ।।१४।।
अन्तरिक्षे विमानानां वाहकश्च स कथ्यते । स्ववेगेन गिरीणां च शिखराणां स मर्दनः ।।१५।।
विवहः पञ्चमो वायुर्महावेगोत्कटध्वनिः । दारुणोत्पातरूपश्च स्वर्धुनीं खे दधाति सः ।।१६।।
तेन प्रतिहतो भानुः सहस्रकिरणोऽपि सन् । एकरश्मिरिवाभाति मृदुतेजा विहायसि ।।१७।।
षष्ठः परिवहो वायुः सोमाप्यायनकृन्मतः । ब्रह्माण्डनाशकश्चासौ यममृत्यू यमाश्रितौ ।।१८।।
संसारासक्तबुद्धीनां मृत्युरूपो ह्यसावपि । ध्यानाभ्यासरतानां तु योगिनाममृतप्रदः ।।१९।।
परावहः सप्तमस्तु योगिनामतिवल्लभः । ब्रह्माण्डस्य बहिश्चान्तः संवाति सुखदायकः ।।२०।।
योगिनः स्वेप्सितं स्थानं पुनरावृत्तिवर्जितम् । एष लम्भयते ब्रह्मंस्ततः सर्वाधिको मतः ।।२१।।
एतेषामेव सप्तानां पुराणेषु नभस्वताम् । प्रोक्तः स्थानविशेषश्च क्रमेण तमपि ब्रुवे ।।२२।।
भूर्लोकः प्रथमस्योक्तं द्वितीयस्य भुवस्तथा । सोमलोकस्तृतीयस्य वायोः स्थानमुदीरितम् ।।२३।।
तुर्यस्य लोको नाक्षत्रः पञ्मस्य ग्रहाभिधः । सप्तर्षिलोकः षष्ठस्य ध्रुवलोकोऽन्तिमस्य च ।।२४।।
एवं बाह्याश्च शारीरा वायवः सप्त सप्त ते । मया सङ्कीर्तितास्ते च ध्येया एकतया मताः ।।२५।।
नाभिघ्राणाग्रहृदयं पादांगुष्ठ इति ध्रुवम् । स्थानान्युक्तानि मुनिभिः प्राणोपासनहेतवे ।।२६।।
तत्र त्वेकतमे धिष्ण्ये प्राणं योगी विचिन्तयेत् । नीलवर्णं सप्रणवं मान्तबीजवपुर्धरम् ।।२७।।
आवहाख्येन तस्यैक्यं भावयेद्बाह्यवायुना । एवं सर्वत्र मरुतां ज्ञातव्यैक्येन भावना ।।२८।।
पार्ष्णिघाटापृष्ठगुदे स्थानेऽपानं सितेतरम् । सतारनान्तबीजं च ध्यायेत्प्रवहसङ्गतम् ।।२९।।
व्यानं त्वगिन्द्रियस्थाने शक्रचापसमप्रभम् । सताररान्तबीजं वा उद्वहैक्येन भावयेत् ।।३०।।
अरुणं मूर्धहृत्कण्ठताल्वग्रांघ्रितलेऽनिलम् । ससंवहमुदानं च ध्यायेत्तारबीजकम् ।।३१।।
गौरवर्णं समानं च नाभौ वा हृदि सन्धिषु । सतारलान्तबीजं च ध्यायेद्विवहसङ्गतम् ।।३२।।
ध्यायेदुत्क्रमणं षष्ठमिडायां श्वेतरोचिषम् । सतारसान्तबीजं च युक्तं परिवहेन च ।।३३।।
पिङ्गलायामथाधारमतिश्वेतं च सप्तमम् । सतारकाद्यबीजं च ध्यायेत्सहपरावहम् ।।३४।।
ध्यानेषु सप्तस्वेतेषु षट्स्वावृत्तिः पुनर्मता । योगिनः सप्तमे तु स्यान्न पुनर्जन्मसङ्कटम् ।।३५।।
उपासकान्नयन्त्येते स्वस्वलोकान्महौजसः । षड्वायवः सप्तमस्तु भगवद्धाम चेप्सितम् ।।३६।।
एवं वायुस्थितिं ज्ञात्वा स्वस्येच्छा यादृशी भवेत् । उपास्य तादृशं वायुं देहं जह्यात्तदात्मकः ।।३७।।
त्यागात्यागौ हि वपुषः स्वतन्त्रौ विजितात्मनाम् । योगिनां भवतो ब्रह्मभक्तिं विदधतां हरौ ।।३८।।
समाधिनिष्ठां परमामुपेतैः स्वातन्त्र्यमाप्तैः स्ववपुस्त्यजौ च ।
कर्तव्यमित्थं कथितं मया ते ब्रुवे ततोऽन्यैश्च विधेयमद्य ।।३९।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे बाह्याभ्यन्तरवायुस्वरूपनिरूपणनामा चतुःषष्टितमोऽध्यायः ।।६४।।