श्रीनारायणमुनिरुवाच :-
समाधिनिष्ठो योगीन्द्रः स्वतन्त्र स निजेच्छया । देहं धत्ते त्यजति वा कालभीतिविवर्जितः ।।१।।
देहत्यागे योगिनोऽत्र चिरं वा देहधारणे । पञ्चानां महतां ज्ञानं भूतानामस्त्यपेक्षितम् ।।२।।
पिण्डब्रह्माण्डहेतूनां तेषां ज्ञानं विना तु सः । विद्याद्बौत्कपिण्डस्य त्यागात्यागकलां कथम् ।।३।।
तस्मात्कारणरूपाणि महाभूतानि पञ्च च । ज्ञोयानि तेषां कार्याणि ह्यण्डपिण्डस्थितान्यपि ।।४।।
शतानन्द उवाच :-
पिण्डब्रह्माण्डहेतूनां भीतानां महतां विभो ! । विशेषं बोद्धुमिच्छामि वक्तुमहर्ति तं भवान् ।।५।।
समानेष्विह भूतेषु पृथिव्यादिषु पञ्चसु । कार्याणां कारणानां च भेदो ज्ञायेत वा कथम् ।।६।।
श्रीनारायणमुनिरुवाच :-
कार्याणां कारणानां च ह्याधेयाधारभावतः । अल्पत्वेन महत्त्वेन तेषां भेदोऽवगम्यताम् ।।७।।
कारणेषु तु भूतेषु कार्यरूपाण्डगोलकाः । संस्थिताः सन्ति हि यथा भुवि भौमा घटादयः ।।८।।
आधारभूतान्यण्डानां महाभूताभिधानि च । सन्ति तानि तरङ्गाणां यथाम्बुनिधयस्तथा ।।९।।
पुंप्रकृत्याश्रितान्येव पञ्चज्ञोयानि तानि तु । तयोर्योगे यतोऽण्डानि तद्द्वारा सम्भवन्ति वै ।।१०।।
अण्डजद्वन्द्वसंयोगान्मायया परमात्मनः । यथाण्डसम्भवो ह्यत्र दृश्यते भुवि सन्मते ! ।।११।।
पुंप्रकृत्योस्तथा योगाद्बूतद्वाराण्डसम्भवः । परस्यैवेच्छया ताभ्यां भवत्येव हि नान्यथा ।।१२।।
ब्रह्माण्डमध्ये भूतानि यानि पञ्चात्र तानि तु । जातान्यंशैर्हि महतां भूतानामीश्वरेच्छया ।।१३।।
यथाण्डजाण्डमध्येऽत्र पक्षिदेहसमुद्बवः । कालेन तद्वद्बवति ब्रह्माण्डे भूतसम्भवः ।।१४।।
कारणाख्यान्यतः प्राहुर्महाभूतानि तानि तु । ब्रह्माण्डमध्यभूतानि कार्याख्यानि च तद्विदः ।।१५।।
पिण्डाख्यः स्थूलदेहो यः शुक्रशोणितसम्भवः । स्त्रीपुंसयोगतः सोऽपि पञ्चभूतांशजोऽस्ति हि ।।१६
काठिन्यरूप आधारस्तत्र पृथ्वीति गद्यते । देहे द्रवस्तथैवाप ऊष्मा तेजश्च कथ्यते ।।१७।।
चेष्टा वायुस्तथाकाशमवकाशोऽस्ति सुव्रत ! । एवं पञ्चापि भूतानि सन्ति सर्ववपुष्वपि ।।१८।।
तत्राप्यग्निर्जलं वायुरिति त्रीणि विशेषतः । देहे मुख्यतया सन्ति ज्ञातव्यमिति योगिना ।।१९।।
तत्रापि वायुर्मुख्योऽस्ति भवतोऽन्ये तदाश्रिते । वायुस्तदाश्रितोऽस्त्येवमेषामन्योन्यसंश्रयः ।।२०।।
अग्निः षट्स्वपि कोशेषु धातूनां पक्वतामिह । कुर्वाणो जाठरश्चासौ देहं धारयति ध्रुवम् ।।२१।।
जलं च वीर्यरूपेण कारणं वपुषोऽस्ति हि । वीर्येण वर्तते देहः श्रये वीर्यस्य नश्यति ।।२२।।
प्राणपञ्चकरूपेण चेष्टयंश्चाखिलं वपुः । इन्द्रियाद्यात्मनां प्राप्य वायुर्धारयते वपुः ।।२३।।
नाभिमध्ये स्थिताः सर्वे प्राणा देहेषु देहिनाम् । तत एव प्रसर्पन्ति तिर्यगूर्ध्वमधश्च ते ।।२४।।
सुषुम्णायां मुख्यतया वायुर्वहति सर्वदा । तदाश्रितासु नाडीषु सर्वास्वपि विशत्यतः ।।२५।।
नाभेरूर्ध्वं स्थितः प्राणः शरीरं परिपालयन् । मूर्ध्नि तत्स्थे तथा वह्नौ वर्तते व्याप्य सत्तमः ।।२६।।
नाभेरधो ह्यपानश्च जाठराग्निसमिन्धनः । अपानप्राणयोर्मध्ये जाठरोऽग्निश्च वर्तते ।।२७।।
व्यानः सन्धिषु सर्वेषु वर्तते चेष्टयन्वपुः । बलकर्मप्रयत्नात्मा ह्युदानश्चास्ति कण्ठगः ।।२८।।
यत्किञ्चिदशितं पीतं तत्तन्मार्गं समानयन् । उद्दीपयंश्च कोशाग्निमास्ते नाभौ समानकः ।।२९।।
इत्यग्निजलवायूनां देहे मुख्यत्वमुच्यते । तत्रापि वायोः प्राधान्यं प्रोच्यते योगवेदिभिः ।।३०।।
त्यागे वा धारणे तस्मात्स्वशरीरस्य योगिना । कर्तव्ये सति तु ध्येयो वायुर्ब्राह्यस्तथान्तरः ।।३१।।
कृते प्राणनिरोधे च जाठरोऽग्निस्तदाश्रितः । स्वयं निरुद्धयते तेन निष्ठेद्योगिवपुश्चिरम् ।।३२।।
उपेक्षा धारणे यस्य वपुषो योगिनो भवेत् । जिहासा तु भवेत्तर्हि ध्यात्वा वायुं तदुत्सृजेत् ।।३३।।
वायुस्वरूपं निश्चित्य पिण्डब्रह्माण्डसंस्थितम् । आदौ ततः स योगज्ञाः कुर्यात्सुदृढमासनम् ।।३४।।
यल्लोकेच्छा भवेत्स्वस्य तल्लोकप्रापकं हृदि ध्यात्वा वायुं ततस्तत्स्थं जह्यात्स्वस्य कलेवरम् ।।३५।।
वायुरूपः स कालात्मा योगी सर्वत्र निर्भयः । स्वस्येप्सितं पदं याति वन्द्यमानः सुरादिभि ।।३६।।
वासुदेवप्रसादेन ततो भागवतीं तनुम् । सम्प्राप्य परमानन्दं जुषमाणः स वर्तते ।।३७।।
सम्प्राप्य धाम परमं परमस्य पुंसः साक्षाद्रमेव चरणाम्बुजमेव तस्य ।
संसेवमान ऋषिसत्तमचिन्त्यमूर्तेराप्नोति सौख्यमभिवाञ्छितमात्मनोऽसौ ।।३८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे बाह्याभ्यन्तरपञ्चभूतस्वरूपनिरूपणनामा त्रिषष्टितमोऽध्यायः ।।६३।।