श्रीनारायणमुनिरुवाच :-
योगोऽयं सिद्धिमायाति देशाद्यैः सेवितैः शुभैः । न सिद्धयत्यशुभैरेतैर्नाशहेतुश्च जायते ।।१।।
देशः कालः क्रिया ध्यानं शास्त्रं दीक्षा तथा मनुः । सङ्गश्च यादृशा ह्येते तादृक्तत्सेविनां फलम् ।।२।
शुभैरेतैः सेवितैस्तु शुभा बुद्धिर्भवेन्नृणाम् । अशुभैस्तैर्भवेद्बुद्धिरभुभा नात्र संशयः ।।३।।
असतो देशकालादीन् न सेवेत ततः सुधीः । विहाय ताञ्छुभानेव हितार्थी शीघ्रमाश्रयेत् ।।४।।
योगशास्त्ररहस्यं हि साङ्गोपाङ्गमशेषतः । तुभ्यं बुभुत्सवे प्रोक्तमिति योगज्ञासम्मतम् ।।५।।
एतत्तु परमं गुह्यं योग्यत्वात्तव धीमतः । मया निगदितं सम्यग्यथा पृष्टं त्वया तथा ।।६।।
निर्मथ्य सर्वशास्त्रार्थंस्तत्सारोऽयं समुद्धृतः । मया सङ्कथितस्तुभ्यं सर्वलोकहितावहः ।।७।।
यो योगशास्त्रमेतत्तु शृणुयात्कीर्तयेच्च यः । सर्वपातकसङ्घेभ्यो मुच्येयातां हि तावपि ।।८।।
सुव्रत उवाच :-
इति सग्दुरुणा तेन योगशास्त्रमुदीरितम् । शतानन्दमुनिः श्रुत्वा सोऽतिहृष्टोऽभवन्नृप ! ।।९।।
अन्येऽपि मुनयः सर्वे निशम्यैतत्तदाश्रिताः । सम्प्राप्य परमानन्दं तं संस्तुत्य ववन्दिरे ।।१०।।
प्राप्तानन्दः शतानन्दः स चापि परमादरात् । तं नमस्कृत्य तुष्टाव भगवन्तं नराकृतिम् ।।११।।
शतानन्द उवाच :-
श्रीवासुदेव ! विमलामृतधामवासं नारायणं नरकतारणनामधेयम् ।
श्यामं सितं द्विभुजमेव चतुर्भुजं च त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१२।।
शिक्षार्थमत्र निजभक्तिमतां नराणामेकान्तधर्ममखिलं परिशीलयन्तम् ।
अष्टाङ्गोगकलनाश्च महाव्रतानि त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१३।।
श्वासेन साकमनुलोमविलोमवृत्त्या स्वान्तर्बहिश्च भगवत्युरुधात्मनश्च ।
पुरे गतागतजलाम्बुधिनोपमेयं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१४।।
बाह्यान्तरिन्द्रियगणश्वसनाधिदैववृत्त्युद्बवस्थितिलयानपि जायमानान् ।
स्थित्वा ततः स्वमहसा पृथगीक्षमाणं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१५।।
मायामयाकृतितमोशुभवासनानां कर्तुं निषेधमुरुधा भगवत्स्वरूपे ।
निर्बीजसाङ्खयमतयोगगयुक्तिभाजं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१६।।
दिव्याकृतित्वसुमहस्त्वसुवासनानां सम्यग्विधिं प्रथयितुं च पतौ रमायाः ।
सालम्बसाङ्खयपथयोगसुयुक्तिभाजं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१७।।
कामार्ततस्करनटव्यसनिद्विषन्तः स्वस्वार्थसिद्धिमिव चेतसि नित्यमेव ।
नारायणं परमयैव मुदा स्मरन्तं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१८।।
साध्वीचकोरशलभास्तिमिकालकण्ठकोका निजेष्टविषयेषु यथैव लग्नाः ।
मूर्तौ तथा भगवतोऽत्र मुदाऽतिलग्नं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।१९।।
स्नेहातुरस्त्वथ भयातुर आमयावी यद्वत्क्षुधातुरजनश्च विहाय मानम् ।
दैन्यं भजेयुरिह सत्सु तथा चरन्तं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।२०।।
धर्मस्थितैरुपगतैर्बृहता सहैक्यं सेव्यो हरिः सितमहःस्थितदिव्यमूर्तिः ।
शब्दाद्यरागिभिरिति स्वमतं वदन्तं त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।२१।।
सग्दन्थनित्यपठनश्रवणादिसक्तं ब्राह्मीं च सत्सदसि शासतमत्र विद्याम् ।
संसारजालपतिताखिलजीवबन्धो ! त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ।।२२।।
सुव्रत उवाच :-
इति स्तुत्वा च नत्वा तं प्राञ्जलिः स तदग्रतः । तस्थौ मुनिस्तं भगवान्प्रीतः प्रोवाच भूपते ! ।।२३।।
महर्षे ! यन्मनोभीष्टं भवेत्तव मदद्य तत् । वृणु प्रीतोऽस्म्यहं तुभ्यं तद्दास्यामि न संशयः ।।२४।।
शतानन्द उवाच :-
प्रसन्नो यदि मे स्वामिंस्तर्हि त्वं कृपयाऽद्य हि । मनोरथं चिरत्नं मे सम्पूरयितुमहर्सि ।।२५।।
त्वच्चरित्रग्रन्थमहं चिकीर्षामि जगग्दुरो ! । तदाज्ञां देहि मे पूर्वं भवताऽस्ति प्रतिश्रुतम् ।।२६।।
सफलस्तेन भविता विद्याभ्यासश्रमो मम । इत्यभीष्टं हि मे देहि भक्ताभीष्टप्रदोऽसि हि ।।२७।।
इत्यर्थितः स मुनिना प्रेमभक्तेन धीमता । प्रसन्नः प्राह तं योगन् ! कुरु ग्रन्थं स्ववाञ्छितम् ।।२८।।
यथाश्रुतं यथादृष्टं चरित्रं मम वर्णय । ज्ञानं त्रैकालिकं बुद्धौ भवत्येव तवानघ ! ।।२९।।
मनःस्थानप्यभिप्रायान्सर्वेषां वेत्स्यसि ध्रुवम् । न ते त्वविदितं किञ्चिद्बवितातिप्रियोऽसि मे ।।३०।।
अन्तर्हिते मयि भुवो मच्छ्रितानां नृणां मुने ! । त्वत्कृतो ग्रन्थ एवात्र भविष्यत्याश्रयो महान् ।।३१।।
शिक्षापत्रीं मल्लिखितां ग्रथानाऽदौ त्वमञ्जसा । पद्यैरानुष्टुभैरेव महाग्रन्थं ततः कुरु ।।३२।।
विजने हि स्थिरा बुद्धिः स्यादतः कृष्णमन्दिरे । वासोचिताऽस्ति कुटयेका तत्रैव निवसेर्मुने ! ।।३३
सुव्रत उवाच :-
एवमुक्तः स हरिणा मुनि प्रीततरोऽभवत् । तं प्रणम्य निजावासमुपेयाय नराधिप ! ।।३४।।
आज्ञा हरेरेव शुभं मुहूर्तं विदन्स कृष्णालयरम्यकुटयम् ।
कृत्वा स्ववासं च तदैव शिक्षापत्रीं मुनिर्ग्रन्थितुमुद्यतोऽभूत् ।।३५।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे शतानन्दवरप्रदाननामा षट्षष्टितमोऽध्यायः ।।६६।।