सुव्रत उवाच :-
त्रयोदशी धनाद्याऽसीत्तदानीं नृपसत्तम ! । शिक्षापत्रीं समारेभे स तस्यां ग्रन्थितुं मुनिः ।।१।।
पूर्णा यमद्वितीयायां सा कृता तेन सद्धिया । श्लोकाः शतद्वयं तस्या आसंश्च द्वादशोत्तरम् ।।२।।
ततः स भगवत्प्रीत्यै तस्याष्टीकां च शोभनाम् । आरेभे तां सहोमासे पञ्चम्यां च समापयत् ।।३।।
तस्यामेव तिथौ राजन्नपरो समार्पयत् । हरये मुनिभिः साकमुपविष्टाय संसदि ।।४।।
सटीकां पत्रिकां स्वीयां दृा तां सन्तुतोष सः । प्रशंसां बहुधा चक्रे शतानन्दस्य संसदि ।।५।।
यावान्मदीयोऽभिप्राय आसीत्तावानशेषतः । अत्रानीतोऽस्त्यनेनेति मुनीन्भक्तांश्च सोऽवदत् ।।६।।
प्रीत्या ददौ स्वकण्ठस्थां शतानन्दाय स स्रजम् । करद्वयं चातिमुदा दधौ तच्छिरसि प्रभुः ।।७।।
ततस्तां वाचयामास नित्यानन्देन संसदि । हरिर्भक्ताश्च मुनयः श्रुत्वा तां जहृषुर्नृप ! ।।८।।
ततः प्राह हरिः सर्वान्स्वभक्तान् शृणुताखिलाः । ये स्युर्मदीयास्तैरेषा पाठय श्रव्याऽथवाऽन्वहम् ।९
प्रागेव भोजनान्नित्यं शुचिभिः स्वस्तिकासनम् । समास्थितैरियं पाठय ततो भोज्यमनापदि ।।१०।।
दिवाऽनुकूल्याभावे तु निशि नित्यविधिं निजम् । कृत्वैकत्र निषद्यैव पठनीयेयमादरात् ।।११।।
यथैतदर्थस्फुरणं हृदि स्वस्य भवेत्तथा । शनैः स्फुटाक्षरं पाठया नित्यमेव मदाश्रितैः ।।१२।।
इति श्रुत्वा हरेर्वाक्यं सर्वे भक्तजनास्तदा । एवमेव करिष्यामो वयमित्यूचुरानताः ।।१३।।
ततो हरिः शतानन्दं प्राह स्वाभीष्टुमुत्तमम् । कुरु ग्रन्थं महाबुद्धे ! समर्थोऽसि हि तत्कृतौ ।।१४।।
कृष्णप्रसादलब्धैव बुद्धिस्तेऽस्तीति भाति नः । अन्यथा मदभिप्रायमेवं वक्तुं क्षमेत कः ।।१५।।
स इत्युक्तो भगवता तं प्रणम्य निजाश्रमम् । आययौ दुर्लभं देवैः सम्प्राप्तस्तदनुग्रहम् ।।१६।।
हरिप्रसादसम्प्राप्तसार्वज्ञयः सोऽथ योगिराट् । चम्पाषष्ठयां समारेभे इदं सत्सङ्गिजीवनम् ।।१७।।
एकैकं च प्रकरणं कृत्वा सम्पूर्णमीश्वरम् । तमेव श्रावयामास निजावासस्थितं मुनिः ।।१८।।
स शुश्रावादरात्साकं नित्यं स्वान्तिकवासिभिः । शुकानन्दादिमुनिभिस्तेन तुष्टोऽभवद्बृशम् ।।१९।।
स चापि दशमं स्कन्धं पञ्चमं च पुनर्नृप ! । नैरन्तर्येण शुश्राव त्यक्तान्यव्यावहारिकः ।।२०।।
अपरो निजावासवितर्दावुपविश्य सः । अनन्यगतिकेभ्योऽदात्स्वभक्तेभ्यः स्वदर्शनम् ।।२१।।
द्वित्रेषु वा पञ्चषेषु क्वचित्त्रिचतुरेषु वा । दिनेष्वतीतेष्वभवंश्चित्रा वार्तास्तदग्रतः ।।२२।।
पौरा देशान्तरीयाश्च दृष्टाश्चर्या जना नृप ! । हरेरग्रे सभायां ताश्चक्रुस्तास्ते वदाम्यहम् ।।२३।।
नरनारायणश्चैव लक्ष्मीनारायणस्तथा । गोपीनाथादयस्तेन स्थापिताः कृष्णमूर्तयः ।।२४।।
तत्र या या कृष्णमूर्तिः स्थापिता यत्र यत्र च । यदा यदा तेन तत्तद्दिवसात्तत्र तत्र तु ।।२५।।
आश्चर्यमभवत्तच्च ददृशुः सकला अपि । भक्ता अभक्ता अपि च पुमांसो योषितस्तथा ।।२६।।
क्वचित्क्वचिन्मूर्तयस्ताः प्रत्यक्षं कृष्णवत्क्रियाः । मनोहराश्च विविधाः कुर्वन्ति स्म महीपते ! ।।२७।।
क्वचित्स्वाः प्रेक्षमाणांस्तु जनान् दृाऽहसन् हि ताः । जगृहुः पुष्पहारादीनुपहारान्क्वचित्स्वयम् ।।२८
क्वचिन्निवेदितान्नं च साक्षाद्बुभुजिरे च ताः । क्वचिन्निवेदितं दुग्धं पिबन्ति स्म जलं क्वचित् ।।२९।।
क्वचिन्नित्यनिजप्रेक्षानियमिभ्यः स्वदर्शनम् । ददुः सङ्कटरुद्धेभ्यः साक्षाद्ग्रामान्तरेऽपि ताः ।।३०।।
पुत्रान् ददुश्च केभ्यश्चित्कुर्वद्भ्यः स्वोपयाचितम् । तथा जह्रुश्च केषाञ्चिद्बलवद्वैरिसङ्कटम् ।।३१।।
क्वचित्स्वाः सेवमानेभ्यो निर्धनेभ्ये धनं च ताः । स्वप्ने प्रभूतं सम्प्रेर्य धनवन्तमदापयन् ।।३२।।
क्वचित्ता वीक्षकाः सद्यः समाधिं लेभिरे जनाः । क्वचित्ताः प्रेक्षमाणाश्च भूरितेजो व्यचक्षत ।।३३।।
इत्यादीनि बहून्यासंस्तत्र तत्राद्बूतानि हि । तानि दृा जना भूमौ बहवस्ताः समाश्रयन् ।।३४।।
एवमाद्यद्बूतं दृा केचित्तत्रागता जनाः । सभास्थितं हरिं प्रोचुस्तत्सर्वं हि तदा तदा ।।३५।।
तच्छ्रुत्वा लेभिरे चित्रं सभासंस्था हि मानवाः । हरेरेव प्रतापं तं विविदुः सर्वमेव ते ।।३६।।
तच्च नारायणमुनिर्निशम्य वृत्तमादरात् । कथयामास तद्वक्तृन् सदःस्थांश्च निजानपि ।।३७।।
साक्षात्कृष्णे भगवति नरनारायणादिषु । तन्मूर्तिषु च नास्त्येव भेद इत्यवधार्यताम् ।।३८।।
श्रुत्वेति भगवद्वाक्यं प्रापुः सर्वे मुदं पराम् । मूर्तिद्वारापि भूपेत्थं प्रतापं हरिरातनोत् ।।३९।।
वर्तमानस्य तस्येत्थं जनमङ्गलदाकृतेः । अगात्संवत्सरः सार्ध आत्मारामस्य सत्पतेः ।।४०।।
प्रतापस्तस्येत्थं सलिलनिधिपर्यन्तमभितो भुवि ग्रामे ग्रामे प्रतिपुरमपि व्याप्तिमगमत् ।
पुमांसो योषाश्च प्रतिनिलयमस्यैव हि यशो जगुः प्रीत्या नित्यं विशदमुरुधा मानवपते ! ।।४१।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे हरिस्थापितनरनारायणादिमूर्तिप्रतापनिरूपणनामा सप्तषष्टितमोऽध्यायः ।।६७।।