सुव्रत उवाच :-
नवम्यामथ शुक्लायां ज्येष्ठस्य स निशात्यये । विचारमकरोद्बूय आत्मनात्मनि भूपते ! ।।१।।
मया धृतोऽवतारोऽयं यदर्थं तदशेषतः । कार्यंकृतं भूतलेऽत्र न किञ्चिदवशेषितम् ।।२।।
अधार्मिका गुर्वसुरा धर्मसाधुद्रुहो नृपाः । प्रतापेन मया स्वस्य परास्ताः सकला अपि ।।३।।
अधर्मवंश्या लोभेर्ष्याकामक्रोधादयोऽपि च । सच्छास्त्रस्वप्रतापाभ्यामुत्खाता हृदयान्नृणाम् ।।४।।
सत्यास्तेयब्रह्मचर्यदयाद्या धर्मवंशजाः । स्थापिता हृदये नणां मया सम्यग्धरातले ।।५।।
स्वधर्मज्ञानवैराग्ययुक्ता भक्तिश्च सर्वतः । प्रवर्तिता प्रतिगृहं नृणां निःश्रेयसाय च ।।६।।
धर्मो मूर्तिश्चोद्धवश्च दुर्वासःशापतो मया । मोचिताश्चर्षयः प्रायो मुच्यमानास्तथेतरे ।।७।।
ब्रह्मविद्याश्च सकला नानायोगकलास्तथा । प्रवर्तिताः प्रतिजनमहिंसाश्च मखा भुवि ।।८।।
देवब्राह्मणतीर्थानां निगमानां सतां तथा । प्रवर्तिता मान्यता च सच्छास्त्राणां च सर्वथा ।।९।।
असच्छास्त्रस्य कौलादेर्नास्तिकानां मतस्य च । विधाय खण्डनं धर्मः स्थापितोऽत्र सनातनः ।।१०
विधाप्य मन्दिराण्यत्र स्वाश्रितानां सुखाय च । स्थापिता मूर्तयः स्वस्य नरनारायणादयः ।।११।।
भक्तिमार्गप्रवृत्त्यर्थं धर्मवंश्यद्विजेषु च । आचार्यता स्थापिताऽथ दीक्षारीतिः प्रवर्तिता ।।१२।।
सदाचारप्रवृत्त्यर्थं स्वाश्रितेषु प्रवर्तता । सर्वसच्छात्रसारो हि शिक्षापत्री मया भुवि ।।१३।।
वर्णिनां नैष्ठिकानां च गृहिणां योषितां मया । साधूनामितरेषां च धर्माः सम्यङ्निरूपिताः ।।१४।।
व्रतोत्सवानां सर्वेषां विधिश्चोक्तो मयाऽखिलः । विधिरष्टाङ्गयोगस्य सकलोऽपि निरूपितः ।।१५।।
कलौ जनिष्यमाणानां शतानन्देन देहिनाम् । उद्धृत्यै कारितो ग्रन्थः समाप्तप्राय एव सः ।।१६।।
एवं यत्स्वेन कर्तव्यं तत्सर्वं हि कृतां मया । अतः परं स्वधामैव गन्तव्यमधुना भुवः ।।१७।।
किन्त्वद्यैव तिरोभूते मयि सर्वे मदाश्रिताः । मय्येवातिस्नेहभाजो देहान् हास्यन्ति तत्क्षणम् ।।१८।।
अतो मद्विरहं सोढुमक्षमाणां हि सर्वथा । तेषां शान्तिं विधायैव यायां धाम निजं परम् ।।१९।।
इत्थं स कृतसङ्कल्पो नारायणमुनिर्नृप ! । अजूहवद्वर्णिराजा तत्रस्थान् स्वाश्रितान् द्रुतम् ।।२०।।
रामप्रतापेच्छारामौ तत्र सत्वरमीयतुः । तथाऽयोध्याप्रसादश्च रघुवीरः समातरौ ।।२१।।
मुक्तानन्दस्तत्र शीघ्रं गोपालानंद आययौ । नित्यानन्दः शुकानन्दो ब्रह्मानन्दश्च सत्वरम् ।।२२।।
आनन्दानन्दभजनानन्दावाजग्मतुस्तथा । निर्गुणानन्दमुख्याश्च साधवोऽन्ये च सत्वरम् ।।२३।।
दीनानाथादयो विप्राः सोमसूरोत्तमादयः । गृहिणः क्षत्रियास्तत्र शीघ्रमेव समाययुः ।।२४।।
रत्नजिन्मयजिन्मुख्यास्तत्राजग्मुः पदातयः । जया रमा च ललिताप्रमुखा योषितस्तथा ।।२५।।
तत्रागत्य च ते भक्तास्तं प्रणम्य तदन्तिके । यथोचितं निषेदुस्तान्प्रत्युवाच हरिस्तदा ।।२६।।
सर्वे शृणुत भो भक्ताः ! सत्यमेव वचो मम । युयं जानीथ मां नूनमीश्वरं मानुषाकृतिम् ।।२७।।
यदर्थमवतारोऽयं मनुष्येषु मया धृतः । कार्यं कृतं तत्सकलं नावशिष्टं हि किञ्चन ।।२८।।
यास्याम्यतः स्वधामेति युष्माभिः क्षुद्रजीववत् । नानुशोच्योऽहमित्येव माननीयं वचो मम ।।२९।।
वज्रपातोपममिति तद्वाक्यं तु निशम्य ते । निपेतुः सहसा भूमौ रुदन्तो व्याकुलान्तराः ।।३०।।
केचित्तु मूर्छामगमन् लीननाडयसवोऽपरे । आसंश्च केचिन्नयनगद्रुधिरबिन्दवः ।।३१।।
विलेपुस्ते भृशं सर्वे बभूवुश्च विचेतसः । प्रोचुश्चास्मानपि हरे ! सह स्वेन नयेति ते ।।३२।।
ततो हरिः स्वहृदये चिन्तयामास भूपते ! । एते नूनं मरिष्यन्ति मद्वियोगासहा जनाः ।।३३।।
मा त्वेते रक्षणीयाः सन्त्येवेतरदेहिनाम् । क्षेमाय मत्स्थापिताध्वप्रवृत्त्यै भुवि साम्प्रतम् ।।३४।।
योगैश्वर्येणात एषां कुर्यां हृद्दाढर्यमञ्जसा । विचार्येत्थं धैर्यशक्तिं हृत्सु तेषामवीविशत् ।।३५।।
अथोत्थायोपविष्टेषु तेषु धैर्यावलम्बिषु । आश्वासयन्स तानूचे भक्तप्रियकृदीश्वरः ।।३६।।
चिन्ता कार्या न युष्मभिरहं तिष्ठामि भूतले । वृत्तालये त्वहं वर्ते साक्षान्मन्मूर्तियुग्मतः ।।३७।।
नरनारायणाख्योऽहे वर्ते श्रीनगरे तथा । गोपीनाथाख्या चात्र वर्त इत्येव वित्त माम् ।।३८।।
मयि चैतेषु रूपेषु भेदो नास्त्येव किञ्चन । अहमेवास्मि वै साक्षादेतद्रूपो हि भूतले ।।३९।।
एतत्संसेविनां साक्षाद्बविष्यति मदीक्षणम् । प्रत्यक्षवत्साम्प्रतं च वर्तन्ते ता हि मूर्तयः ।।४०।।
एतासां सेवनं विद्मि साक्षान्मत्सेवनं खलु । अत एताः सेवनीया भवद्बिर्भक्तिभावतः ।।४१।।
तथाऽयोध्याप्रसादोऽयं रघुवीरश्च वो गुरू । मया कृतौ स्तस्तौ मान्यौ भवद्बिश्च यथोचितम् ।।४२।।
शिक्षापत्र्युक्तधर्मेषु सर्वैर्युष्माभिरन्वहम् । यथाधिकारं वृत्यं च शोकः कार्यो न मे क्वचित् ।।४३।।
आत्मघातो न कर्तव्यो नान्नत्यागश्च मामनु । न करिष्यति यस्त्वित्थं स मे नात्र परत्र च ।।४४।।
सुव्रत उवाच :-
इति वाक्यं हरेः सर्वे श्रुत्वा सास्रदृशो हि ते । तदिच्छां तादृशीमेव ज्ञात्वा तच्छिरसा दधुः ।।४५।।
प्रणम्योचुश्च तं सर्वे बद्धाञ्जलिपुटास्ततः । पदाब्ज एव तेऽस्माकं मनस्तिष्ठतु सर्वदा ।।४६।।
अस्माभिर्जीवबुद्धा ये त्वपराधास्तव क्वचित् । कृताः स्युः सकलास्ते च क्षन्तव्या भवता प्रभो ! ।।४७
ध्यायेम त्वां वयं यर्हि तदा दद्याः स्वदर्शनम् । त्वद्बक्तौ मास्तु नो विघ्नः स्वतो वा परतः क्व चित् ।।४८
शीघ्रमेव वयं नेयास्त्वया स्वनिकटं प्रभो ! । इति त्वां प्रार्थयामोऽद्य त्वत्पादैकसमाश्रयाः ।।४९।।
इति तेषां वचः श्रुत्वा तथास्त्वित्याह तान् हरिः । कुर्वेऽहमाह्निकं यूयं स्वस्थानं गच्छतेति च ।।५०।
ततस्ते तं नमस्कृत्य भग्नाङ्घ्रय इवानघ ! । सास्रनेत्रा ययुः स्थानं चिन्तयन्तस्तमेव हि ।।५१।।
उत्पाता बहवो राजंस्तदाऽसञ्जगतीतले । स्वरो वायुर्महानासीन्निपेतुर्बहवो द्रुमाः ।।५२।।
ज्वालाभिः खं लिहन्नग्निर्ग्रामान्कतिचिदादहत् । आसीच्च वज्रनिर्घोष उल्कापातश्च भूतले ।।५३।।
क्वचिच्चाभूदश्मवृष्टी रक्तवृष्टिश्च कुत्रचित् । त्रासश्च हृदये नणां तदासीत्सहसैव हि ।।५४।।
मनांसि कलुषाण्यासन्साधूनामपि तत्क्षणम् । निदाघभास्करोऽप्यासीन्निस्तेजाः सुरवर्तमनि ।।५५।।
भक्तानां च हरेः पुंसां वामाङ्गस्फुरणं तथा । दक्षाङ्गस्फुरणं स्त्रीणामासीच्चाप्रियसूचकम् ।।५६।।
दृा तान् सहसोत्पातान् जायमानांस्तु तद्विदः । हरेरन्तर्धिमेवैते सूचयन्तीत्यमंसत ।।५७।।
हरिः स्नत्वाह्निकं कृत्वा तस्यां दशहरातिथौ । ददौ दानानि विप्रेभ्यो गवादीनि यथाविधि ।।५८।।
स्नत्वा धौताम्बरधरः कृतोर्ध्वतिलकः पुनः । भुवि गोमयलिप्तायामातस्तार कुशांस्तिलान् ।।५९।।
तत्र सिद्धासनं कृत्वा निषण्णः स्थिरवीक्षणः । आत्मानमात्मना दध्यौ दुर्निरीक्ष्यः स तेजसा ।।६०।।
नित्यानन्दश्च गोपालानन्दस्तस्याग्रतः स्थितौ । आस्तां च भजनानन्दशुकानन्दाववस्थितौ ।।६१।।
तदान्तरिक्षे सहसा विमानानां तु कोटयः । पार्षदानामदृश्यन्त तस्य च त्रिदिवौकसाम् ।।६२।।
दिव्यगन्धैर्दिव्यपुष्पैर्दिव्यैः सर्वोपचारकैः । दिव्यैर्भक्तैः पूज्यमानः स्वधाम सह तैर्ययौ ।।६३।।
अत्युत्साहेन देवानां तं समर्चयतां पथि । उत्सवोऽभून्महांस्तेषां वादित्राणां च निःस्वनः ।।६४।।
तेषां पूजयतां राजंश्चन्दनद्रवबिन्दवः । पुष्पाणि च तदा भूमौ न्यपतंश्च क्वचित्क्वचित् ।।६५।।
तेजःपुञ्जो महानादौ ददृशेऽतिसितो घनः । ततस्तिरोदधे सद्यः स नालक्ष्यत कैश्चन ।।६६।।
सौदामन्यास्तिरोधानं यथा दीपार्चिषोऽथवा । मर्त्यैर्न लक्ष्यते तद्वग्दतिस्तस्यापि कैश्चन ।।६७।।
नित्यानन्दादयस्ते च तद्दृाश्चर्यमागताः । तद्दत्तधैर्या विदधुरुच्चैस्तन्नामकीर्तनम् ।।६८।।
तन्निशम्याखिला भक्तास्तत्राजग्मुश्च सत्वरम् । ज्ञात्वा तिरोहितं तं तु विलेपुः करुणं भृशम् ।।६९।।
ततस्तदिच्छया प्रापुर्धैर्यं ते सकला अपि । विशोका इव तन्नामकीर्तनं चक्रुरुच्चकैः ।।७०।।
नानाविधानि चित्राणि चरित्राण्यथ तस्य ते । स्मरन्तः कीर्तयन्तश्च दुःखेनाहानि निन्यिरे ।।७१।।
अखण्डसच्चिदानन्दमूर्तेर्भगवतो नृप ! । जननं च तिरोधानं लीलैवेत्यवधारय ।।७२।।
असुरास्त्वत्र मुह्यन्ति न तु भक्ताः कदाचन । वैभवं योगमायाया जानन्तो राधिकापतेः ।।७३।।
यथा नटस्य माययां मुह्यत्सु प्रेक्षकेष्वपि । तद्विदस्तु न वै तद्वल्लीलायां तज्जना हरेः ।।७४।।
शतानन्दोऽथ मुनिराट् राजंस्तद्विरहाकुलः । तद्धयाननिष्ठया धैर्यं प्राप्य तत्राब्दमावसत् ।।७५।।
सत्सङ्गिजीवनग्रन्थं कृत्वा सम्पूर्णमञ्जसा । तं संशोध्य तदीयार्थं सर्वं हृद्यवधार्य च ।।७६।।
तत्प्रकाशकमन्वर्थं हरेर्नामसहस्रकम् । सर्वमंगलसंज्ञोन स्तोत्रेणारचयत्स्वयम् ।।७७।।
ततस्तदर्थमादाय सेपाज्जनमङ्गलम् । स्तोत्रं चकार भक्तानां नित्यपाठाय योगिराट् ।।७८।।
सभाकृतास्तत्रतत्र हरेर्वार्तासुधास्ततः । मुक्तानन्दादिभिः सद्बिः संश्रुताः सर्वशश्च याः ।।७९।।
तासां तैर्लिखिताः स्मृत्वा तास्तु सत्सङ्गिनां मुदे । शतद्वयेन प्रमिता द्विषष्टय संयुतेन वै ।।८०।।
तासां ग्रन्थकृते राज्ञा पद्यै रम्यैस्तु या कृता । पूर्वं श्रीहरिणा तां स स्मृत्वैकं ग्रन्थमातनोत् ।।८१।।
धर्मज्ञानविरागाणां सम्यग्रूपप्रकाशकम् । हरिवाक्यसुधासिन्धुं कृष्णभक्तेश्च तत्त्वतः ।।८२।।
शिक्षापत्र्यास्ततष्टीकां द्वितीयामपि सोऽकरोत् । सुखबोधाय सर्वेषां ततः सिद्धान्तमौध्वम् ।।८३।।
उभे स्तोत्रे चकाराथ मुनिः श्रीभक्तिधर्मयोः नाम्नामष्टोत्तरशतं पृथग्यत्र प्रकीर्तितम् ।।८४।।
महामुनिस्ततश्चक्रे जयन्त्या विधिमुत्तमम् । श्रीहरेर्यत्र पूजादि प्रोक्तं भक्तेप्सितार्थदम् ।।८५।।
ततश्च कृतकृत्योऽसौ हरिमेव स्मरन् हृदि । सिद्धदेहोऽचरद्बूमौ मुमुक्षुन् बोधयन् श्रितान् ।।८६।।
तिरोधानलीलामिमां यश्च लोके पठेद्वा हरेर्यश्च भक्त्या निशाम्येत् ।
कृतान्तस्य पाशाद्विमुक्तौ भवेतां धराधीश ! तावप्यमुष्य प्रतापात् ।।८७।।
उन्मूलितस्वकवृषध्रुगधर्मसर्गः सम्पोषिताखिलवृषान्वय आत्मतन्त्रः ।
आत्मीयभक्तजनकल्पमहीरुहाभो वृत्तालये स भगवान् जयतीह साक्षात् ।।८८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे भगवत्तिरोधानलीलानिरूपणनामाऽष्टषष्टितमोऽध्यायः ।।६८।।