एकोनसप्ततिमोऽध्यायः

श्रुत्वा श्रीहरिचरित्रं परमानन्दनिर्वृतः । प्रतारसिंहो नृपतिः पुनः पप्रच्छ सुव्रतम् ।।१।।


राजोवाच :-

नारायणचरित्राणि मुहुः श्रुतवतोऽपि मे । मनो न तृप्तिमाप्नोति शुश्रूषैव हि वर्धते ।।२।।

विधिर्हरिजयन्त्या यो यत्कार्यं तत्र तच्छ्रितैः । पुम्भिः स्त्रीभिश्च तत्सर्वं वक्तुमर्हसि मे मुने ! ।।३।।


सुव्रत उवाच :-

धन्योऽसि नृपते ! यस्त्वं हरेरेव कथां मुहुः । श्रोतुमिच्छसि भक्त्यैव नूतनामिव सादरम् ।।४।।

विधिं हरिजयन्त्यास्ते कथयाम्यखिलं नृप ! । भवेद्व्रतफलं सम्यग्यस्य संश्रवणादपि ।।५।।

आसीत्सुहर्षनगरे शिवगुप्ताभिधो महान् । वैश्यवर्यः सुधीर्दान्तः स्वधर्मनिरतः शुचिः ।।६।।

सर्वसम्पत्समृद्धोऽपि स आसीदप्रजो नृप ! । तत आसीदुदासीनः सचिन्तो भार्यया सह ।।७।।

येन येन यदुक्तं तत्स पुत्रार्थं व्रतादिकम् । यथाविधि चकाराथ देवोपयाचितान्यपि ।।८।।

तथाप्यलब्धतनयः प्रष्टुं कञ्चन सद्विदम् । तीर्थयात्रामिषेणासौ भ्रमति स्म धरातले ।।९।।

अप्राप्नुवन् दाम्भिकानां विश्वासं वचनेषु सः । ददर्श स्वातिसुहृदं ब्राह्मणं गोमतीतटे ।।१०।।

कृष्णभक्तं वेदशास्त्र निपुणं धर्मपालकम् । रामशर्माभिधं तं च नत्वा साश्रुरुपाविशत् ।।११।।

सोऽपि तं तादृशं दृा चिन्ताकृशतनुं विशम् । तदुदन्तमपृच्छत्तं यथावत् प्राह सोऽपि तम् ।।१२।।

तच्छ्रुत्वोवाच विप्रस्तं चिन्तां त्यक्त्वा स्थिरो भव । यद्वदामि तदेवाशु कुरु ते भविता सुतः ।।१३।।

व्रतं हरेर्जयन्त्यास्त्वं प्रीत्या कुरु यथाविधि । यदीप्सितं चतुर्वर्गे तत्तेनौवाशु सिद्धयति ।।१४।।


वैश्य उवाच :-

कोऽसौ हरिर्व्रतं तस्य विधिना केन वा मया । कर्तव्यं ब्रूहि तत्सर्वं विश्वास्योऽसि त्वमेव मे ।।१५।।


ब्राह्मण उवाच :-

अवतीर्णोऽभवत्साक्षात्कृष्ण एव धरातले । हरिरित्युदितो नाम्ना कृष्णो नारायणश्च सः ।।१६।।

हरिकृष्णो घनश्यामो नीलकंठश्च स स्मृतः । स्वामी च सहजानन्दः स्वामिनारायणस्तथा ।।१७।।

गुणकर्मानुरूपाणि बिभ्रन्नामान्यनेकशः । भूरिप्रतापश्चासीत्तत्कथयामि समासतः ।।१८।।

कोसलेषु भवतीह विश्रुतश्छुप्पया इति हि खेट उत्तमः ।
तत्र विप्रवर आस नामतो देव इत्यमलधीः सदा शुचिः ।।१९।।

धर्म एव सततस्थितेरसौ धर्म इत्यपि च विश्रुतोऽभवत् ।
भक्तिरित्यभिहिताऽस्य सुन्दरी कृष्णभक्तिनिरतत्वतः ।।२०।।

दम्पती सततमेकभावतः कृष्णमेव हृदि सन्तमीश्वरम् ।
दध्यतुर्विषयरागवर्जितौ धर्मशुद्धहृदयौ जितेन्द्रियौ ।।२१।।

कलिबलैधितभूरितरासुरैर्नृपतिदेशिकरूपधरैमुर्हुः ।
भुवि भृशं परितः समुपद्रुतावपि न तत्यजतुर्धृतिमात्मनः ।।२२।।

सकलभीतिभयङ्करविग्रहो निजसमाश्रितसौम्यनिरीक्षणः ।
तदवनं विदधे कुलदेवता निखिलकष्टततेर्हनुमानपि ।।२३।।

स्वधर्मभक्तिस्थितिदाढर्यमाप्तौ तौ विष्णुयागेन यथोदितेन ।
वृन्दावने कृष्णमनन्यभावौ प्रसादयामासतुरेव साक्षात् ।।२४।।

तयोः प्रसन्नो भगवानपीह कौलाद्यधर्मं भृशमासुरोत्थम् ।
जिहीर्षुराशु क्षितिदुःखहेतुं प्रादुर्बभूषुश्च बभूव ताभ्याम् ।।२५।।

धर्मप्रियोऽथाखिलदेवदेवो नारायणोऽसौ कृपया सुतत्वम् ।
प्रापत्तयोरेव हि कोसलेषु दिव्यां मनुष्याकृतिमेव बिभ्रत् ।।२६।।

ऋतौ वसन्ते मधुमासि शुक्लपक्षे नवम्यां विधुवासरे सः ।
सुरेज्यभे प्रादुरभून्निशायां द्वितीययामस्य तृतीयनाडयम् ।।२७।।

बभूव भूयो भुवि मङ्गलं तदा सतां च हर्षो हृदि धर्मसेविनाम् ।
भयं च भूर्येव हि धर्मविद्विषां गुरुक्षितीशेशवपुर्द्रुहां नृणाम् ।।२८।।

जातक्रियाद्या उपनायनान्तास्तत्संस्कृतीः साधु चकार धर्मः ।
हर्यादिनामा स च सर्वथैव तं प्रीणयामास च मातरं स्वाम् ।।२९।।

वैराग्यवेगोज्झितगेहसौख्यः स तीर्थयात्रां विदधद्धरायाम् ।
निजप्रतापातिशयेन धर्ममतिष्ठिपत्तद्रिपुमुत्खनंश्च ।।३०।।

स्वधर्मविज्ञानविरागयुक्तामेकान्तिकीं श्रीरमणस्य भक्तिम् ।
प्रावर्तयत्स्वाश्रितपुंसु भूमौ धर्मद्विषश्चुक्षुभुराशु तेन ।।३१।।

अधर्मसंस्थासुरदेशिकानां यूथानि भूयांसि च तत्र तत्र ।
धर्मद्रुहो भूपतयश्च शुष्कज्ञानाभिमाना अथ दम्भभक्ताः ।।३२।।

सद्धर्मसंस्थापनमञ्जसाऽस्य दृा तथैश्वर्यमलौकिकं ते ।
समत्सरास्तत्पदवीमशक्ता लब्धुं व्यधुर्द्रोहभरं तु चास्य ।।३३।।

ते दुर्जनास्त्वस्य कदर्थनोत्थपापेन भूम्नातिविमोहमापुः ।
सहस्रशः शस्त्रभृतश्च तत्र कृत्वा प्रहारं मिथ आपुरन्तम् ।।३४।।

जुगुप्सितं कर्म विधाय केचिन्नासाश्रुतिच्छेदखरावरोहान् ।
सम्प्राप्य भूपादिकृतान् विनेशुः केचिच्च नौकाजलमज्जनेन ।।३५।।

हरिद्रुहो भूपतयस्तु केचिद्रोगैः सपत्नैः कतिचिच्च नेशुः ।
हृतश्रियोऽन्ये बलिभिर्नृपाद्यैर्भृशं लभन्ते स्म च दुर्दशां वै ।।३६।।

एवंप्रतापो विचरन्स भूमावधर्मसर्गं भृशमुच्चखान ।
प्रवर्तयामास च धर्मसर्गं सुरामिषाशासुरभक्तलुप्तम् ।।३७।।

सद्यःसमाधिं भुवि मानवानां विधापयन्नात्मन इच्छयैव ।
विस्मापयामास स योगभाजस्तत्प्राप्तये भूरितरप्रयत्नान् ।।३८।।

अज्ञाततद्बूरितरप्रतापा अप्यत्र ये तं शरणं प्रपन्नाः ।
तानप्यवित्वा यमदूतदोर्भ्यो मुक्तिं ददावेष दयालुवर्यः ।।३९।।

मुमुक्षवः सुज्ञाजनास्तु तस्य दृा प्रतापातिशयं स्वमुक्त्यै ।
तदीयमेवाश्रयमाशु चक्रुः साक्षाद्विनिश्चित्य तमेव कृष्णम् ।।४०।।

केचित्तदीयाङ्घ्रिकरस्थचिह्नैस्तमैश्वरैर्निश्चितवन्त ईशम् ।
अनन्यसाध्येन समाधिनापि केचिच्च तं साहजिकेन सुज्ञा: ।।४१।।

सतामसाधारणधर्मनिष्ठामालोक्य केचिच्च तदाश्रितानाम् ।
शास्त्रोदितामप्यनवेश्रमाणा विदुस्तमीशं ननु लोकसत्सु ।।४२।।

ये दम्भभक्ताः स्वमतं सदोषं त्यक्त्वा न कृष्णाश्रयमाचरंस्तान् ।
ऐश्वर्यमाश्चर्यमलौकिकं स्वं प्रादर्शयद्योगकला वितन्वन् ।।४३।।

सहस्रशस्ते च विना प्रयत्नं सद्यः समाधिं हृदयेऽलभन्त ।
स्वस्वेष्टदेवं च विलोक्य तत्र तमेव तं चापुरतिप्रहर्षम् ।।४४।।

ते व्युत्थिता आत्मन इष्टदेवं तमेव निश्चित्य सचित्रमाशु ।
विधाय तस्याश्रयमात्ममुक्त्यै तद्वाचि तस्थुः स्वमतं विहाय ।।४५।।

ये शुष्कवेदान्तविदो नरास्तान् जित्वाशु वादेन स सप्रमाणम् ।
उपासनं ब्रह्मण एव साक्षाद्दिव्याकृतेर्ग्राहयति स्म भक्त्या ।।४६।।

तदाश्रयं ये विदधुश्च विप्रास्ते स्ननसन्ध्यामुखषट्क्रियाभिः ।
सहैव राधारमणस्य भक्तिं चक्रुः शमाद्यात्मगुणोपपन्नाः ।।४७।।

तदाश्रिता वर्णिजनाश्च सन्तो बृहद्व्रतं दुश्चरमष्टधैव ।
सम्पालयन्तोऽखिलसाधुधर्मा विलक्षणा लौकिकसद्भ्य आसन् ।।४८।।

अन्ये च वर्णाश्रमिणः स्वधर्मं नित्यं यथाशास्त्रमिहाचरन्तः ।
भेजुर्हरिं भक्तिभरेण हित्वा तस्य प्रतापादखिलान्स्वदोषान् ।।४९।।

प्रापुः श्रितास्तं सधवस्त्रियोऽत्र पतिव्रताधर्म उरुप्रतिष्ठाम् ।
स्वधर्मनिष्ठा विधवस्त्रियश्च सद्ब्रह्मचर्ये स्थितिमापुरग्रयाम् ।।५०।।

सम्भारभारैर्विपुलैः स शुद्धैश्चित्रावहान्भूमिभुजामपीह ।
महोत्सवान् कृष्णजनुर्दिनादौ चक्रेऽन्नकूटप्रमुखान्मुहुश्च ।।५१।।

यज्ञान्स वैश्योत्तम ! वैष्णवांश्च व्यधापयद्बूपतिचित्रकर्तन् ।
मासान्बहून्भोजयति स्म विप्रान्सहस्रशः साधुजनान्मुहुश्च ।।५२।।

महान्नसत्राणि च तत्र तत्र सोऽचीकरद्यात्रिकलोकतुष्टयै ।
यत्रागता भूरिसुखं यथेष्टं पान्था लभन्ते स्म जनाः सचित्रम् ।।५३।।

कूपांश्च वापीः स सरोवराणि सद्धर्मशाला अपि तत्र तत्र ।
व्यधापयज्जीवहिताय भूमौ सोपस्करा ब्रह्मपुरीरदाच्च ।।५४।।

उपानयद्विप्रकुमारकांश्च यथोपयुक्तं द्रविणं स दत्त्वा ।
सहस्रशः कारयति स्म कन्यादानानि विप्रैश्च यथाविधानम् ।।५५।।

कर्तुं न शक्तान्स्वऋणापहारं निजाश्रितान्कांश्चन धर्मनिष्ठान् ।
स उत्तमर्णेभ्य उरुप्रतापो दत्त्वा धनं मोचयति स्म सद्यः ।।५६।।

उपासनाग्निं कतिचित्स विप्रांस्त्रेतामपि ग्राहयति स्म विज्ञान् ।
देयं धनं च प्रतिवर्षमेभ्यो न्यबन्धयद्येन हि कर्मसिद्धिः ।।५७।।

गोभूहिरण्यादि च पर्वकाले दानं महद्विप्रवरेभ्य एषः ।
सदक्षिणं दापयति स्म भूयो यथाविधानं भुवि धर्मपोष्टा ।।५८।।

प्रादर्शयच्च स्वकभूरिभक्तान्स ब्रह्मगोलोकमुख्यानि भूमा ।
दिव्यानि धामानि निजानि भूयस्तत्तन्महैश्वर्ययुतानि चान्तः ।।५९।।

सहैव तत्तत्परिचारकाद्यैर्निजावतारानपि पूर्ववृत्तान् ।
प्रादर्शयत्तत्तदुपासकेभ्यः सोऽचिन्त्यशक्तिः कतिचिज्जनेभ्यः ।।६०।।

स जीवमायाबृहदीश्वराणां रूपाणि सच्छास्त्रविदां मतानि ।
निरूपयामास सभासु सम्यक् प्रादर्शयत्तानि च कांश्च शक्त्या ।।६१।।

भ्रष्टाः स्वराज्यात्कतिचिच्च भूपा हृतश्रियः शत्रुजनैर्बलिष्ठैः ।
तदाश्रयेणैव पुनः स्वऋद्धिं प्राप्याधिकत्वं खलु पूर्वतोऽगुः ।।६२।।

स्वेच्छानुरूपां पुरुषार्थसिद्धिं सकामभक्ताः किल तस्य चापुः ।
निष्कामभक्ता अपि भुक्तिमुक्ति तदिच्छयैवापुरनेकशोऽत्र ।।६३।।

भक्तिप्रवृत्तेर्भुवि भूरिकालं महान्ति कृष्णस्य स मन्दिराणि ।
व्यधापयद्यानि विलोक्य भूपा आश्चर्यमापुर्हृदयङ्गमानि ।।६४।।

निःसीमकारुण्यभरेण नणां निःश्रेयसाय स्वकधर्मवंशे ।
अतिष्ठिपद्धर्मधुरां स्वकीयां धास्यंस्तिरो मानुषनाटयमेषः ।।६५।।

एवंविधान्यद्बुतानि कर्माणीह समाचरन् ।
सर्वथाश्रयणीयोऽभूद्धरिः साक्षाज्जगग्दुरुः ।।६६।।

अधुनापि स भक्तेभ्यः स्वकीयेभ्यः क्वचित् क्वचित् ।
साक्षात्स्वदर्शनं दत्ते यथापूर्वं निजेच्छया ६७

देहावसानकाले तु स्वभक्तेभ्यः स सर्वशः ।
दत्वा स्वदर्शनं दत्ते भुक्तिमेव यमादवन् ।।६८।।

तस्य जन्मदिने कार्यः सोपवासो महोत्सवः ।
वाञ्छितं तेन सिद्धयतीत्यनुभूयते ।।६९।।

व्रतेनानेन निष्कामस्त्यागवानपि पूरुषः ।
ज्ञानवैराग्यसंसिद्धिं भक्तिपुष्टिमुपैति च ।।७०।।

धर्मार्थी लभते धर्मं कामान् सर्वांश्च कामुकः ।
धनं धनार्थी लभते मोक्षार्थी मोक्षमीप्सितम् ।।७१।।

भार्यार्थी लभते भार्यां पुत्रार्थी पुत्रमुत्तमम् ।
तस्मादेतद्व्रतं कार्यं नवम्यां चैत्रिके सिते ।।७२।।

अष्टमीवेधरहिता शुक्लैषा नवमी मधोः ।
सूर्योदयस्थ व्रतिभिर्ग्राह्या चोपोषणे तिथिः ।।७३।।

शुद्धाधिका यदा चैषा विद्धा वाऽपि क्षयं गता ।
भवेत्तदा तु पूर्वैव ग्रहीतव्या व्रते तिथिः ।।७४।।

यदा पूर्वदिने ह्येव रजन्यामश्विनीक्षणे ।
नवमीचन्द्रपुष्याणां योगः स्यान्न परत्र सः ।।७५।।

तदा तु विद्धाप्यष्टम्या सैव ग्राह्या व्रतोत्सवे ।
नवमी तादृशो योगो यतो यतोऽभूद्धरिजन्मनि ।।७६।।

चातुर्वर्ण्यस्याधिकारो भवत्यत्र सयोषितः ।
तस्मात्पुम्भिश्च नारीभिः कार्यमेतद्व्रतं हरेः ।।७७।।

सर्वथैव विधातव्य उपवासोऽत्र तच्छ्रितैः ।
तत्पूजा महती कार्या रात्रौ जागरणं च तैः ।।७८।।

मिताहारो नरोऽष्टम्यां नवम्यामरुणोदये ।
उत्थाय चिन्तयन् कृष्णं देहशुद्धिं समाचरेत् ।।७९।।

अपां द्वादश गण्डूषाः कर्तव्या मुखशुद्धये ।
न दन्तधावनं कार्यं काष्ठेन व्रतवासरे ।।८०।।

कृत्वा स्ननादि कर्माथ हरिं नत्वा तदग्रतः ।
मन्त्रेणानेन नियमं गृीयाद्व्रतकृन्नरः ।।८१।।

अहोरात्रं निराहारो भवाम्यद्य जगत्पते ! ।
श्वो भोक्षये व्रतमेतन्मे पालनीयं त्वया हरे ! ।।८२।।

एवं गृहीत्वा नियमं नित्यकर्म समापयेत् ।
न व्यावहारिकं कर्म व्रती कुर्वीत तद्दिने ।।८३।।

तदेव कर्म कर्तव्यं कृष्णसम्बन्धि यद्बवेत् ।
ब्रह्मचर्यं पालनीयं त्याज्यः क्रोधस्तु सर्वथा ।।८४।।

स्त्रीणा निरीक्षणात्स्पर्शात्ताभिः सङ्कथनादपि ।
भ्रश्यति ब्रह्मचर्यं वै स्वभार्यायास्तु सङ्गतः ।।८५।।

दिवा निद्रा च ताम्बूलमेकोऽप्यन्नकणोऽशितः ।
उपवासं निहन्त्येव जलपानं मुहुस्तथा ।।८६।।

स्त्रीभिः शोको न कार्योऽत्र रोदनं सूत्रकर्तनम् ।
भूरिवस्त्रक्षालनं च सीवनं कलहस्तथा ।।८७।।

निजशक्त्यनुसारेण व्रती संसाधयेद्दिवा ।
पूजोपहारान्सकलान् निशि सम्पूजयेद्धरिम् ।।८८।।

तत्र कार्यः शुचौ देशे मण्डपश्च सुशोभनः ।
रम्भास्तम्भैः सुवस्त्रैश्च पुष्पाशोकाम्रपल्लवैः ।।८९।।

रङ्गवल्लीशोभितेऽथ तन्मध्ये पीठ उत्तमे । 
पञ्चवर्णैर्विरचिते तण्डुलैर्मण्डले शुभे ।।९०।।

सर्वत्रोभद्रसंज्ञो वा तण्डुलाष्टदले व्रती ।
अव्रणं ताम्रकलशं स्थापयेदम्बुना भृतम् ।।९१।।

पञ्चरत्नाद्युपेतेऽस्मिंस्ताम्रपात्रे सदासने ।
स्थापयेत्प्रतिमां हैमीं यथाशक्ति कृतां हरेः ।।९२।।

भक्तिधर्मयुतस्यास्य हरिकृष्णस्य यत्र तु ।
प्रतिमा स्यात्स्थिरा वापि मन्दिरे चञ्चला तु सा ।।९३।।

तस्या एवार्चनं तत्र व्रती कुर्याद्यथाविधि ।
अन्यत्र हैमी कर्तव्या तन्मूर्तिः पूजनाय तु ।।९४।।

स्थाप्याऽस्य दक्षिणे भक्तिर्वामे धर्मस्तथाविधः ।
प्रत्यक् सङ्कर्षणश्चास्य स्थाप्यश्छत्रं दधत्करे ।।९५

प्रद्युम्नश्चानिरुद्धोऽग्रे धर्मभक्त्योः सचामरौ ।
स्थाप्यौ हरेरग्रतश्च स्थितो रौप्यस्तथोद्धवः ।।९६।।

धर्माद्युपेतस्य हरेर्महापूजां ततो व्रती ।
विधाय जागरं कुर्यात्तत्कथाश्रवणादिभिः ।।९७।।

अशक्त उपवासे तु पूजनान्ते हरेर्निशि ।
किञ्चित्कुर्यात् फलाहारं पिबेद्वा कुडवं पयः ।।९८।।

प्रातः कृत्वा पुनः पूजां कुर्यात्तस्य विसर्जनम् ।
विप्राय प्रतिमां दत्त्वा सतो विप्रांश्च भोजयेत् ।।९९।।

ततश्च स्वजनैः साकं व्रती कुर्वीत पारणाम् ।
एवं कृते व्रते सर्वे सफलाः स्युर्मनोरथाः ।।१००।।

पूजनादावशक्तस्तु हरिमन्यसमर्चितम् ।
भक्त्यैव प्रणमेद्दृा तद्बक्तांश्च सतः पुमान् ।।१०१।।

तावता पूजनस्यासौ प्राप्नुयात्फलमञ्जसा ।
एतद्व्रतं सर्वथाऽतः कर्तव्यं सकलैर्नरैः ।।१०२।।

प्रतिवर्षं विधातव्यं यावज्जीवमिदं व्रतम् ।
स्त्रीभिश्च पुरुषैः सर्वैर्बालवृद्धातुरान्विना ।।१०३।।

यदा स्वस्यानुकूल्यं स्यात्तदोद्यापनमस्य च ।
यथाशक्ति विधातव्यं तेन पूर्णं व्रतं भवेत् ।।१०४।।


सुव्रत उवाच :-

एवमुक्तः स विप्रेण वैश्योऽभूद्धृष्टमानसः ।
व्रतं चिकीर्षुः पप्रच्छ विधिमुद्यापनस्य तम् ।।१०५।।


वैश्य उवाच :-

उद्यापनविधिं ब्रूहि व्रतस्यास्य द्विजोत्तम !
सम्पूर्णफलदं येन तद्बवेद्व्रतचारिणाम् ।।१०६।।


ब्राह्मण उवाच :-

उद्यापनं विना नैव व्रतं स्यात्फलदं ततः ।
कर्तव्यं तद्यथाशक्ति वित्तशाठयं न कारयेत् ।।१०७।।

प्रतिमासं नवम्यां तु व्रतं कृत्वा यथाविधि ।
कार्यमुद्यापनं तस्य देशकालानुसारतः ।।१०८।।

अथवोद्यापनं कृत्वा तत आरभ्य च व्रती ।
प्रतिमासं व्रतं कुर्याद्वर्षमेकं समाहितः ।।१०९।।

गुरुशुक्रास्तरहिते मलमासविवर्जिते ।
मधौ शुक्लनवम्यां तदित्थमुद्यापनं चरेत् ।।११०।।

विवाहादौ यथा नणां भवत्युत्साह आदरात् ।
तथैवात्रापि कर्तव्य उत्साहश्च यथाधनम् ।।१११।।

देशान्तरे भवेयुर्ये निजसम्बन्धिनो जनाः ।
मित्राणि हरिभक्ताश्च पत्रैस्तांश्च समाह्वयेत् ।।११२।।

मधोः शुक्लप्रतिपद आरभ्यायं महोत्सवः ।
यथाधनं यथाशक्ति कर्तव्यो व्रतचारिभिः ।।११३।।

पालनीयं ब्रह्मचर्यं कथा श्रव्यान्वहं हरेः ।
तदीयगुणपद्यानि गातव्यानि च भक्तितः ।।११४।।

हरेर्भक्ता ब्राह्मणाश्च साधवो ब्रह्मचारिणः ।
नित्यं चन्दनपुष्पाद्यैः पूज्या भोज्याश्च शक्तितः ।।११५।।

विधिज्ञां ब्राह्मणं पृा प्रागष्टम्यां सुसाधयेत् ।
उपहारान् यथावित्तं हरिकृष्णार्चनोचितान् ।।११६।।

कृत्वाह्निकं नवम्यां च सर्वतोभद्रमण्डलम् ।
शोभनं कारयेद्विप्रैर्मण्डपे निर्मिते शुभे ।।११७।।

चतुर्भिः कदलीस्तम्भैराम्राशोकादिपल्लवैः ।
पुष्पैः फलैश्च सद्वस्त्रैः शोभयेत्तं च दर्पणैः ।।११८।।

ताम्रान्वा मृन्मयानष्टौ कलशानष्टदिक्षु च । 
स्थापयेन्मध्यदेशे तु ताम्रजं चाव्रणं घटम् ।।११९।।

पूगीफलं ताम्रमुद्रा तण्डुला लड्डुकस्तथा ।
पृथक्पृथग्निधेयाश्च कलशेषु ततोऽष्टसु ।।१२०।।

स्थालवद्वेणुपात्राणि तेष्वष्ट स्थापयेत्ततः ।
नालिकेरं पृथक्तेषु द्वे द्वे वस्त्रे सिते पुमान् ।।१२१।।

मध्यमं ताम्रकलशं जलेनापूर्य तत्र च ।
फलं सरत्नं निक्षिप्य ताम्रपात्रं पिधापयेत् ।।१२२।।

मृदुवस्त्रासने तत्र सौवर्णीं प्रतिमां हरेः ।
यथाशक्ति कृतां धर्माद्युपेतां स्थापयेत्ततः ।।१२३।।

यथाविधि महापूजां कुर्यान्निशि महोत्सवम् ।
महाभिषेकं च महानैवेद्यं तत्र कारयेत् ।।१२४।।

पूजाविधिं समाप्याथ हरेस्तच्छ्रवणादिभिः ।
विधाय जागरं प्रातः पुनः पूजां समाचरेत् ।।१२५।।

होममष्टोत्तरशतं मन्त्रेणाष्टाक्षरेण च ।
तिलाज्यपायसद्रव्यैस्ततोऽर्चेद्वर्णिनो द्विजान् ।।१२६।।

धेनुं पयस्विनीं दद्यात्पात्रविप्राय सादरात् ।
हेमशृङ्गी रूप्यखुरां ताम्रपृष्ठीं सुलक्षणाम् ।।१२७।।

धेनो पात्रस्य चालाभे स्वस्याशक्तौ च वा पुमान् ।
दद्यात्तन्निष्क्रयद्रव्यं कुर्याद्वापि जपादिकम् ।।१२८

तिलपात्रं चाज्यपात्रं दद्यात्स्वर्णं च शक्तितः ।
अन्नवस्त्राद्यष्टविधं पदं देयं द्विजाय च ।।१२९।।

शय्यादानं ततः कुर्यात्तदशक्तः सुखासनम् ।
दद्यात्ततश्च वस्त्राणि दम्पत्योरुचितानि सः ।।१३०।।

कौशेयानि तानि दद्यात्कार्पासान्यथवाऽधनः ।
मिश्राणि वा ततः कुर्यात्साङ्गदेवविसर्जनम् ।।१३१।।

वर्णिभ्यो वान्यविप्रेभ्यो दद्यादष्टौ घटांश्च तान् ।
प्रतिमासहितं कुम्भं मध्यमं गुरवेऽर्पयेत् ।।१३२।।

भूयसीं दक्षिणां दत्त्वा साधून्विप्रांश्च भूरिशः ।
भोजयेदल्पवित्तस्तु विंशतिं द्वादशापि वा ।।१३३।।

नवम्या निश आरभ्य पालनान्दोलनोत्सवः ।
कृष्णद्वितीयापर्यन्तं वीक्ष्यश्च व्रतचारिभिः ।।१३४।।

एवं कृते विधाने तु व्रतं सम्पूर्णतामियात् ।
मनोरथाश्च सफलास्तेन स्युर्व्रतचारिणाम् ।।१३५।।

कुरु व्रतं त्वमप्येतन्मित्रत्वाद्वच्मि ते हितम् ।
इह पुत्रफलं प्राप्य तेन मुक्तिं च यास्यसि ।।१३६


सुव्रत उवाच :-

इत्युक्तः स सुधीर्वैश्यो निश्चित्य हरिमीश्वरम् ।
विश्वस्तो विप्रवचने तं प्रपन्नोऽभवद्दृढम् ।।१३७

गृहमेत्य सभार्योऽथ व्रतं चक्रे यथाविधि ।
कालेनाल्पेन सत्पुत्रं प्रसादात्प्राप स प्रभोः ।।१३८

ततोऽन्ये बहवो भक्ताः स्वस्वकार्यस्य सिद्धये ।
व्रतमेतद्विधायापुर्वाञ्छितं सकलं फलम् ।।१३९

इति प्रोक्तो मया भूप ! जयन्तीविधिरुत्तमः ।
हरिकृष्णस्य भक्तानां वाञ्छितोऽभीष्टसिद्धिदः ।।१४०

भक्त्या पुमान् यः शृणुयाज्जयन्त्या विधिं हरेर्यः परिकीर्तयेद्वा ।
तौ प्राप्नुयातां हि फलं व्रतस्य हरेः प्रसादात्स्वमभीप्सितं च ।।१४१।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे श्रीहरिजयन्तीव्रतविधिनिरूपणनामैकोनसप्ततितमोऽध्यायः ।।६९।।