सुव्रत उवाच :-
नारायणस्य चरितमिति ते मङ्गलप्रदम् । भवत्प्रश्ननुसारेण क्रमेण कथितं नृप ! ।।१।।
तत्रादितस्ते कथितो हिमाद्रौ बदरीवने । समागमो महर्षीणां नरनारायणेन च ।।२।।
धर्मस्यापि स्त्रिया तत्रागमनं च ततः परमे । शापाद्दुर्वाससो नृत्वमेतेषां कथितं नृप ! ।।३।।
उद्धवस्य च धर्मस्य मूर्तेश्च जननं भुवि । ऋषीणां चापि कथितं धर्मोद्वाहस्ततः परम् ।।४।।
असुरोपद्रुतस्याथ धर्मस्य सह योषितः । रामानन्दस्वामिगुरोः समाश्रय उदीरितः ।।५।।
पुनर्दौत्यांशभूपाद्यैः क्लेशितस्य वृषस्य च । हनूमदाज्ञाया प्रोक्तो गेहाद्वृन्दावनागमः ।।६।।
विष्णुयागाराधितस्य श्रीकृष्णस्येक्षणादि च । धर्मस्य शापश्चारण्ये द्रौणेः प्रोक्तस्ततः परम् ।।७।।
शापश्च विन्ध्यवासिन्या आसुराणामुदीरितः । प्रादुर्भावोत्सवः प्रोक्तस्ततो धर्मगृहे हरेः ।।८।।
तन्नामकर्म चौलं च कालीदत्तोपमर्दनम् । पौगण्डलीलाऽयोध्यायां हरेश्च व्रतबन्धनम् ।।९।।
हरिगीता ततो भक्तिधर्मदिव्यगतिस्तथा । ततो हरेः प्रव्रज्या च भैरवीयपराजयः ।।१०।।
पुलहाश्रम उक्तं च भास्करस्य प्रसादनम् । योगाभ्यासः पिबैकादिमहाशाक्तपराजयः ।।११।।
तत उत्कलदेशीयासुरसङ्धपराभवः । तीर्थयात्रा हरेश्चोक्ता पार्वतीशङ्करेक्षणम् ।।१२।।
प्रोक्तस्ततो लोजपुर औद्धवीयसमागमः । रामानन्दस्वामिनोऽथ दर्शनं चास्य शिष्यता ।।१३।।
हरेर्गुरुत्वस्वीकारो दिव्यभावप्रदर्शनम् । पराजयो मेघजितः स्वप्रतापप्रदर्शनम् ।।१४।।
प्रादुष्कारः समाधीनां कृष्णरूपप्रदर्शनम् । नारायणस्य गीतोक्ता लोभादीनां च दुष्टता ।।१५।।
अहिंस्रधर्मस्य भुवि स्थापनं हरिणा कृतम् । प्रोक्तस्ततश्च संवादः खट्वाङ्गाभयभूभुजोः ।।१६।।
अभयस्य प्रार्थनया हरेर्दुर्गपुरागमः । गवेन्द्रभूमिपालाय वरदानमथोदितम् ।।१७।।
उद्धवाध्वप्रकटनं नानाग्रामपुरेष्वथ । हरेर्विचरणं तत्र धर्मस्थापनमञ्जसा ।।१८।।
नानायज्ञाविधानं च कौलादिमतखण्डनम् । हरेर्दिग्विजयः प्रोक्तो निवासो दुर्गपत्तने ।।१९।।
भक्त्युत्कर्षश्चोत्तमादेर्हरिसेवाव्यवस्थितेः । सविस्तरं ततः प्रोक्तो ह्यन्नकूटमहोत्सवः ।।२०।।
ततः सभास्वनुदिनं भक्तसङ्घानुरञ्जनम् । प्रकाशनं च सत्सङ्गदीपस्य हरिणा कृतम् ।।२१।।
धर्मरक्षा ततः स्पर्शविवेकस्तेन कीर्तितः । धर्मसिद्धिश्च निष्कामशुद्धिश्चोक्तं सदाह्निकम् ।।२२।।
कृष्णस्वरूपाद्वैतं च कृष्णमन्त्रजपे विधिः । एकादशीविधानां च प्रबोधन्युत्सवो महान् ।।२३।।
वृत्तालयपुरेऽथोक्तः पुष्पदोलोत्सवो महान् । पुराणश्रवणस्याथ विधिः सर्वो निरूपितः ।।२४।।
श्रीमद्बागवतस्योक्तं माहात्म्यं तु विशेषतः । जन्माष्टम्युत्सवः प्रोक्तस्ततः सारङ्गपत्तने ।।२५।।
नागटङ्कपुरे यानं ततः प्रोक्तं हरेर्नृप ! । पञ्चाले गमनं तत्र प्रोक्तः श्रुत्यर्थनिर्णयः ।।२६।।
ततः श्रीनगरे प्रोक्ता नरनारायणस्य च । प्रतिष्ठा विधिवत्प्रोक्ता भुजङ्गनगरे च सा ।।२७।।
वृत्तालये प्रतिष्ठोक्ता लक्ष्मीनारायणस्य च । आगमो द्वारिकेशस्य तत्र चोक्तस्ततः परम् ।।२८।।
ततस्त्रियुगशब्दार्थनिर्णयश्च निरूपितः । स्वीकारः पुत्रयोश्चोक्तो गुरुत्वे स्थापनं तयोः ।।२९।।
वटपत्तन उक्तं च सहर्षेर्गमनं हरेः । सिंहजिद्बूपसन्मानः शिक्षापत्र्याश्च लेखनम् ।।३०।।
दोलोत्सवः श्रीनगरे भाल्लदेशागमो हरेः । राधाकृष्णस्य धौरेयनगरे स्थापनं ततः ।।३१।।
दीक्षाविधेश्चोपदेशस्तस्य भूमौ प्रवर्तनम् । व्रतोत्सवानां च विधिः साधुधर्मानुशासनम् ।।३२।।
ज्ञानोपदेशश्च ततः सांख्यशास्त्रार्थनिश्चयः । ततो धर्मोपदेशश्च कथितस्ते नराधिप ! ।।३३।।
वर्णानामाश्रमाणां त तद्बाह्यानां च सर्वशः । स्त्रीणां च कथिता धर्मा हरिणा तत्र विस्तरात् ।।३४।।
महतां च लघूनां च सर्वेषामेनसां तथा । प्रायश्चित्तविधानं च कृच्छ्राणां लक्षणानि च ।।३५।।
जीर्णदुर्गे प्रतिष्ठोक्ता द्वारिकाधीश्वस्य च । ततो धर्माश्च कथिता नैष्ठिकब्रह्मचारिणाम् ।।३६।।
गोपीनाथस्य च ततः प्रतिष्ठा दुर्गपत्तने । साङ्गयोगस्योपदेशो योगशास्त्रार्थसङ्ग्रहः ।।३७।।
वरदानं ततः प्रोक्तं शतानन्दमहर्षये सत्सङ्गीजीवनस्याथ तेनैव च विधापनम् ।।३८।।
स्वीयाविर्भावहेतोश्च विचारो भक्तबोधनम् । हरेरन्तर्धिलीलोक्ता जयन्त्याश्च विधिस्ततः ।।३९।।
एवं मया ते नृपते ! हरेश्चरितमद्बुतम् । उक्तं क्रमेण सकलं यथा पृष्टं त्वया तथा ।।४०।।
सत्सङ्गिजीवनमिदं शास्त्रं परमपावनम् । शतानन्दो मुनिः कृत्वा मामपाठयदञ्जसा ।।४१।।
मया ते कथितं सर्वं प्रीत्या शुश्रूषवे नृप ! । वेदशास्त्रपुराणानां साररूपमिदं परम् ।।४२।।
सन्तं तमीशं भुवि संश्रिता ये सत्सङ्गिनस्ते कथिता हि तेषाम् ।
भवत्यदो जीवनमेव यस्मात्तत्सर्वथा सेव्यमिदं सदा तैः ।।४३।।
एतस्य पाठनादेव वेदादेः पाठजं फलम् । द्विजन्मा प्राप्नुयान्नूनं सर्वयज्ञाफलं तथा ।।४४।।
चातुर्वर्ण्यो नरः स्त्री वा श्रुत्वैतत् परमादरात् । इह लोके परे वापि प्राप्नुयात्सुखमीप्सितम् ।।४५।।
ब्राह्मणः प्राप्नुयाद्बुद्धिमाधिपत्यं च बाहुजः । सम्पदं श्रवणादस्य वैश्यः शूद्रस्तथा सुखम् ।।४६।।
येन येन च कामेन पठेद्वा शृणुयादिदम् । तं तमाप्नोति पुरुषो निष्कामो भक्तिमुत्तमाम् ।।४७।।
पुरश्चरणमेतस्य ये करिष्यन्ति च द्विजाः । सर्वे मनोरथास्तेषां सिद्धिमाप्स्यन्ति निश्चितम् ।।४८।।
धर्मं ज्ञानं च वैराग्यं भक्तिं वा ये बुभुत्सवः । नराः स्युस्तैरयं ग्रन्थः सेवनीयः प्रयत्नतः ।।४९।।
येषां निःश्रेयसेच्छा स्यात्तैरयं तु विशेषतः । श्रोतव्यः पठनीयश्च ग्रन्थोऽभीष्टफलप्रदः ।।५०।।
एतज्ज्ञानवतां पुंसां ज्ञोयं किञ्चिन्न शिष्यते । तस्मात्सर्वप्रयत्नेन सेव्योऽयं स्वहितार्थिभिः ।।५१।।
नारायणाय मुनये कृष्णाय हरये नमः । शतानन्दाय गुरवे तद्बक्ताय नमोनमः ।।५२।।
इति राजा सुव्रतेन मुनिवर्येण कीर्तितम् । नारायणस्य चरितं स श्रुत्वा मुदितोऽब्रवीत् ।।५३।।
धन्योऽहं मुनिशार्दुल ! सफलं मे नृजन्म च । समागमेन भवतो जातमेव न संशयः ।।५४।।
नारायणचरित्राणि श्रुत्वानन्दो महान् हृदि । महामुनेऽद्य जातो मे वक्तुं शक्नोमि तं न हि ।।५५।।
त्वं तु धन्योऽसि येनेह साक्षात्संसेवितो हरिः । वशीकृतः स भक्त्या च कृपापात्रं तथाऽस्य च ।।५६
सतां परोपकारित्वमस्ति स्वाभाविकं मुने ! । अस्मादृशां हि बोधाय चरसि त्वं धरातले ।।५७।।
अहं च तव शिष्योऽस्मि त्वामेव शरणं गतः । कुरु मेऽनुग्रहं येन साक्षादीक्षेय तं प्रभुम् ।।५८।।
इति प्रतापसिंहेन सोऽर्थितो मुनिराह तम् । यथाश्रुतं हरिं राजन् ! ध्याय दास्यति दर्शनम् ।।५९।।
ग्रन्थमेतं तु ये प्रीत्या शृणुयुस्तेभ्य ईश्वरः । दद्यात्स्वदर्शनं चेति शतानन्द उवाच माम् ।।६०।।
ततः स भूपतिर्नत्वा सुव्रतं सुस्थिरासनः । यथाश्रुतिं हरिं दध्यौ हृदये दृढनिश्चयः ।।६१।।
अपरोक्षानुभूतेर्हि गुरोस्तस्य प्रसादतः । तच्छास्त्रश्रुतिपुण्याच्च स ददर्श हरिं हृदि ।।६२।।
तेजःपुञ्जान्तरे साक्षात्कोटिकन्दर्पसुन्दरम् । समर्च्यमानं भक्तैस्तं दृा लेभे मुदं पराम् ।।६३।।
व्युत्थितोऽथ मुनिं नत्वा प्रसन्नः प्राह भूपतिः कृतार्थोऽहं हि जातोऽस्मि प्रसादात्तव निश्चितम् ।।६४
नृपं प्राह मुनी राजन्नित्थं ध्यायाः सदा हरिम् । स्वधर्मस्थो भजेस्तं च लप्स्यसे तत्पदं परम् ।।६५।।
अत्रैव पावने क्षेत्रे निवसंस्तं भजेः सदा । इत्युक्त्वा प्रणतो राज्ञा ययौ क्षेत्रान्तरं मुनिः ।।६६।।
राजापि तत्र निवसन् भजन्प्रेम्णा हरिं सदा । कालेनाल्पेन गोलोकं तद्धाम परमं ययौ ।।६७।।
श्रवणं मङ्गलं यस्य कीर्तनं यस्य मङ्गलम् । स्मरणं मङ्गलं यस्य स हरिर्मङ्गलं क्रियात् ।।६८।।
अधर्मसर्गोत्खननस्य कर्ता धर्मान्वयस्याधिकपुष्टिकर्ता ।
स प्रीयतां मेऽखिलपापहर्ता हरिः स्वभक्तैः सह दुःखहर्ता ।।६९।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे ग्रन्थानुक्रमणिकानिरूपणनामा सप्ततितमोऽध्यायः ।।७०।।
।। समाप्तं पञ्चमप्रकरणम् ।।
।। समाप्तं सत्सङ्गिजीवनशास्त्रम् ।।