नवमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


शनैःशनैः सञ्चिनुयाद्धर्मं वल्मीकशृङ्गवत् । परपीडामकुर्वाणः परलोकसहायिनम् ।।१।।

धर्म एव सहायी स्यादमुत्र न परिच्छदः । पितृमातृसुतभ्रातृयोषिद्बन्धुजनादिकम् ।।२।।

देहे पञ्चत्वमापन्ने दग्ध्वा तं च सुतादयः । बान्धवा विमुखा यान्ति धर्मस्तमनुगच्छति ।।३।।

कामश्चेद्रक्षणीयः स्यात्कुतो दग्धः शिवेन सः । रक्ष्योऽर्थश्चेदरक्षन् किं हरिश्चन्द्रादयो न तम् ।।४।।

धर्मस्तु रक्षितः सर्वैरपि देहव्ययेन च । पुरातनैर्नृपतिभिर्दधीच्याद्यैस्तथर्षिभिः ।।५।।

धर्मेणैव हरिः प्रीतो भवत्याशु जगत्पतिः । ब्रह्माण्डमखिलं चैतद्धर्मेणैव धृतं किल ।।६।।

त्रिवर्गेऽपि गुणैर्ज्येष्ठो धर्मो ह्यर्थस्तु मध्यमः । कामो यवीयानुदितस्तस्माद्धर्मं समाश्रयेत् ।।७।।

धर्माविरुद्धः सेव्योऽर्थः कामोऽपि च तथाविधः । तस्यैश्वर्याणि धर्मस्य दश प्रोक्तानि सूरिभिः ।।८

तपो दानं क्षमा श्रद्धा भावशुद्धिर्बहुश्रुतम् । यज्ञाक्रिया दया सत्य संयमश्चेति सन्मते ! ।।९।।

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः । धर्मेणैवैधिरे देवाः सेव्यो धर्मस्ततो मतः ।।१०।।

तस्माद्धर्मपरो भूत्वा गृही पञ्च महामखान् । कुर्यान्नित्यं पञ्चसूनादोषनाशार्थमादृतः ।।११।।

कण्डनी पेषणी चुल्ली ह्युदकुम्भी च मार्जनी । पञ्चसूना गृहस्थस्य कथ्यन्ते पापहेतवः ।।१२।।

तद्दोषपरिहारार्थं कार्याः पञ्च महामखाः । ग्रस्तोऽन्यथा तु तैः पापैर्नरकान्प्राप्नुयाग्दृही ।।१३।।

दैवश्च भौतिकः पैत्रो ब्राह्मो मानुष इत्यमी । प्रोक्ताः पञ्च महायज्ञा: सर्वदोषापहारकाः ।।१४।।

शालाग्नौ साग्निकोऽनग्निः पचनाग्नौ यथाविधि । देवताभ्यो हविर्दद्याद्देवयज्ञाः स उच्यते ।।१५।।

जले वा भुवि होतव्यमग्न्यभावे द्विजन्मना । अन्नाभावे तु शाकाद्यैरपि दैवं समाचरेत् ।।१६।।

हुतशेषेण चान्नेन संस्कृते भूतले बलीन् । भूतेभ्य आहरेन्नित्यं भूतयज्ञाः स चोच्यते ।।१७।।

स्वाध्यायो ब्रह्मयज्ञाः स्यात्स चेत्प्राक्तर्पणान्न हि । कृतस्तदा तु कुर्वीत यथाशक्ति तदैव तम् ।।१८।।

प्रातश्चेत्सङ्गवादूर्ध्वमन्ते वा नित्यकर्मणाम् । अथवा वैश्वदेवान्ते ब्रह्मयज्ञास्त्रिधा मतः ।।१९।।

आवर्तनेऽवगाह्यापः कुशपाणिस्तु बह्वृचः । ब्रह्मयज्ञां प्रकुर्वीत सन्ध्यां माध्याह्निकीं ततः ।।२०।।

स्ननं कृत्वा तु मध्याह्ने द्विजः सन्ध्यामुपास्य च । ब्रह्मयज्ञां ततः कृत्वा तर्पयेत्तैत्तिरीयकः ।।२१।।

स्ववेदसंहिताध्यायं सूक्तं वा पौरुषं पठेत् । श्रीसूक्तयुक्तं वाशक्तः स्तोत्रमार्षं रमापतेः ।।२२।।

वेदादिपाठासामर्थ्ये स्वाध्यायार्थं सकृज्जपेत् । द्विजः सप्रणवां भक्त्या गायत्रीं निगमात्मिकाम् ।।२३

पित्रुद्देशेन सततमेकं विप्रं तु भोजयेत् । अशक्तो भुवि पिण्डं वा दध्यात्पितृमखस्तु सः ।।२४।।

गोभ्यः श्वभ्यश्च काकेभ्यः क्षुद्रजीवेभ्य आहरेत् । किञ्चिदन्नं ततो द्वारि प्रतीक्षेतातिथिं स्थितः ।।२५

वृद्धं बालं युवानं वा मुर्खं वा पण्डितं नरम् । वैश्वदेवान्तसम्प्राप्तं मन्येतातिथिमच्युतम् ।।२६।।

हन्तकारमथाग्रे वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं मानुषो यज्ञा इत्यसौ ।।२७।।

ग्रासमात्रं भवेद्बिक्षा तासामग्रं चतुष्टयम् । अग्राणि चापि चत्वारि हन्तकारोऽभिधीयते ।।२८।।

अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च । सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा ।।२९।।

न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम् । तत्कालायातमज्ञातनामगोत्रं हि तं विदुः ।।३०।।

न पृच्छेग्दोत्रचारित्रं न स्वाध्यायं च पण्डितः । शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।।३१।।

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते । तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येग्दृहाश्रमी ।।३२।।

अध्वगः क्षीणवृत्तिश्च विद्यार्थी च विरागवान् । यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः ।।३३।।

यतिर्व्रत्यग्निहोत्री च यश्चात्र मखकृद्द्विजः । सदैतेऽतिथयः प्रोक्ता अपूर्वाश्च दिने दिने ।।३४।।

तेभ्यो न दत्त्वा पुरुषो योऽन्नं भुङ्क्ते गृहाश्रमी । स पापं केवलं भुङ्क्ते पुरीषं चान्यजन्मनि ।।३५।।

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।।३६।।

अप्यम्बुना वा शाकेन यच्च वाऽश्नति स स्वयम् । तेनैव पूजयेच्छक्त्या गृहस्थोऽतिथिमादरात् ।।३७

अन्नाच्छादनदानेषु पात्रं नैव विचारयेत् । अन्नस्य क्षुधितः पात्रं विवस्त्रो वसनस्य च ।।३८।।

इत्येष पञ्चयज्ञानां विधिः सेपतो मया । प्रोक्तो गृहस्थाश्रमिणा योऽनुष्ठेयो हि सर्वथा ।।३९।।

अकृत्वा यो द्विजो मोहान्नित्यं पञ्चमहामखान् । भुञ्जीत चेत्स मूढात्मा तिर्यग्योनिं प्रपद्यते ।।४०।।

स पञ्चसूनाजनितेन भूम्ना दोषेण लिप्तो यमयातनाश्च ।
हित्वा नृदेहं लभते द्विजन्मा सुधीस्ततस्तान्विदधीत नित्यम् ।।४१।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे गृहस्थधर्मेषु स्मार्तकर्मविधिनिरूपणनामा नवमोऽध्यायः ।।९।।