सुव्रत उवाच
आरम्भिते मन्दिरेऽथकृष्णार्चास्थापनोचिते । जाते राजोत्तमो नत्वा हरिं प्रोवाच भूपते ! ।।१।।
भगवन्मन्दिरं ह्येतच्छ्रीकृष्णस्थापनोचितम् । जातं ततः प्रतिष्ठां त्वं कुरु कृष्णस्य सुक्षणे ।।२।।
श्रुत्वेति नृपतेर्वाक्यं हृष्टो ज्योतिर्विदं हरिः । पप्रच्छ रामचन्द्राख्यं कृष्णस्थापनसुक्षणम् ।।३।।
स प्राहाश्विनमासेऽस्मिन् शुक्लद्वादशिकादिने । सुमुहूर्तो भवत्येव कृष्णं स्थापय तत्र तु ।।४।।
हरिः प्राह नृपं शीघ्रमुपहारान्समानय । मुहूर्तोऽद्य दिनादस्ति पञ्चमेऽह्नि सुशोभनः ।।५।।
इत्युक्तो हरिणा हृष्टो राजा सत्वरकारिभिः । विप्रानापृच्छयोपहारानानयामास सर्वशः ।।६।।
हरिश्च मण्डपं तत्र रम्भास्तम्भादिशोभनम् । बन्धयामास विततं कारयामास वेदिकाम् ।।७।।
दशम्यां विजयाख्यायां स्वेक्षणार्थमुपागतान् । भक्तानावासयामास तत्र तन्महदृष्टये ।।८।।
आहूय वैदिकान् सुज्ञान् ब्राह्मणप्रवरांस्ततः । एकादश्यां समारेभे प्रतिष्ठाविधिमादरात् ।।९।।
पीताम्बरं सत्परिधाय राजन्नारक्तकौशेयकृतोत्तरीयः ।
आवाह्य पीठेषु पुपूज देवान् विधिज्ञाविप्रोदितवेदमन्त्रैः ।।१०।।
स सङ्गवे द्वादशिकादिनेऽथो तन्मन्दिरे राधिकया समेतम् ।
कृष्णं प्रतिष्ठापयति स्म गोपीनाथाभिधं प्रौढतनुं यथावत् ।।११।।
वादित्रनादः सुमहांस्तदासीद्वेदध्वनिर्वैदिकभूसुराणाम् ।
बभूव कृष्णं समहोपहारैः सम्पूज्य दृष्टया स्थिरयाऽलुलोके ।।१२।।
मुहूर्तमित्थं प्रसमीक्षमाणे हरौ स कृष्णोऽतितरां बभासे ।
दृा तमापुर्भृशविस्मयं वै भक्ता अभक्ता निखिलाश्च लोकाः ।।१३।।
हुत्वा स पूर्णाहुतिमादितेयान्विसर्जयित्वा वृतभूमिदेवान् ।
कल्पेन मुख्येन हि दक्षिणाभिः सन्तोषयामास तथेतरांश्च ।।१४।।
ददौ च दानानि बहूनि तत्र द्विजोत्तमेभ्यः स उदारबुद्धिः ।
गाः स्वर्णमुद्राश्च हयांस्तिलांश्च प्रादाच्च वासांसि मनोहराणि ।।१५।।
देशान्तरेभ्यश्च पुरान्तरेभ्यः समागतान् विप्रगणाननेकान् ।
पौरांश्च विप्रान् स मुनींश्च सर्वान्सन्तर्पयामास विचित्रभोज्यैः ।।१६।।
कृष्णप्रतिष्ठोत्सवमेष इत्थं विधाय भक्तैः परिपूज्यमानः ।
ग्रामान्तरेभ्यो व्यसृजत्स्वभक्तांस्तत्रागतान्धर्मतनूज ईशः ।।१७।।
राजोत्तमः प्राप सबान्धवोऽपि चिरन्तमस्य स्वमनोरथस्य ।
एतत्फलं तत्कृपया तदानीं भक्त्या सिषेवेऽथ तमेव नित्यम् ।।१८।।
जया च ललिता तस्य भगिन्यौ हरिसंश्रिते । लेभाते परमानन्दं सर्वे भक्ताश्च नागराः ।।१९।।
हरिश्च तत आरभ्य तीव्रवैराग्यमाश्रितः । निःस्पृहोऽवर्तत जडभरतेन समं नृप ! ।।२०।।
क्वचिदश्नन् क्वचिन्नाश्नन् क्वचिदन्नं क्वचिद्फलम् । क्वचित्पत्रं च बुभुजे वायुमेव क्वचित्स च ।।२१।
स्वस्वधर्मे वर्तयितुं साधून् पग्दांश्च वर्णिनः । स गोपालानन्दमुनिं समाहूयाब्रवीद्वचः ।।२२।।
स्वस्वधर्मे वर्तनीयास्त्वयैते सकला अपि ।
आचार्यानुमतेनैवेत्युक्त्वा तं सोऽब्रवीच्च तान् ।।२३।।
अस्याज्ञायां वर्तितव्यं भवद्बिर्मामकैर्मुनेः ।
वर्तिष्यतेऽन्यथा योऽसौ न मदीय इति ध्रुवम् ।।२४।।
एवमुक्ता भगवता तं नमस्कृत्य तेऽखिलाः ।
एवमेवाऽचरिष्यामो नान्यथेत्यब्रुवन् वचः ।।२५।।
तदा प्रसन्नो भगवांस्तानुवाचनिजाश्रितान् ।
श्रेयो भविष्यत्येवं चेद्युष्माकमिति भूपते ! ।।२६।।
सन्त्यक्तदैह्यसकलव्यवहारकार्यो देहं निजं च बहुधाऽननुसन्दधानः ।
ज्ञानं च भक्तिमखिलं सविरागयोगं धर्मं च बोधयति स स्म यथावदेव ।।२७।।
धर्मस्त्याज्यो न कैश्चित्स्वनिगमविहितो वासुदेवे च भक्ति-
र्दिव्याकारे विधेया सितघनमहसि ब्रह्मणा स्वस्य चैक्यम् ।
निश्चित्यैवान्यवस्तुन्यणुमपि च रतिं सम्परित्यज्य सन्तस्-
तन्माहात्म्याय सेव्या इति वदति निजान् धार्मिको नीलकण्ठः ।।२८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे दुर्गपत्तने श्रीगोपीनाथप्रतिष्ठानिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ।।५५।।