श्रीनारायणमुनिरुवाच :-
धर्माः स्त्रीणां च पुंसां च धर्मशास्त्रेषु भूरिशः । विस्तराद्वर्णिताः सन्ति वर्णाश्रमवतां पृथक् ।।१।।
युगानुसारिणस्तत्र धर्मा ग्राह्या न चेतरे भीष्मोऽत्र भारते प्राह युधिष्ठिरमिदं वचः ।।२।।
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । अन्ये कलियुगे धर्मा यथाशक्ति कृता हि ते ।।३।।
त्याज्यान् धर्मान् कलियुगे कतिचित्ते वदाम्यहम् । ये निषिद्धाः पुराणेषु स्मृतिष्वपि च सर्वथा ।।४
गोमेधो नरमेधश्च वाजिमेधस्तथा मखः । मद्यपानं सुरापानं त्याज्यामहुः कलौ युगे ।।५।।
सौत्रामण्यामपि मखे ध्राणेनापि सुराग्रहः । देवातिथिवरार्थं च नैव कार्यः पशोर्वधः ।।६।।
मांसदानं पितृभ्यश्च श्राद्धे कार्यं न कर्हिचित् । अग्निहोत्रं च सन्न्यासो न कर्तव्यस्तथा कलौ ।।७।।
ऊढानां द्विजकन्यानामक्षतानां मृते पतौ । पुनर्विवाहकर्मोऽपि न कर्तव्यं कलौ युगे ।।८।।
न धार्यश्चाम्बुपानार्थं मृत्तिकायाः कमण्डलुः । सुतार्थं भ्रातृजायायां न नियोज्यश्च देवरः ।।९।।
ब्रृहद्धर्मं यथाशास्त्रं यो न पालयितुं क्षमः । दीर्घकालं ब्रह्मचर्यं न धार्यं तेन च क्वचित् ।।१०।।
देहपातो भवेद्येन प्रायश्चितं तु तादृशम् । वानप्रस्थाश्रमश्चापि वर्जनीयः कलौ युगे ।।११।।
आततायिद्विजवधो धर्मयुद्धेऽपि कर्हिचित् । न कर्तव्यस्तथा यज्ञो यत्र स्यात्पशुहिंसनम् ।।१२।।
स्वगार्थमपि वार्धक्ये स्त्रिया पुंसा च कर्हिचित् । न कार्योऽग्निप्रवेशश्च भृगुपातस्तथैव च ।।१३।।
महाप्रस्थानगमनं नैव कार्यं हिमालये । न गङ्गादिप्रवाहे च हेयं क्वापि निजं वपुः ।।१४।।
प्रच्छन्नं च महापापे क्वचिज्जातेऽपि निष्कृतिः । जपाद्यैस्तस्य कर्तव्या मृत्यूपायो न तु क्वचित् ।।१५
अपवादे दुःसहे च प्राप्ते सम्भावितेन तु । छन्नं स्थेयं मनुष्येण न तु नाश्यं निजं वपुः ।।१६।।
तथा स्थातुमशक्तेन गम्यं देशान्तरं द्रुतम् । न तु कार्यो ह्यात्मघातः पुरुषेणापि योषिता ।।१७।।=
दिनत्रये व्यतीतेऽपि धान्यादिप्राप्तिमन्तरा । चौर्यं तु नैव कर्तव्यं पुरुषेण कलौ युगे ।।१८।।
पितृष्वसुश्च तनया मातुलस्य सुता तथा । असवर्णस्य कन्या च नैवोद्वाह्या कदाचन ।।१९।।
घृतपक्वं पयःपक्वं कन्दुपक्वं च शूद्रतः । नैव ग्राह्यं ब्राह्मणेन सदाचाररतादपि ।।२०।।
शिष्येण गुरुपत्न्यां च नैव वृत्यं गुराविव । सन्न्यासिभिर्न कर्तव्यं चातुर्वर्ण्ये च भिक्षणम् ।।२१।।
गुरवे दक्षिणा देया शक्त्या न तु तदीप्सिता । अद्बिर्गोपीतशिष्टाभिः कार्यं नाचमनं तथा ।।२२।।
आशौचस्य न सङ्कोचो वेदादिगुणयोगतः । कार्योऽस्थिचयनादूर्ध्वमङ्गस्पर्शश्च न क्वचित् ।।२३।।
इत्यादयः कलियुगे धर्मो वर्ज्यतयोदिताः । एषां तु विधिवाक्यानि युगान्तरपराणि हि ।।२४।।
तत्राग्निहोत्रं सन्न्यासो द्विजानां द्विजसत्तम ! । धार्मिकाणां विरक्तानां शक्तानां विहितावपि ।।२५।।
यावद्वर्णविभागः स्याद्यावद्वेदश्च भूतले । भवेत्तावत्कलौ शास्त्रे द्वयमेतदुदीरितम् ।।२६।।
धर्मपालनसामर्थ्यं वैराग्यं यस्य चोत्तमम् । न स्यात्तस्य निषिद्धं वै सर्वथैतन्महर्षिभिः ।।२७।।
गृहस्थधर्मा इत्येते मया सर्वे समासतः । कथितास्ते द्विजश्रेष्ठ ! पालनीयाः प्रयत्नतः ।।२८।।
गृहस्थेष्वपि येऽत्र स्युर्ब्राह्मणा धर्मवंशजाः । स्थिता गुरुपदे तेषां धर्माः सामान्यतस्त्विमे ।।२९।।
विशेषधर्मो यस्तेषां तं च तुभ्यं वदाम्यहम् । कृष्णानिवेदितं यत्स्यात्प्राश्यं तन्नैव किञ्चन ।।३०।।
सम्बन्धिभिन्नयोषा याः सधवा अपि ताश्च तैः । न स्पृश्या नैव भाष्याश्च नोपदेश्याश्च कर्हिचित् ।।३१
विधवायास्तु संसर्गत्यागः सामान्यतोऽस्ति हि । विशेषधर्म एतावान् ज्ञोयस्तेषां द्विजोत्तम ! ।।३२।।
राज्ञो गृहस्थाश्रमिणोऽथ धर्मान्विशेषतस्ते कथयामि सर्वान् ।
यानाश्रितो भूपतिरत्र लोके परत्र चाप्नोति यशश्च सौख्यम् ।।३३।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे कलिवर्ज्यधर्मनिरूपणनामैकविंशोऽध्यायः ।।२१।।