श्रीनारायणमुनिरुवाच :-
नृपासनस्थो राजन्यो नित्यं रज्जयति प्रजाः । धर्मेण यः स एवोक्तो राजेत्यन्वर्थसंज्ञाया ।।१।।
वेदब्राह्मणभक्तश्च सत्यवादी जितेन्द्रियः । बहुप्रदः प्रसन्नास्यो धर्मनिष्ठो भवेन्नृपः ।।२।।
नातितीक्ष्णो नातिमृदुर्भवेद्राजा विचक्षणः । वासन्तार्क इव श्रीमान्प्रजानां हितकारकः ।।३।।
मृदुर्हि राजा सततं लङ्घयो भवति मानवैः । तीक्ष्णाच्चोद्विजते लोकः समवृत्तिस्ततो भवेत् ।।४।।
परीक्षेत नरान्राजा स्वान्परांश्चापि लक्षणैः । प्रत्यक्षेणानुमानेन तथौपम्यागमैः सदा ।।५।।
मृगयाऽक्षा दिवास्वप्नः परीवादमदस्त्रियः । तौर्यत्रिकं सुपानं पैशुन्यं द्रोहसाहसे ।।६।।
वाग्दण्डयोश्च पारुष्ये ईर्ष्याऽसूयाऽर्थदूषणम् । त्यजेदष्टादशैतानि व्यसनानि नृपोऽर्थवित् ।।७।।
गणः कामज आद्यानि दशान्यान्यष्ट कोपजः । उभौ गणौ निरयदौ ज्ञात्वा सज्जेत नैतयोः ।।८।।
गर्भिणी स्वप्रियं त्यक्त्वा कुर्याग्दर्भहितं यथा । राजा तथा लोकहितं कुर्यात्त्यक्त्वात्मनः प्रियम् ।।९
परिहासः परिजनैः कार्यो राज्ञा न वै भृशम् । अतिसंश्लेषतो यस्मान्मर्यादामुत्त्यजन्ति ते ।।१०।।
न तिष्ठन्ति निजस्थाने क्रुद्धयन्त्युच्चैर्वदन्ति च । विकल्पन्ते प्रेष्यमाणास्तद्वचो लङ्घयन्त्यपि ।।११।।
स्त्रीरक्षिभिः प्रसज्जन्ते चेष्टन्ते निस्त्रपं पुरः । समानवेषा नृपतेरभिरोहन्ति वाहनम् ।।१२।।
बहुनात्र किमुक्तेन सभायामपि भूपतिम् । तिरस्कुर्वन्ति सावज्ञां निर्बलान्पीडयन्ति च ।।१३।।
तस्मान्न हर्षलो राजा भवेदुचितमाचरेत् । नित्योद्यतो भवेद्धीरः शत्रूणां भयवर्धनः ।।१४।।
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयस्तद्द्रोग्धारं सुशिक्षयेत् ।।१५।।
करार्थं परधान्यादिनाशो वृष्टयादिना यथा । न स्यात्तथाचरेद्राजा देयं काले च दापयेत् ।।१६।।
सत्यान्नैव च्यवेत्क्वापि शास्त्रानुगतनिश्चयः । पुरुषार्थानसम्बाधं सेवेत जितरुड् नृपः ।।१७।।
वर्णाश्रमाणां ये धर्मा रक्षितव्यां प्रयत्नतः । सर्वत्र विश्वसेन्नैव परहार्दमबुद्धय च ।।१८।।
द्वन्द्वीभूतगजाश्वादियुद्धभूमीश्च लक्षणैः । जानीयाच्चतुरो यात्राकालान्धर्मांस्तथापदि ।।१९।।
सन्धिविग्रहयानानि द्वैधीभावः समाश्रयः । स्थानं चेति गुणाः षट् च कुर्यात्तन्निश्चयं स्वयम् ।।२०।।
शृणुयाद्धर्मशास्त्राणि पुराणानि च नित्यशः । स्वपक्षे परपक्षे च चारांस्तीर्थेषु योजयेत् ।।२१।।
चमूपतिर्द्वारपालः प्रदेष्टान्तःपुराधिपः । कारागाराधिकारी च कृत्याकृत्यार्थयोजकः ।।२२।।
कोशाध्यक्षः पुराध्यक्षः कार्यनिर्माणकृत्तथा । धर्माध्यक्षः सभाध्यक्षो दण्डपालश्च राष्ट्रपः ।।२३।।
दुर्पालोऽटवीपालस्तीर्थानि दश पञ्च च । रक्षेत्स्वपक्षे शत्रूणां चारेभ्यो बुद्धिमान्नृपः ।।२४।।
परपक्षे तथा मन्त्रियुवराजपुरोहितैः । सहितेष्वेषु तीर्थेषु चारान्गूढान्नियोजयेत् ।।२५।।
अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । इति स्वपक्षेऽन्यत्रापि ज्ञोयं प्रकृतिपञ्चकम् ।।२६।।
एतस्मिन्दशके वर्गे स्थानं वृद्धिं क्षयं तथा । निश्चित्यैवोद्यमं कुर्यात्प्रतिपक्षजयाय च ।।२७।।
उपासीत सदा वृद्धान्सतां वृत्ते स्थितो नृपः । अलोलुपश्चापचक्षुः स्मितपूर्वाभिभाषिता ।।२८।।
भवेद्बर्ता चाभृतानामन्वीक्षेत भृतानपि । स्वयं प्रहर्ता दाता च विशुद्धाचारवान्भवेत् ।।२९।।
सर्वाभिशङ्की क्रोधी च यश्च सर्वहरो नृपः । स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव वध्यते ।।३०।।
अरौगिणः कुलीनांश्च भक्तान् शूरान्विवेकिनः । अप्रतार्योन्परैः शिष्टान्मानिनो मानदांस्तथा ।।३१।।
विद्याविदो लोकविदः परलोकविदोऽचलान् । स्वधर्मनिष्ठान्कुर्वीत सहायान्नृपतिः शुचीन् ।।३२।।
तैश्च तुल्यो भवेद्बोगैश्छत्राज्ञाभ्यां ततोऽधिकः । प्रत्यक्षं वा परोक्षं यस्तुल्यस्तेषु न खिद्यति ।।३३।।
केतनानां च जीर्णानामवेक्षां चैव सीदताम् । नित्योत्थानं च कुर्वीत सेवां बुद्धिमतामपि ।।३४।।
क्षिप्रकारी सुप्रसादो गम्भीरश्च महामनाः । निश्छद्म पालयेद्राजा प्रजाः पुत्रानिवौरसान् ।।३५।।
अगूढविभवा हृष्टा निर्भया धार्मिकाः प्रजाः । यस्य राज्ये भवेयुश्च स राजा राज्यमर्हति ।।३६।।
प्रजानां रक्षणं राज्ञाः परमो धर्म उच्यते । सुकृतस्य चतुर्थांशं तासां तेनैव विन्दति ।।३७।।
धर्माणां विप्लवे जाते निर्मितो विष्णुना भुवि । पुरा राजा ततस्तेन कर्तव्यं धर्मपालनम् ।।३८।।
अधार्मिकान्दण्डयित्वा धृत्वा हत्वा च तस्करान् । धर्ममार्गे स्थापनीया भीषयित्वा प्रजा निजाः ।।३९
दण्डयानदण्डयांश्च स नीतिशास्त्रात्सम्यग्विदित्वाऽथ यथार्हमेव ।
दण्डयेषु पुत्रे च रिपौ निदध्याद्दण्डं द्विजेन्द्रेतरथा तु नैव ।।४०।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेष्वष्टादशव्यसनादिनिरूपणनामा द्वाविंशोऽध्यायः ।।२२।।