त्रयोविंशोऽध्यायः

श्रीनारायणमुनिरुवाच


नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।।१।।

एकचिन्तनमर्थानामनर्थज्ञौश्च चिन्तनम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।।२।।

मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वशः । एतांस्त्यजेत्प्रयत्नेन राजा दोषांश्चतुर्दश ।।३।।

बालेन स्थविरेणापि भीरुणा दीर्घरोगिणा । ज्ञातित्यक्तेन लुब्धेन तथा लुब्धजितेन च ।।४।।

विरक्तेन भयकृता विषयासक्तचेतसा । अनेकचित्तमन्त्रेण देवब्राह्मणगर्हिणा ।।५।।

दैवोपहतकेनापि दैवचिन्तापरेण च । दुर्भिक्षव्यसनार्तेन बलव्यसनिना तथा ।।६।।

सत्यधर्मविहिनाभ्यामदेशस्थेन दम्भिना । विंशत्या पुरुषैरेतैर्नृपः सन्धिं न चाचरेत् ।।७।।

कुर्यान्मन्त्रं न षट्कर्णं स्वपेद्यामद्वयं निशि । ब्राह्मे मुहूर्त उत्थाय मन्त्रमालोचयेत्स्वयम् ।।८।।

कुमाराश्चैव योद्धारः शिक्षणीयाः सुपण्डितैः । सहस्रैश्चापि मूर्खाणां क्रीणीयादेकपण्डितम् ।।९।।

सदा विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । अनसूयुरसङ्कीर्णो राज्ञा कार्यः पुरोहितः ।।१०।।

तथैवाङ्गेषु निष्णातं ज्योतिषः प्रतिपादकम् । उत्पातेषु च सर्वेषु कुर्याद्दैवज्ञामुत्तमम् ।।११।।

राज्ञो वैद्यश्च निपुणो भवेद्बुद्धिवयोधिकः । अष्टाङ्गायां चिकित्सायां कुशलश्चानुरागवान् ।।१२।।

दैवं च मानुषां बुध्वा पञ्चपञ्चविधं भयम् । शत्रोः पराजये हेतुं ततो यात्रां समाचरेत् ।।१३।।

प्रयच्छेद्बलमुख्येभ्यः परराष्ट्रे तथा नृपः । उपच्छन्नानि रत्नानि भेदायैव यथोचितम् ।।१४।।

जितेन्द्रियः स्वमात्मानमादौ जित्वा ततो रिपून् । जेतुं समिच्छेन्नृपतिः प्रमत्तानजितेन्द्रियान् ।।१५।।

परराष्ट्रे लवं मुष्टिं ज्ञात्वा जेतुमुपक्रमेते । स्वभोज्यवस्त्रगन्धादीन्विश्वस्तै रक्षयेन्नरैः ।।१६।।

कोशं कोष्ठं वाहनं च द्वारमायं तथायुधम् । रक्षयेत्कृतकल्याणैर्निजभक्तैर्नरैर्नृपः ।।१७।।

आभ्यन्तरेभ्यो बाह्येभ्यो रक्षेत्स्वं च सुधीः सदा । पुत्रामात्यादितस्तांश्च रक्षेत्सर्वान्मिथस्तथा ।।१८।।

सुभिक्षसाम्यदुर्भिक्षेष्वपि सम्पूरयेद्वययम् । आयैकद्वित्रिपादैश्च कोशं निःशेषयेन्न तु ।।१९।।

ज्ञातीन्वृद्धान् गुरून्राजा वणिजः शिल्पिनः । श्रितान् अभीक्ष्णमनुगृीयाद्धनधान्येन दुर्गतान् ।।२०।।

हितकामान्प्रियान्प्रौढानज्ञावाक्यात्क्वचिन्नृपः । च्यावयेन्नाधिकाराच्च विना तद्दोषदर्षनम् ।।२१।।

धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबान्नियुञ्जीत नीचान्नीचेषु कर्मसु ।।२२।।

लुब्धान्मूर्खाश्च पुरुषान्कामेऽर्थे च न योजयेत् । अलुब्धान्बुद्धिसम्पन्नान्सर्वकार्येषु योजयेत् ।।२३।।

मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः । प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः ।।२४।।

सन्ध्यामुपास्य शृणुयान्निशि चारोदितम रहः ।परराष्ट्रजनं चापि कुर्वीत स्ववशो बुधः ।।२५।।

अर्थेन लुब्धं मानेन स्तब्धं भीरुं भयेन च । याथातथ्येन विद्वांसं वशीकुर्याद्यथोचितम् ।।२६।।

यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ परराष्ट्रे वशंगते ।।२७।।

बृहन्ति च तडागानि सर्वपेयोदकानि च स्वराष्ट्रे तत्रतत्राथ भागशो विनिवेशयेत् ।।२८।।

प्रतिग्रामं कृतप्रज्ञान्पञ्च पञ्च स्वनुष्ठितान् । संहत्य कर्म कुर्वाणान् शूरान्संस्थापयेत्तथा ।।२९।।

घोषांश्च ग्रामवत्कुर्याद्ग्रामान्नगरवत्तथा । क्रमेण द्रव्यं गृीयाद्धोषादीनां नृपः स्वयम् ।।३०।।

स्त्रियः सुरक्षिताः कुर्यात्सान्त्वयेत्ताश्च तद्वचः । न श्रद्दध्याच्च न ब्रूयाद्रहस्यं तत्परः क्वचित् ।।३१।।

आत्मनश्च परेषां च परीक्ष्यात्र बलाबलम् । अष्टौ सन्धाय कर्माणि सेवेत नृपतिः परैः ।।३२।।

साध्यानल्पव्ययेनार्थानारभेत महोदयान् । कृष्यादिविघ्नं वैश्यादेर्न कुर्यात्कोशहानिकृत् ।।३३।।

कुर्यात्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ।।३४।।

नित्यं हृष्टश्च शूरश्च मतिमान्धृतिमाञ्छुचिः । कुलिनश्चानुरक्तश्च कार्यः सेनापतिस्तथा ।।३५।।

कृत्वा पुरुषकरेण स्वोक्तं कर्म समागतम् । मानयेद्दानमानाभ्यां दद्याच्चाधिकवेतनम् ।।३६।।

तथा विद्याविनीतांश्च शास्त्रशिल्पविशारदान् । यथार्हं वित्तवस्त्राद्यैर्मानयेच्चतुरो नृपः ।।३७।।

परराष्ट्रे स्थापनीया बुद्धियुक्तिविचक्षणाः । तत्रत्यवृत्तज्ञानार्थं दद्यात्तद्वेतनं रहः ।।३८।।

दृष्टदुष्टक्रियं स्तेनं निगृह्य स्थापयेन्नृपः । यथेष्टाचरणायैनं न लोभाद्विसृजेत्क्वचित् ।।३९।।

आद्रौ दरिद्रं पश्चाच्च दैवात्प्राप्तधनं जनम् । मिथ्यापवादैर्नो दुष्येद्रक्षेन्मन्त्र्यादितश्च तम् ।।४०।।

दूरादभ्यागतेभ्यश्च वणिग्भ्यो लोभकारणात् । करं यथोक्तमादद्याद्रक्षेत्तान् शुल्कजीवितः ।।४१।।

नित्यं धर्मार्थविज्ञानां वृद्धानां शृणुयाद्वचः । पुरुषं कृतकर्माणं सत्सभायां स्तुवीत च ।।४२।।

द्रव्योपकरणं यच्च सर्वदा सर्वशिल्पिनाम् । चातुर्मास्यावरं सम्यक् प्रयच्छेन्नियतं नृपः ।।४३।।

रक्षोग्निव्याघ्ररुक्सर्पभयाद्राष्ट्रं च पालयेत् । पितेव चान्धान्मूकांश्च व्यङ्गान्पङ्गूंश्च पालयेत् ।।४४।।

त्याज्या अनर्थाः षड्राज्ञा विशेषेण सुबुद्धिना । निद्रालस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता ।।४५।।

अध्येतव्यं नीतिशास्त्रमादौ राज्ञा प्रयत्नतः । पण्डिताद्ब्राह्मणात्तस्य लक्षणं च वदामि ते ।।४६।।

इतिहासपुराणज्ञो न्यायविद्धर्मतत्त्ववित् । षडङ्गवेदविद्वक्ता प्रगल्भो बुद्धिमान्कविः ।।४७।।

परावरविभागज्ञो नीतिज्ञाः स्मृतिमांस्तथा । प्रमाणैर्धर्मकामार्थमोक्षाणां कृतनिश्चयः ।।४८।।

भूगोलतत्त्ववित्सन्धिविग्रहादिविभागवित् । उत्तरोत्तरवक्ता च वदतोऽपि बृहस्पतेः ।।४९।।

ऐक्ये संयोगनानात्वे समवाये विशारदः । पञ्चावयववाक्यस्य निष्णातो गुणदोषयोः ।।५०।।

साङ्खये योगे च गान्धर्वशास्त्रे युद्धक्रियास्वपि । निष्णातो यो धनुर्वेदे स राज्ञोऽध्यापको भवेत् ।।५१

एवंविधात्तु विदुषो राजाऽधीयीत धनुर्वेदं नीतिशास्त्रं शास्त्राण्यन्यान्यपि स्वयम् ।।५२।।

हस्त्यश्वरथसूत्राणि यन्त्रसूत्रं च सर्वशः । प्रयोगं सोपसंहारमस्त्राणां च यथाविधि ।।५३।।

अध्यापकं बहुविधैर्वसनैश्च रत्नैर्यानैः सदाभरणरौप्यकमुद्रिकाभिः ।

नानाविधोपकरणै रुचिरैश्च हैमैः सम्प्रीणयेद्विज ! नृपः शुभवेश्मना च ।।५४।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेषु चतुर्दशदोषादिनिरूपणनामा त्रयोविंशोऽध्यायः ।।२३।।