चतुर्विंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


धर्मो यशस्करो राज्ञां धर्मः स्वर्गप्रदस्तथा । धर्मेणैव जयेच्छत्रूंस्ततो धर्मरतो भवेत् ।।१।।

चित्तं देश उपाध्याश्च सहायाः कालकर्मणी । षड्वर्गोऽयं राजनीत्या भवेत्तद्धर्ममाचरेत् ।।२।।

धर्मकामार्थमोक्षाणां विद्या विद्याच्च पार्थिवः । त्रयीं वार्तां दण्डनीतिं तुर्यामान्वीक्षिकीं तथा ।।३।।

उपायांश्चतुरः साम भेदं दानं च निग्रहम् । यथोचितं प्रयुञ्जीत पञ्चमं चाप्युपेक्षणम् ।।४।।

हीनमध्योत्तमान्सन्धीन्भीसत्कारधनग्रहैः । विद्यादर्थजयं धर्म्यं जयं चासुरमित्यपि ।।५।।

रथा नागा हयाः पग्दा विष्टिर्नावश्चरास्तथा । देशिकाश्चेति जानीयात्प्रकाशं दण्डमष्टधा ।।६।।

वस्त्रे चान्ने परकृतं विषयोगं च लक्षणैः ।जानीयादभिचारं च दण्डमप्रकटं त्रिधा ।।७।।

ग्रहनक्षत्राध्वगुणान्विद्याद्बूमिगुणान्नृपः । मन्त्रयन्त्रादिना चात्मरक्षणं युद्धकौशलम् ।।८।।

गारुडं माकरं क्रौञ्चं चक्रं सूचीमुखं महत् । वज्रं च सर्वतोभद्रमर्धचन्द्रं च शाकटम् ।।९।।

शृङ्गाटकादीनि तथा विद्याद् व्यूहानि सर्वशः । सञ्चारयेत्स्वसैन्यानि तथैव च नृपोत्तमः ।।१०।।

नृनागवाजिनां पुष्टियोगान्विद्याच्च शास्त्रतः । रथनिर्माणादि शिल्पं विद्याच्चायुद्धलक्षणम् ।।११।।

उत्पातादिगुणान्सैन्यप्रोत्साहनपरीक्षणे । शत्रुं मित्रमुदासीनं विद्याद्दूतांश्च लक्षणैः ।।१२।।

खलोन्मूलनरीतिं च प्रयोगं चास्त्रशस्त्रयोः । देशग्रामकुलानां च धर्मान्विद्याच्च वैदिकान् ।।१३।।

तथा राज्ञां द्वादशानां विद्यान्मण्डलसंस्थितिम् । अपराधोचितं दण्डं जानीयाद्धर्मशास्त्रतः ।।१४।।

धनुर्वेदं नीतिशास्त्रं चाधीत्य नृपतिः सुधीः । एवमादि विदित्वाऽरीन् जित्वा धर्मं विवर्धयेत् ।।१५

साम्ना दानेन भेदेन स्वबुद्धया वशयेद्रिपून् । कालेनाप्यतिदीर्घेण सद्यो युद्धं तु नाचरेत् ।।१६।।

वशीभवेयुश्चेन्नैव त्रिभिः सामादिभिर्द्विषः । तदा युद्धं प्रकुर्वीत राजा धर्मेण निर्भयः ।।१७।।

यदि युद्धे मृताः स्युस्ते तद्राज्यं तर्हि धार्मिकः । वशीकृतेभ्यो नृपतिस्तत्पुत्रेभ्योऽर्पयेत्स्वयम् ।।१८

युक्त्या बुद्धिबलेनापि गृहीताः शत्रवो यदि । युद्धे तदा तानानीय स्थापयेद्बन्धनालये ।।१९।।

दद्यात्तेभ्योऽन्नवस्त्राणि यावज्जीवं नृपोत्तमः । शत्रवोऽप्यतिरिच्यन्ते गोभ्यो बन्दीकृता यतः ।।२०।।

निगृहीतान् घातयति क्रूरकर्मा नृपस्तु यः । स ब्रह्महत्यादिमहापातकैर्युज्यते किल ।।२१।।

यस्तु राजा बुद्धिहीनः सामादींस्त्रीन्विहाय च । नित्यं युद्धपरस्तस्य क्षीयन्ते सन्नरादयः ।।२२।।

कोशश्च नाशमायाति जायते दैन्यभाक् ततः । स्तेयवृत्तिस्ततो नश्येत्तन्न कुर्वीत साहसम् ।।२३।।

स्ववित्तस्य तृतीयांशं जीवनाय प्रकल्पयेत् । भागद्वयं तु धर्मार्थमनित्यं जीवितं यतः ।।२४।।

धर्मेण पालयेद्राजा प्रजाः शीलेन रञ्जयन् । अदण्डयान्दण्डयेन्नैव दण्डार्हान्दण्डयेज्जनान् ।।२५।।

अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसङ्करः । दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ।।२६।।

असंरक्षन्प्रजा राजा यो गृाति करं निजम् । प्रजानां शमलं भुङ्क्ते स्वपुण्यं च जहाति सः ।।२७।।

आददीत करं राजा प्रजाभ्यो धर्मदर्शनः । षष्ठं भागं सदा प्राज्ञास्तासामेवाभिगुप्तये ।।२८।।

मनो जेयं पुरा राज्ञा ततो जेयाश्च शत्रवः । जितेन्द्रियो हि नृपतिर्बाधितुं शक्नुयादरीन् ।।२९।।

वेदवेदाङ्गवित्सम्यङ् नीतिज्ञो विष्णुभक्तिमान् । दानशीलो यज्ञाशीलस्तपस्वी च भवेन्नृपः ।।३०।।

कृतकार्यान्परिजनान्धनैर्वस्त्रैश्च पूजयेत् । गुप्तं प्रजाः पीडयतोऽमात्यादींश्च नियन्त्रयेत् ।।३१।।

प्रवर्तयेन्नृपो धर्मं यं तं लोकोऽनुवर्तयेत् । न कालस्य बलं राज्ञिा राजा कालस्य कारणम् ।।३२।।

कृतं त्रेता द्वापरं च कलिश्चेति युगानि यत् । राजवत्तानि वर्तेयू राजैव युगमुच्यते ।।३३।।

राजमूला इह प्रोक्ता योगक्षेमसुवृष्टयः । प्रजासु व्याधयश्चैव मरणं च भयानि च ।।३४।।

यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः । राजा वर्षसहस्रं तत्फलं भुङ्क्ते यमालये ।।३५।।

यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन् । दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ।।३६।।

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः । चतुर्थं तस्य भागं राजा स विन्दते ।।३७।।

प्रत्याहर्तुमशक्यं यद्धनं चोरैर्हृतं नृणाम् । तत्स्वकोशात्प्रदातव्यं नृपेणैवोपजीविनाम् ।।३८।।

यो राजकोषं नश्यन्तमाचक्षीत हितेच्छया । श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतोऽपि सः ।।३९।।

प्राज्ञान्मेधाविनो दान्तान्दक्षान् शूरान्बहुश्रुतान् ।कुलीनान्सत्यसम्पन्नान्मानयेत्सर्वकर्मसु ।।४०।।

कृपणानाथवृद्धानां विधवानां च योषिताम् । योगक्षेमं च वृत्तिं च राजा नित्यं प्रकल्पयेत् ।।४१।।

आश्रमेषु ब्रह्मविदां चैलभाजनभोजनम् । सदैवोपाहरेद्राजा सत्कृत्याभ्यर्च्य निश्छलः ।।४२।।

आत्मानं सर्वकार्याणि राष्ट्रं चापि तपस्विने ।निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ।।४३।।

तस्मिन् कुर्वीत विश्वासं राजा कस्याञ्चिदापदि । तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ।।४४।।

ग्रामस्याधिपतिं कुर्याद्दशानां च ततः परम् । ग्रामाणां च शतस्यैकं सहस्रस्य च सर्वशः ।।४५।।

एतत्क्रमेण सर्वस्य कुर्याद्राष्ट्रस्य रक्षणम् । यथा जना न सीदेयुस्तथा कुर्यादतन्द्रितः ।।४६।।

तथैव वणिजां वृत्तिं शिल्पं चावेक्ष्य शिल्पिनाम् । तेषां व्ययं च निर्वाहं दृा कुर्यात्करान्नृपः ।।४७

श्रुत्वान्यस्य वचः सद्यः कुर्यात् किञ्चिन्न भूपतिः । विचार्य निश्चयं कृत्वा ततः कुर्याद्यथोचितम् ।।४८

लभ्यते खलु पापीयान्नरः सुप्रियवागिह । अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः ।।४९।।

यस्तु धर्मपरो नित्यं हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ।।५०।।

स्वस्याहितं येन भवेच्च तादृक् प्रियं वदेद्यः पुरुषो वचश्च ।
ज्ञातेरपि स्वस्य न तस्य तत्तु नृपः सुबुद्धः शृणुयाद् द्विजेन्द्र ! ।।५१।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे षड्वर्गादिनिरूपणनामा चतुर्विंशोऽध्यायः ।।२४।।