श्रीनारायणमुनिरुवाच :-
न मांसं भक्षयेद्राजा हिंसाशीलो भवेन्न च । मांसाशिनोऽन्यानपि च हिंसायाः सन्निवर्तयेत् ।।१।।
अहिंसैव परो धर्मः सर्वेषां समुदाहृतः । मनसा वपुषा वाचा त्याज्या हिंसा च सङ्गतः ।।२।।
यथा चतुष्पादेकेन पदा हीनो न गच्छति । म्रियते गत्यभावाच्च कालेनाल्पलेन निश्चितम् ।।३।।
अहिंसापि तथैवेयं वृत्तिभिर्मनआदिभिः । पालनीया प्रयत्नेन नश्यत्येवान्यथा तु सा ।।४।।
पूर्वं तु मनसा त्यक्त्वा ततो वाचा च कर्मणा ।न भक्षयति यो मांसं पुरुषः स विमुच्यते ।।५।।
राजा पिता हि सर्वेषां सर्वे जीवास्तु तत्सुताः । पालनीयास्ततः सर्वे हिंसकेभ्यो भयात्सदा ।।६।।
पुत्रमांसोपमं जानन् यः खादति विमोहितः । मांसं तु रसलुब्धात्मा स तु राक्षस उच्यते ।।७।।
जीवितं हि पर्त्यज्य बहवः साधवो नृपाः । स्वमांसैः परमांसानि परिपाल्य दिवं गताः ।।८।।
सप्तर्षयो वालखिल्यास्तथैवोचुर्मरीचिपाः । अमांसभक्षणं सर्वे प्रशंसन्ति महर्षयः ।।९।।
यज्ञोषु पश्वालम्भोऽपि न साक्षाद्वेदसम्मतः । किन्त्वसात्त्किवृत्तिनां रागाद्धिंसानिवृत्तये ।।१०।।
एवं धर्मरतो राजा कृत्वा राज्यं यथाविधि । तृतीय आयुषो भागे दद्याज्ज्येष्ठाय सूनवे ।।११।।
स्वयं वनमुपाश्रित्य कृत्वा सङ्गं सतां हरौ । भक्तिं कुर्याद्यदि दृढं प्राप्नुयात् परमं पदम् ।।१२।।
राज्यं कुर्वन् यदि मृतो युद्धे वा धार्मिको नृपः । सोऽपि स्वर्गमवाप्नोति भुङ्क्ते भोगाननेकशः १३
ततः कालेन सम्प्राप्य पुण्यशेषेण मानवम् । देहं कृत्वा सतां सङ्गं विष्णुभक्त्या विमुच्यते ।।१४।।
यदि राज्यमदोन्मत्तो मर्यादां लङ्घयेदिमाम् । स्वैरवर्ती स तु नृपः प्राप्नोत्यत्रायशो महत् ।।१५।।
मृत्वा प्रजानां शमलं गृहीत्वा पापकर्मणाम् ।यमालये फलं भुङ्क्ते यावच्चन्द्रदिवाकरौ ।।१६।।
ततो भ्राम्यति कालेन कीटपक्ष्यादियोनिषु । तस्माद्राजा धर्मनिष्ठः पालयेन्नियतः प्रदा ।।१७।।
नीतिशास्त्रं पुरा ब्रह्मा लक्षाध्यायं चकार ह । धर्मज्ञानाय वै राज्ञां प्रजानां च सुखाप्तये ।।१८।।
अल्पायुषो जनान् दृा तत्सप्यि शिवस्ततः । वैशालाक्षाभिधं चक्रेऽयुताध्यायं मनोहरम् ।।१९।।
तत्सप्यि पुनः पञ्चसहस्राध्यायमुत्तमम् । बाहुदन्तकसंज्ञां च ततश्चक्रे पुरन्दरः ।।२०।।
तत्सप्यि पुनः काले बार्हस्पत्याभिधं द्विज ! । त्रिसहस्राध्याययुतं चकार च बृहस्पतिः ।।२१।।
काव्यः सप्यि तच्चक्रे सहस्राध्यायविश्रुतम् । तच्छास्त्रमभितो भूमौ मुनिभिः सम्प्रवर्तितम् ।।२२
पुनश्चाल्पमतीन् दृा जनानल्पायुषस्तथा । भरद्वाजादिमुनिभिः सेपेण प्रवर्तितम् ।।२३।।
तत्सारमात्रं तु मया प्रोक्तमन्यत्र विस्तरः । धर्मेणैव प्रजा राज्ञा रक्ष्यास्तत्रेति निश्चितम् ।।२४।।
राजधर्मा इति मया प्रोक्तास्ते द्विजसत्तम ! । यानाश्रितो नरपतिरिन्द्रेण सह मोदते ।।२५।।
गृहस्थधर्मानेतान् यो विष्णोर्भक्त्या सहाचरेत् । स हि तद्धाम परमं लभते पुरुष किल ।।२६।।
तद्बक्तिरहितोऽप्यत्र धर्मानेतान् य आचरेत् । श्रद्धया परयोपेतः स्वर्गं सोऽपि लभेत वै ।।२७।।
स्वकीयपुण्यार्जितभूरिभोगान्दिव्यान्स भुक्त्वा पुनरत्र भूमौ ।
प्राप्योद्बवं पुण्यवतो निकेते करोति पूर्वाधिकमेव पुण्यम् ।।२८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे राजधर्मेषु अहिंसादिसनातनधर्मनिरूपणनामैकोनत्रिंशोऽध्यायः ।।२९।।