पञ्चत्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


विधवायाः क्वचिद्धर्मच्युतौ वच्म्यथ निष्कृतिम् । यां कृत्वा साऽप्नुयात्पूर्णं स्वधर्मफलमुत्तमम् १

कबरीबन्धने नारी पर्यङ्कशयने तथा । धर्महीनस्त्रियाः सङ्गे कुर्यादेकमुपोषणम् ।।२।।

द्विर्भोजने तथा क्रोधे नग्नस्ननेऽतिभोजने । तैलाभ्यङ्गे कृते च स्त्री कुर्यादेकमुपोषणम् ।।३।।

गन्धद्रव्योपभोगे च वृषभारोहणे तथा । अतिसर्पिःपयःपाने कुर्यादेकमुपोषणम् ।।४।।

उत्तेजकेऽति मिष्टान्ने ताम्बूले मादके तथा । भक्षिते सा तु विधवा कुर्यादेकमुपोषणम् ।।५।।

दिव्ये सूक्ष्मे तथा चित्रे कौसुम्भे चांशुके धृते । कञ्चुके च धृते नारी कुर्यादेकमुपोषणम् ।।६।।

विकृतं च धृते वस्त्रे पाणिपद्दन्तरञ्जने । सिन्दूरकुङ्कुमधृतौ कुर्यादेकमुपोषणम् ।।७।।

पुष्पस्रजश्चन्दनस्य शङ्खानामञ्जनस्य च । धारणे भालपत्र्याश्च कुर्यादेकमुपोषणम् ।।८।।

विष्णुप्रसादिगन्धादेर्ललाटादौ धृतावपि । तादृक्पुष्पस्रजश्चाङ्गे कुर्यादेकमुपोषणम् ।।९।।

धातुयुक्ताम्बरधृतौ धात्वलङ्कारधारणे । सुवासिनीवेषधृतौ कुर्यादेकमुपोषणम् ।।१०।।

सन्न्यासिनीवेषधृतौ नर्तकीवेषधारणे । पुंवेषस्य धृतौ च स्त्री कुर्यादेकमुपोषणम् ।।११।।

भालकेशोत्पाटने च विना कार्यं परिभ्रमे । परगेहोपवेशे च कुर्यादेकमुपोषणम् ।।१२।।

पैत्रपक्षोपहासोक्तौ पित्रुत्सङ्गोपवेशने । अम्बाग्रे ग्राम्यधर्मोक्तौ कुर्यादेकमुपोषणम् ।।१३।।

श्रवणे कीर्तने च स्त्री शृङ्गारवचसां कृते । गालिदाने च विधवा कुर्यादेकमुपोषणम् ।।१४।।

अपशब्दोच्चारणे च होलिकोत्क्रीडने तथा । मिथ्यापवादे च कृते कुर्यादेकमुपोषणम् ।।१५।।

निर्लज्जवादे श्वशुर्यैः कृतेऽथो पापदुष्टया । स्त्रिया मैत्र्यां कृत्यां सा कुर्यादेकमुपोषणम् ।।१६।।

परिव्राजिकया दूत्या नीचजात्या च योषिता । मैत्र्यां कृतायां कामुक्या कुर्यादेकमुपोषणम् ।।१७।।

पाषण्डिन्या यवन्या च मन्त्रयन्त्रविदा स्त्रिया । मैत्र्यां कृतायां नास्तिक्या कुर्यादेकमुपोषणम् ।।१८

निर्लज्जयौषधिविदा गर्भघ्न्या धूर्तया च सा । मैत्र्यां कृतायां विधवा कुर्यादेकमुपोषणम् ।।१९।।

पतिव्रतेक्षया पुंसोऽभिशप्तस्य गृहे गतौ । कृतायां नीचजातेश्च कुर्यादेकमुपोषणम् ।।२०।।

नृत्यगीतोद्वाहसार्थसुवेषपुरुषोत्सवान् । द्रष्टुं कृते तु गमने कुर्यादेकमुपोषणम् ।।२१।।

क्रीडतां वीक्षणे स्वैरं पुंसां चैकाकिनीगतौ । कामाच्च पुरुषेक्षायां कुर्यादेकमुपोषणम् ।।२२।।

पुंरूपगुणवार्तानां श्रवणे कीर्तने तथा । पुंसोऽङ्गस्पर्शने च स्त्री कुर्यादेकमुपोषणम् ।।२३।।

धौतादिभिन्नपुंवस्त्रस्पर्शे पुंसां च भाषणे । पौंस्ने च दुष्टसङ्कल्पे कुर्यादेकमुपोषणम् ।।२४।।

पुंसश्चित्रे च लिखिते स्पृष्टे मैथुनिपुत्तले । स्वकार्यसिद्धयै पुंमैत्र्यां कुर्यादेकमुपोषणम् ।।२५।।

पशुपक्ष्यादियभने पुंगुह्ये च समीक्षिते । करदृग्भ्रमपुंबोधे कुर्यादेकमुपोषणम् ।।२६।।

पुंदृष्टया सह दृग्बन्धे पुंसश्चोत्सर्जनस्थले । तत्क्रियाकरणे नारी कुर्यादेकमुपोषणम् ।।२७।।

धनुर्मानाभ्यन्तरेण गतौ पुंसोऽन्तिके तथा । अनापदि कृतायां सा कुर्यादेकमुपोषणम् ।।२८।।

ऊर्ध्वं वाधः पुमान् यत्र सुप्तः स्यान्निशि तग्दृहे । एकाकिनी स्वपेद्या सा कुर्यादेकमुपोषणम् ।।२९।।

पुंसभादृश्यहृत्तुन्दसक्थिर्योपविशेत्तथा । स्वाङ्गचापल्यकर्त्री च कुर्यादेकमुपोषणम् ।।३०।।

पैत्रश्वाशुर्यसंगुप्तव्यवहारविधापने । आदर्शे च मुखेक्षायां कुर्यादेकमुपोषणम् ।।३१।।

सह याने कृते यूना बन्धुनाऽपि च वर्त्मनि । रहःस्थानोपवेशे च कुर्यादेकमुपोषणम् ।।३२।।

मानसस्याथ बाह्यस्य पूजनस्याकृतौ हरेः । अकृतौ नित्यजाप्यस्य कुर्यादेकमुपोषणम् ।।३३।।

आवश्यकं गेहकार्यं विना भक्तिं च सत्पतेः । व्यर्थे कालातिक्रमे च कुर्यादेकमुपोषणम् ।।३४।।

गेहद्वारान्तरे कश्चित्प्रविश्याशु पुमान्बहिः । निर्गच्छेत्तत्र चैका चेत्कुर्यादेकमुपोषणम् ।।३५।।

यत्रैका स्यात्स्वयं तत्र तिष्ठेदेत्य पुमांस्तु यः । आक्रोश्य दूरयेत्तं चेत् कुर्यादेकमुपोषणम् ।।३६।।

निष्कासयेन्न चेत्तं तु स्वयं तत्र स्थिता भवेत् । तर्हि सा तु प्रकुर्वीत चतुर्दिनमुपोषणम् ।।३७।।

स्वप्ने पुरुषसङ्गे च कुर्यादेकमुपोषणम् । तत्र स्वबन्धुसङ्गे तु पादकृच्छ्रं व्रतं चरेत् ।।३८।।

स्वधनस्य व्ययं कृत्वा जीविकार्थं ततश्चरेत् । याऽन्यस्वां च भैक्ष्यं वा सा चान्द्रयणमाचरेत् ।।३९।।

जीविकार्थे क्रयादौ च पुंस्पर्शे स्ननतः शुचिः । भाषणे तु जपेद्विष्णोर्नाम्नां पञ्चशतं च सा ।।४०।।

करीषतृणमृतकाष्ठगोमयाद्याहृतौ च सा । आवश्यके तु पुंस्पर्शे जाते स्ननाद्विशुध्यति ।।४१।।

स्वसम्बन्धिनराणां च कामात्क्वापि समीक्षणे । जाते वा भाषणादौ च निष्कृतिर्द्विगुणोदिता ।।४२।।

एकपत्नीव्रतस्त्यागी मृतस्त्रिः शरणागतः । अनिच्छुरथ विश्ववासी पुमांसः षडिमे तु ये ।।४३।।

तत्रैकस्य सकृज्जाते सङ्गे वर्षं विनान्तरे । पिबेन्निर्लवणान्सक्रूस्ततः शुध्येत्तु गतः ।।४४।।

धारणापारणाख्येऽस्मिन्व्रते भोजनवासरे । एकमन्नं तु वाश्नीयादशक्ता सैन्धवान्वितम् ।।४५।।

अन्नद्वयं सलवणं तत्राशक्ता तु भक्षयेत् । उपवासदिने त्वम्बु सा पिबेत्तक्रमेव वा ।।४६।।

क्रियमाणे व्रते यर्हि रोगाद्यापदिहापतेत् । तर्हि तस्या व्यपगमे व्रतशेषं समापयेत् ।।४७।।

वर्षव्रते त्वशक्ता स्त्री पादोनं व्रतमाचरेत् । अत्यशक्ता तदर्धं वा तदर्धं वा ततः शुचिः ।।४८।।

प्रायश्चित्तमिदं प्रोक्तं स्वपापे विदिते जनैः । रहस्ये त्वत्र वक्ष्यामि निष्कृतिं शास्त्रसम्मताम् ।।४९।।

विष्णोमूर्तिं पुरोधाय निर्निमेषविलोचना । दृढासनाजपेन्मन्त्रं मौनयुक् चतुरक्षरम् ।।५०।।

सहस्राण्यन्वहं पञ्च सा षण्मासान् जपेन्मनुम् । जपान्ते भोजनं कुर्यादेकवारं जितेन्द्रिया ।।५१।।

एकपत्नीव्रतादौ तु भ्रष्टायाः पुंसि योषितः । व्रतं यत्कथितं तच्च तदन्यत्रार्धमीरितम् ।।५२।।

अज्ञानान्मद्यपाने च तथा मांसाशने कृते । स्तैन्ये सुवर्णस्य च सा व्रतं चान्द्रायणं चरेत् ।।५३।।

प्रायश्चित्तं त्विह प्रोक्तं धर्मशास्त्रेऽस्ति वै महत् । कलौ कर्तुमशक्यं तदत एतावदीरितम् ।।५४।।

एकाहिके रन्धितेऽन्ने शाकमूलफले दले । हृते च दधिदुग्धादावेकं दिनमभोजनम् ।।५५।।

दिनद्वयं तूपवसेन्मिष्टान्ने च धृते हृते । एवमन्यत्र विज्ञोयं प्रायश्चित्तं यथोचितम् ।।५६।।

लिक्षायूकामत्कुणादिसूक्ष्मजन्तुवधे तु सा । अज्ञानतः कृते नारी कुर्यादेकमुपोषणम् ।।५७।।

मूषकादिवधे जाते क्वाप्यज्ञानात्तु साऽचरेत् । उपवासद्वयं नारी कीर्तयन्त्यभिधा हरेः ।।५८।।

उत्तरोत्तरजीवानां ज्ञात्वेत्थं महदल्पताम् । प्रायश्चित्तं तथा कुर्याद्देशकालादि वीक्ष्य च ।।५९।।

आत्मघाते कृते नारी भुक्त्वैव यमयातनाः । जायते तामसीष्वेव प्रेतसर्पादियोनिषु ।।६०।।

एकादशीनां च हरेर्जन्माहानामनापदि । उपवासानाचरणे कुर्याच्चान्द्रायणव्रतम् ।।६१।।

यतिनो वर्णिनश्चान्ने भुक्तेऽनाश्रमिणस्तथा । अज्ञानादपि कुर्वीत व्रतं चान्द्रायणं शुभम् ।।६२।।

जातिभ्रंशकरे कर्मण्यज्ञानाच्च कृते सति । चान्द्रायणं प्रकुर्वीत स्मरन्ती हरिमेव सा ।।६३।।

अज्ञानतः सकृज्जाते व्रतभङ्गे मयोदितम् । प्रायश्चित्तमिदं ज्ञोयं सर्वत्रापि न चान्यथा ।।६४।।

प्रायश्चित्तोपवासेषु भगवन्नामकीर्तनम् । दिवा रात्रौ च कर्तव्यं तेन पूर्णं फलं भवेत् ।।६५।।

प्रायश्चित्तोपवासेषु त्वेकादश्याद्युपोषणम् । गणयेन्नैव नारी च प्रायश्चित्तं प्रकुर्वती ।।६६।।

शुद्धयर्थ उपवासश्चेदेकादश्याद्युपोषणे । प्राप्तः स्यात्तर्हि तं कुर्यात्तृतीये वासरे पृथक् ।।६७।।

प्रायश्चित्तोपवासे च क्रियमाणे पुनर्यदि । आपतेदुपवासोऽन्यः कुर्यात्तन्त्रैण तं सदा ।।६८।।

प्रायश्चित्तोपवासाहे नीरतक्रेतरत्तु सा । न किञ्चिदद्याद्विधवा फलमूलाद्यपि क्वचित् ।।६९।।

व्रतभङ्गे तु या नारी प्रायश्चित्तं करिष्यति । गोलोके प्राप्स्यति सुखं सा रमायाः समं महत् ।।७०।।

न करिष्यति या त्वेतत्कुर्वन्तीं वा निषेत्स्यति । ते उभे निरयं क्षेप्ता हर्याज्ञानुसृतो यमः ।।७१।।

यमयातनया दोषे क्षीणे त्वनुचरा हरेः । ते नयिष्यन्ति गोलोकं विमानेनार्करोचिषा ।।७२।।

विष्णुभक्तिः कृतास्त्येव ताभ्यां प्रागिति ते उभे । दासीत्वं प्राप्स्यतो लक्ष्म्यास्तत्र धाम्न्यमरीप्सितम् ७३

पालयन्ती निजान्धर्मान्विष्णुभक्तिविवर्जिता । प्रायश्चित्तं चरेद्या स्त्री सा सतीलोकमाप्नुयात् ।।७४।।

प्रायश्चित्तं नाचरेद्या सा तीव्रा यमयातनाः । भुक्त्वा शुद्धा ततो याति सतीलोकं न संशयः ।।७५।।

इतीरिता विप्र ! विभर्तृकाणां धर्मा मया तच्च्युतिनिष्कृतं च ।
प्रोक्तं ब्रुवेऽथाखिलयोषितां ते साधारणं कृष्णसमर्चनं च ।।७६।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीधर्मेषु विधवाधर्मभङ्गप्रायश्चित्तनिरूपणनामा पञ्चत्रिंशोऽध्यायः ।।३५।।