चत्वारिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


वानप्रस्थान्सदा भिक्षेत्परिव्राड् सुदृढव्रतान् । ज्ञानसिद्धिमवाप्नोति तदन्नेनाशु शुद्धधीः ।।१।।

अभावे वनिनां ग्राम्यान् क्षोत्रियान्ब्राह्मणोत्तमान् । याचेदन्नं यतिस्तेषामभावेऽन्यानपि द्विजान् ।।२।।

भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितो विशेत् । इतस्ततो न वीक्षेत गृहशोभाश्च सम्पदः ।।३।।

न ग्राम्यवार्ताः शृणुयात्प्रीत्या नेक्षेत योषितः । मातृस्वसृसमा विद्यात्तास्तु भिक्षां चरन् यतिः ।।४।।

मृद्दार्वलाबुजं वापि वैणवं तान्तवौपलम् । पार्णं तार्णं तथा क्षौमं भिक्षापात्रमुदीरितम् ।।५।।

सलिलैः शुद्धिरेतेषां गोवालैश्चावर्घषणम् । धातुपात्रं तु न क्वापि स्वधर्मस्थो यतिः स्पृशेत् ।।६।।

ब्राह्मणक्षत्रियविशां गृहात् याचेत भिक्षुकः । पूर्वाभावे परं याचेद्वर्जयेन्निन्द्यकर्मणः ।।७।।

आहारशुद्धिः सर्वेषां बुद्धिशुद्धेर्हि कारणम् । वेदवेदाङ्गवेत्तापि त्याज्यो दुष्कृतकृद्विदः ।।८।।

द्विजाभावे तु सम्प्राप्त उपवासद्वये गते । भैक्षं शूद्रादपि ग्राह्यमिति मेधातिथिर्जगौ ।।९।।

कलौ तु ब्राह्मणानेव वृत्तिभेदाच्चतुर्विधान् । पूर्वाभावे परान् याचेद्विडालाग्यांस्तु न क्वचित् ।।१०।।

जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः । वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः ।।११।।

सत्यं शमो दमोऽद्रोह आनृशंस्यं कृपा घृणा । तपो भक्तिश्च यत्र स्यात्स ब्राह्मण इति स्मृतः ।।१२।।

वेदाध्यायी शस्त्रधारी दानी राज्यरुचिर्घृणी । अश्वयुद्धप्रियः शूरो धैर्यवान् क्षत्रियो द्विजः ।।१३।।

कृषिवाणिज्यगोरक्षाकुसीदाद्युपजीवनः । वेदाध्यायी च दानी च ब्राह्मणो वैश्य उच्यते ।।१४।।

सर्वभक्ष्यरतिर्नित्यं रसलाक्षादिविक्रयी । अनाचारो वेदहीनो ब्राह्मणः शूद्र उच्यते ।।१५।।

स्तेयप्रियः सदा लुब्धो दाम्भिको लोकरञ्जकः । हिंस्रकर्मरुचिर्धृर्तो बिडालः स तु कथ्यते ।।१६।।

वापीकूपसरःक्षेत्रपल्वलारामनाशकः । स्ननसन्ध्यादिहीनस्तु म्लेच्छ एव मतो द्विजः ।।१७।।

अभक्ष्यभक्षको मूढः परस्त्रीलम्पटोऽशुचिः । कार्याकार्ये न जानाति यः स विप्रः पशुर्मतः ।।१८।।

दयाहीनः प्रमादी च श्रुतिस्मृतिपथातिगः । सुरापानरतो विप्रश्चाण्डालो मांसभक्षकः ।।१९।।

बिडालादीन्वर्जयित्वाऽभिशस्तपतितांस्तथा । याचेदन्नं शुचीन्विप्रांस्त्रीन्वा पञ्चापि सप्त वा ।।२०।।

चिकित्सकं स्त्रीजितं च मृगयुं शल्यहारिणम् । कुलटां पाशिनं षण्ढं यतिर्भिक्षेन्न कर्हिचित् ।।२१।।

भिक्षा माधुकरी नामनी यतीनामुचिता द्विज ! यावतोदरपूर्तिः स्यात्तावद्बैक्षं समाचरेत् ।।२२।।

पञ्चकृत्वोऽपि वा सप्तकृत्वो लभ्येत नो यतः ।भैक्षं तद्वर्जयेग्देहं चण्डालगृहवत्सदा ।।२३।।

याचितुं न गृहं लोभात्पुनर्गच्छेत्तदेव च । अभावे त्वन्यगेहानां तग्दच्छेद्दिवसान्तरे ।।२४।।

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । कालेऽपराभूयिष्ठे नित्यं भिक्षां यतिश्चरेत् ।।२५।।

कलावयं तु नियमः प्रायिकस्तदकल्पितान् । सप्तमावधि याचेत गृहान्मध्याह्नतः परम् ।।२६।।

बह्वन्नं पच्यते यत्र मन्यन्ते यत्र मानवाः । अनुद्विग्नाः प्रयच्छन्ति तं देशं यत्नतो व्रजेत् ।।२७।।

जात्याशौचं मृताशोचं येषां तान्वर्जयेद् द्विजान् । श्राद्धमात्रं भवेद्यत्र तत्र भिक्षेन्न कर्हिचित् ।।२८।।

न पश्येद् द्वाररन्ध्रेण भिक्षालिप्सुः क्लचिद्यतिः । न कुर्याद्वै क्वचिद्धोषं न द्रावं ताडयेत्क्वचित् ।।२९

दण्डं च दक्षिणे कक्षे यतिः सन्धार्य बाहुना । धृत्वा वामकरे पात्रे पिदध्याद्दक्षपाणिना ।।३०।।

भिक्षाटनं प्रकुर्वाणो यद्यमेध्यं स्पृशेद्यतिः । सपात्रो विधिवत्स्नात्वा प्राणायामान्षडाचरेत् ।।३१।।

उदक्याशबचण्डालचौरनग्नकपालिभिः । स्पृष्टां भिक्षां त्यजेद्बिक्षुः सवासा जलमाविशेत् ।।३२।।

कुडय काष्ठे रथे मञ्चे नौकायां गजवृक्षयोः । तृणौघजलसङ्घाते न दोषः स्पर्शसम्भवः ।।३३।।

भिक्षां गृहीत्वोपावृत्तः सभैक्षं पात्रमप्सु तत् । निष्प्लाव्य शुचिदेशे च निधायाथ स्वयं शुचिः ।।३४

प्रक्षाल्य पाणिपादं च मौनी भोक्तुमुपाविशेत् । धातुः प्रकुप्यते येन तदन्नं वर्जयेद्यतिः ।।३५।।

विष्णोर्नैवेद्यमश्नीयादन्यदेवस्य वर्जयेत् । अपोशानादिविधिना भुञ्जीतामृतवन्मुनिः ।।३६।।

प्राणाहुतीः स्पृशेन्नैव दन्तोष्ठेन कदाचन । प्राश्नीयादवशिष्टं तु स्वयमौषधवद्यतिः ।।३७।।

पात्रं सव्यकरे धृत्वा प्राश्नीयाद्दक्षपाणिना । अर्धाहारं प्रकुर्वत देहो वर्तेत यावता ।।३८।।

कामदर्पादयो दोषा न बाधन्ते मिताशिनम् । एककालं सदाश्नीयान्न संगृीत भिक्षितम् ।।३९।।

अभ्यासं ब्रह्मविद्यायाः सर्वकालं समाचरेत् । एतदर्थं हि सन्न्यासो विहितोऽत्र द्विजन्मनाम् ।।४०।।

न चाददीत पाथेयं यतिः किञ्चिदनापदि । पक्वमापत्सु गृीयाद्यावद्बुञ्जीत तद्दिने ।।४१।।

एकस्यान्नं त्र्यहं चाद्यान्निरन्तरमनापदि । यदि तर्हि यतिः कुर्यात्प्राणायामान् शतं द्विज ! ।।४२।।

अनापदि पुनर्भुङ्क्ते यतिर्यस्तु प्रमादतः । तप्तकृच्छ्रं व्रतं तस्य प्रोक्तं तद्दोषशान्तये ।।४३।।

अशक्तः प्राणरक्षार्थं पुनर्मूलफलादिकम् । न दुष्येद्बक्षयन्न्यासी भेषजं दन्तधावनम् ।।४४।।

देशकालादिवैषम्याद्वृत्तिं माधुकरं यदि । कर्तुं न शक्नुयात्तर्हि भुञ्जीत गृहिवेश्मनि ।।४५।।

एककृत्यान्नशाकादि सम्प्रोक्ष्याद्बिस्तु तद्यतिः । भुञ्जीतौषधवन्मौनी वृद्धार्तौ वा पृथक्पृथक् ।।४६।।

मृत्तोयभिक्षादिपदार्थयाचने भाषेत चेद्ब्राह्मणयोषया यतिः ।
असन्निधानेऽपि नरस्य तर्ह्यसौ दुष्येन्न विप्रेन्द्र ! रहो न चेत्तदा ।।४७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे सन्न्यासधर्मेषु भैक्षविधिनिरूपणनामा चत्वारिंशोऽध्यायः ।।४०।।