श्रीनारायणमुनिरुवाच :-
चतुर्षु पुरुषार्थेषु यथा श्रेष्ठस्तुरीयकः । तथाऽश्रमेष्वपि ब्रह्मंस्तुरीयाश्रम ईरितः ।।१।।
ब्रह्मचर्याग्दृहाद्वापि वनाद्वाप्यव्रती व्रती । साग्निकोऽनग्निको वापि यो विरक्तः स सन्न्यसेत् ।।२।।
चतुर्विधोऽथ सन्न्यासी कथ्यते मुनिभिर्द्विज ! । कुटीचको बहूदश्च हंसः परमहंसकः ।।३।।
तत्र पुत्रादिक्लृप्तायां कुटयां वाऽपि गृहे वसन् । शिखोपवीतं त्रीन्दण्डान्काषायवसनो दधत् ।।४।।
स्वबन्धूनां गृहे कुर्याद्बोजनं स्वस्य वा गृहे । आत्मज्ञोऽशक्तदेहो यः स तु प्रोक्तः कुटीचकः ।।५।।
पूर्वोक्तवेष एवाथ स्वबन्धूनां गृहान्यतिः । हित्वाऽन्यत्र चरेद्बिक्षां यः स प्रोक्तो बहूदकः ।।६।।
पूर्वोक्तवेषाचारोऽपि दण्डमेकं दधाति यः । वैष्णं स त्विह प्रोक्तस्तृतीयो हंससंज्ञाकः ।।७।।
तुर्यः परमहंसाख्यो ज्ञानवैराग्यमण्डितः । एकदण्डं च वासश्च दध्यात्कश्चिन्न वा यतिः ।।८।।
सन्न्यासहेतुर्वैराग्यं यदहर्विरजेत्तदा । प्रव्रजेदिति वेदोक्तेस्तद्बेदान्कथयामि ते ।।९।।
वैराग्यं च त्रिधा मन्दं तीव्रं तीव्रतरं त्विति । मन्दे न्यासो न तिव्रे तु द्वौ द्वौ स्यातां च तत्परे ।।१०।।
पुत्रदारधनादिनां नाशे तात्कालिकी मतिः । धिक्संसारमितीदृक्स्यात् सा वैराग्यस्य मन्दता ।।११।।
अस्मिञ्जन्मनि माभूवन् पुत्रदारादयो मम । इति या सुस्थिरा बुद्धिः सा वैराग्यस्य तीव्रता ।।१२।।
पुनरावृत्तिसहितो लोको मे मास्तु कश्चन । दृढबुद्धिरिति प्रोक्तं श्रेष्ठं तीव्रतरं तत् ।।१३।।
प्रोक्तो विविदिषान्यासो ह्यपक्वज्ञानिनः खलु । दृढज्ञानवतो न्यासो विद्वत्सन्न्यास उच्यते ।।१४।।
वैराग्यं स्याद्दृढं यर्हि तदा परिव्रजेद्द्विजः । परिव्राडविरक्तस्तु भ्रष्टो भवति निश्चितम् ।।१५।।
वैराग्यमन्तरा नैव भवेदिन्द्रियनिग्रहः । तं विना न भवेत्त्यागस्तिष्ठेन्न्यासः क्व तं विना ।।१६।।
अविरक्तस्य सन्न्यासमृणापाकरणश्रुतिः । स्मृतयश्च निषेधन्ति सन्न्यसेन्नाविचार्य तत् ।।१७।।
सन्न्यस्य सहसा पश्चात्सेवेत विषयान् यदि । वैराग्याभावतो मूढः स भवेत्पतितो द्विजः ।।१८।।
सन्न्यस्य यो रसे लुब्धः स्त्रियां वा स तु यातनाः । महारौरवनाम्नीर्हि यातीत्याह यमो वचः ।।१९।।
दृश्यन्ते बहवो भ्रष्टा न्यासिनोऽत्राविरागिणः । तस्मात्सञ्जातवैराग्यः प्रसन्नः सन्न्यसेद् द्विजः ।।२०।।
चिकीर्षुर्यस्तु सन्न्यासं गुरुस्वजनभूभुजः । स आपृच्छय सिते पक्षे गृीयात्सुदिने च तम् ।।२१।।
दैवमार्षं च दिव्यं च पित्र्यं मातृकमानुषे । भौतिकं चात्मकं चेति श्राद्धान्यष्टौ स निर्वपेत् ।।२२।।
प्राजापत्यां निरुप्येष्टिमग्नीनाधाय चात्मनी । कृष्णात्मा गुर्वनुज्ञातो यथावत्प्रैषमुच्चरेत् ।।२३।।
आतुरस्य तु सन्न्यासे न विधिर्नैव च क्रिया । प्रैषमात्रं समुच्चार्य सन्न्यासं तत्र पूरयेत् ।।२४।।
यथाविध्यथ सन्न्यस्य ब्रह्मज्ञानाप्तये मुनिः । सेवेत सग्दुरुं धर्मानाश्रितः प्रयतः सदा ।।२५।।
अपरोक्षात्मानुभवो दृढवैराग्यवान् यतिः । तीर्थानि विचरेद्धर्मानाश्रितो हरिभक्तिमान् ।।२६।।
पूजितस्ताडितो वापि सुज्ञौरज्ञौश्च तेष्वपि । हर्षशोकविहीनश्च सुप्रसन्नः समश्चरेत् ।।२७।।
कौपीनयुगलं दण्डं वास आच्छादनं तथा । मृदः कमण्डलुं भिक्षापात्रं वा पादुके अपि ।।२८।।
जीर्णचीरकृतां कन्थां शीतातपनिवारणीम् । एतानि धारयेदन्यन्न सङ्गृीत भिक्षुकः ।।२९।।
कन्थां वासश्च कौपनं धारयेद्धातुरञ्जितम् । अतिवादं च पैशुन्यं हिंस्रां वाचमपि त्यजेत् ।।३०।।
वासो दध्यान्न वा दध्यान्नियमो नात्र विद्यते । मुख्यं दण्डं ज्ञानरूपं विद्याग्दौणं तु वैणवम् ।।३१।।
त्रिदण्डित्वेऽपि ये दण्डा गौणास्ते वैणवा मताः । वाक्कर्ममनसां दण्डा मुख्या ज्ञोया विचक्षणैः ।३२
वाग्दण्डे मौनमातिष्ठेत्कर्मदण्डे त्वनीहताम् । प्राणायामं मनोदण्डे यतिः सम्यगुपाश्रयेत् ।।३३।।
अध्यात्मपुस्तकं विप्रार्दत्तं गृीत भिश्रुकः । न तेभ्यो द्रव्यमादाय लेख्येद्दोषदर्शनात् ।।३४।।
असंवृत्तानि गृीयात्पत्रं पुष्पमपो मृदम् । मूलं फलं चाथ भूमौ स्वपेदक्रोधनः शुचिः ।।३५।।
शान्तामेव वदेद्वाचमपि बाणैर्हतो यतिः। दद्यान्नारायणेत्येवं प्रतिवाचं च निःस्पृहः ।।३६।।
वाङ्गमनःकायचेष्टासु न प्रमत्तो भवेत्क्वचित् । स्ननं ध्यानं तपो दानं योगं कुर्याज्जितेन्द्रियः ।।३७।।
स्ननं मनोमलत्यागो ध्यानं तत्त्वार्थनिश्चयः । इन्द्रियाणां च मनस ऐकाग्रयं परमं तपः ।।३८।।
दानं त्वभयमेवोक्तं योगो ब्रह्मात्मनोर्युजिः । तद्दाढर्यं स्याद्धरेर्भक्त्या यस्य मुक्तो भवेत्स वै ।।३९।।
न हिंस्यात्प्राणिमात्रं च वदेत्सत्यं सुनिश्चितम् । गोब्राह्मणादिहिंसादावनृतं च न दुष्यति ।।४०।।
स्तेयं वैरं मदं लोभं कौटिल्यं स्त्रीकथां शुचम् । मत्सरं च भयं तृष्णां जनस्नेहं च वर्जयेत् ।।४१।।
ज्ञानं तपोऽर्चनं दानं दहत्येव वपुश्च यः । तं प्राणहारिणं शत्रुं क्रोधं दूराच्च सन्त्यजेत् ।।४२।।
मञ्चकः शुक्लवस्त्रं च सुरापानं दिवास्वपिः । त्यक्तस्त्रीपुत्रमित्रादेः सङ्गोऽधः पातयेद्यतिम् ।।४३।।
चलन्निर्जन्तुकं देशं दृा पादं न्यसेत्सदा । न धावेच्च पिबेत्तोयं वस्त्रपूतं विवेकवान् ।।४४।।
शान्तो दान्तश्चोपरतस्तितिक्षुः श्रद्धयान्वितः । दयालुर्धैर्यवान्कर्मफलत्यागी भवेन्मुनिः ।।४५।।
व्रतोपवासनियमान् विष्णुपूजां च न त्यजेत् । सदा जपेच्च प्रणवं तदर्थं च विचारयेत् ।।४६।।
कुर्यात्तथोपनिषदां श्रवणं मननं पुनः । निदिध्यासं च तेन स्याज्ज्ञानविज्ञानवान् यतिः ।।४७।।
देहात्मनोः पृथग्रूपं पश्येत्साङ्खयेन चात्मवान् । जयेज्जिह्वोपस्थवेगमष्टधा ब्रह्मचर्यवान् ।।४८।।
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ।।४९।।
आज्ञामवाप्य स्वगुरोर्विचरेत्पृथिवीमिमाम् । सारभूतमुपासीत ज्ञानं यन्मोक्षसाधनम् ।।५०।।
पुरग्रामव्रजान्सार्थान् भिक्षार्थं प्रविशंश्चरेत् । पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ।।५१।।
नापृष्टः केनचिद्ब्रूयान्न चान्यायेन वादिनम् । विद्वानपि हि मेधावी विचरेज्जडवद्यतिः ।।५२।।
एकस्मिन्नेव न ग्रामे न चैकस्मिन्सरित्तटे । शून्यागारे न चैकस्मिन्वसेद्बहुदिनानि च ।।५३।।
पञ्चाहानि पुरे ग्रामे दिनमेकंवसेद्यतिः । सङ्गादशेषा दोषाः स्युर्मुक्तस्यापीति तं त्यजेत् ।।५४।।
सतां सङ्गस्तु कर्तव्यो ब्रह्मविद्याप्तये द्विज ! । गुरुवद्व्रतवृद्धांश्च मानयन्प्रणमेद्यतीन् ।।५५।।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । पिधाय बुद्ध्या द्वाराणि ध्यानमेव सदाभ्यसेत् ।५६
शून्येष्वेवावकाशेषु गुहासु च वने तथा । नदीनां पुलिने चापि नित्ययुक्तो वसेद्यतिः ।।५७।।
प्राग्रात्रेऽपररात्रे च मध्यरात्रे तथैव च । सन्ध्यायां च विशेषेण ध्यायेद्धरिमतन्द्रितः ।।५८।।
न संवदेत्स्त्रियं काञ्चित्पूर्वदृष्टां न च स्मरेत् । लौकिकार्थानुपनिषदन्यग्रन्थांस्तु नाभ्यसेत् ।।५९।।
वृक्षाणां जङ्गमानां च न सक्तः पालने भवेत् । विषं बीजं तैजसं च न रक्षेन्मलमूत्रवत् ।।६०।।
यत्रैकोऽपि स्वसम्बन्धी न तत्र दिवसं वसेत् । न च तत्सुखदुःखाभ्यां विक्रियां प्राप्नुयात् क्वचित् ६१
तन्नाशादिशुचाक्वापि यदि रोदिति भिक्षुकः । योजनानां शतं गत्वा तदा पापात्प्रमुच्यते ।।६२।।
वृद्धोऽपि विश्वसेनैव वृद्धायामपि योषिति । युजयते जीर्णकन्थायां जीर्णमप्यम्बरं यतः ।।६३।।
बाह्यमाभ्यान्तरं चेति द्विविधं शौचमाचरेत् । मृज्जलाभ्यां तु बाह्यं स्यान्मनःशुद्धिस्तथान्तरम् ।।६४
न लौकिकार्थासक्तः स्यात्कुर्याद्वादं च नात्मवित् । धनग्रहं न कुर्वीत न चैवान्येन कारयेत् ।।६५।।
अजिह्वः पण्डकः पंगुरन्धो बधिर एव च । मुग्धश्च यो भवेद्योगी स मुक्तः स्यान्न चेतरः ।।६६।।
इष्टं वानिष्टमश्नति यथालब्धं तु यो यतिः । ब्रूते हितं मितं सत्यं सोऽजिह्वो मृदुलं वचः ।।६७।।
जातमात्रां वा तरुणीं स्त्रियं वा शतवार्षिकीम् । निर्विकारः समं पश्येत्स यतिः पण्डको मतः ।।६८
तीर्थस्ननाय भिक्षार्थं विण्मूत्रोत्सर्जनाय वा । योजनान्नाधिका यस्य गतिः पंगुः स उच्यते ।।६९।।
तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् । चतुर्युगां भुवं त्यक्त्वा परिव्राट् सोऽनघ उच्यते ।।७०।।
शृण्वन्नपि स्तुतिं निन्दां हितं वाप्यहितं वचः । अरुन्तुन्दं वा लोकोक्तं बधिरोऽविक्रियस्तु यः ।७१
विकारहेतुसान्निध्येऽप्यविकारी जितेन्द्रियः । अज्ञावद्वर्तते यस्तु स मुग्धः प्रोच्यते यतिः ।।७२।।
नाम गोत्रं कुलं देशं श्रुतं वृत्तं बलं वयः । आत्मनः ख्यापयेन्नैव शीलं च क्वचिदात्मवित् ।।७३।।
दारवमपि नारीं न स्पृशेत्पश्येन्न चित्रिताम् । नारी धनं रसश्चेति त्रयं पातयति ध्रुवम् ।।७४।।
अनिकेतो भवेत्त्यागी बहिर्ग्रामाद्वसेद्यतिः । देवालये क्वचिद्वृक्षमूले वा विजनस्थले ।।७५।।
प्राणान्तिकभयं वापि न रात्रौ न च मध्याह्ने सन्ध्ययोर्न क्वचिद्व्रजेत् ।।७६।।
यथाऽतिपीडा न भवेत्छरीरे यथा न मृत्युः सहसाऽपतेद्वा ।
तथा परिव्राड् द्विजवर्य ! धर्मं समाचरेच्छास्त्रदृशैव पश्यन् ।।७७।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे सन्न्यासधर्मेषु प्रव्रज्याधिकारादिनिरूपणनामैकोनचत्वारिंशोऽध्यायः ।।३९।।