अष्टत्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


कुष्करत्वात्कलौ विप्र ! वर्जितस्य द्विजैरथ । वानप्रस्थाश्रमस्यापि धर्मान्बोधाय वच्मि ते ।।१।।

हित्वा गृहाश्रमं विप्रो द्वितीयादाश्रमात् परम् । तृतीय आयुषो भागे तृतीयाश्रममाश्रयेत् ।।२।।

अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च । पत्न्याः पोषण आदिश्य पुत्रं वनमुपाव्रजेत् ।।३।।

अनुकूला तपः सोढुं क्षमा च यदि सा भवेत् । सहैव तां नयेद्विद्वान्नान्यथा दुःखदत्वतः ।।४।।

ग्राम्यधर्मानभीप्सुश्च धैर्यवान्ब्रह्मचार्यपि । मृतदारो गृहस्थो वा वानप्रस्थाश्रमं श्रयेत् ।।५।।

आपृच्छय स्वगुरुं चादौ राजानं धार्मिकं ततः । सम्बन्धिनश्चाथ गृही गृीयादाश्रमान्तरम् ।।६।।

शुक्लपक्षस्य पूर्वा प्रशस्ते चोत्तरायणे । गत्वाऽरण्यं नियमवांस्तपः कुर्यात्समाहितः ।।७।।

अत्राश्रमे तपो मुख्यं द्विजदेहोचितं तु यत् । उत्साहवांस्ततो धीरस्तप एव समाश्रयेत् ।।८।।

अग्निहोत्रं च दर्शादि कर्म प्राग्वद्यथाविधि । साग्निकस्य मुनेः प्रोक्तं पश्वालम्भनमन्तरा ।।९।।

मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत् । कुर्यादग्न्यर्थमुटजं स्वयं तु निवसेद्बहिः ।।१०।।

शिलायां शर्करादौ वा शयीत सुसमाहितः । जितक्रोधश्च तत्त्वज्ञोन द्विर्भुञ्जीत कर्हिचित् ।।११।।

वर्जयेन्मधु मांसं च ब्रह्मचारी भवेत्सदा । न द्रुह्येत्सर्वभूतेभ्यो न पत्न्या सह संविशेत् ।।१२।।

अन्नैः शाकैः फलैर्वापि पञ्चयज्ञान्समाचरेत् । अम्मूलफलभिक्षाभिरर्चयेद्बिक्षुकातिथीन् ।।१३।।

वसीत वल्कलं वासस्तृणपर्णाजिनानि वा । कमण्डलुं च दण्डं च धारयेत्संयतेन्द्रियः ।।१४।।

केशान् रोमाणि श्मश्रूणि छेदयेन्न नखानपि । अङ्गलग्नं मलं चैव क्षालयेन्न च मार्जयेत् ।।१५।।

अङ्गान्यमार्जयन्स्नयात्रिकालं स्थण्डिलेशयः । न दन्तान् शोधयेन्नित्यं नासनं चालयेन्मुहुः ।।१६।।

वनाश्रमी न कुर्वीत परस्त्रीसङ्गमष्टधा । यथोपयोगं भाषेत स्वकीयां यज्ञाकर्मणि ।।१७।।

भुञ्जीत सकृदेवान्नं नीवारादि वनोद्बवम् । कपित्थबदराश्वत्थफलादीन्यपि वा मुनिः ।।१८।।

शान्तो दान्तो मृदुर्धीरो मूलकन्दफलाशनः । मुन्यन्नवर्तनो वापि खादेत्स्नेहं फलोद्बवम् ।।१९।।

आहरेत्स्वयमेवान्नमात्मनो वृत्तिहेतवे । दन्तोलूखलिको वा । स्यादश्मकुट्टाशनोऽपि वा ।।२०।।

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालजम् । अग्निपक्वमथामं वा कालपक्वमुताहरेत् ।।२१।।

सद्यःप्रक्षालको वा स्यादथवा माससञ्चयी । षण्माससञ्चयी वाब्दपर्याप्तान्नादिसङ्ग्रही ।।२२।।

सन्त्यजेदाश्विने मासि यत्किञ्चित्पूर्वसञ्चितम् । पुनः सञ्चिनुयात्सर्वं मुन्यन्नादिकमात्मना ।।२३।।

शनैः शनैः क्रमेणैव वर्धयेत्तप आत्मनः । सर्वत्यागे तु सहसा नश्येद्रत्नं वपुर्यतः ।।२४।।

तपसा शोषयेद्देहं ध्यायन् हृद्यन्वहं हरिम् । मुन्यन्नं भक्षयेदादौ फलमूलाशनस्ततः ।।२५।।

नक्ताश्येकान्तराशी च चतुर्थाहभुजिस्ततः । पञ्चमेऽहनि षष्ठे वा फलमूलाशनो भवेत् ।।२६।।

चान्द्रायणव्रती वा स्यात्पक्षभुग्वाऽथ मासभुक् । क्षीरपः फोनपो वा स्यादम्बुपो धूमपस्तथा ।।२७

ज्योत्स्नपिबश्चोष्मपश्च वायुभुक् च भवेत्क्रमात् । इत्थं तपस्यभिरतो न प्रमत्तो भवेत्क्वचित् ।।२८।।

न विश्वसेदिन्द्रियाणि प्रयतात्मा सदा भवेत् । क्षुद्रकामाप्तये मौढयादुत्सृजेन्न निजं तपः ।।२९।।

स्त्रीकथाश्रवणादौ च कुर्यादेकमुपोषणम् । ब्रह्मचर्याङ्गभङ्गे च सावधानो भवेत्सदा ।।३०।।

यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । व्रतभ्रष्टः स कुर्वीत देहान्तां तस्य निष्कृतिम् ।।३१।।

तस्य यो जायते पुत्रो न संस्पृश्यो द्विजैः स तु । वेदाधिकारहीनः स्याज्जयेत्कामं ततो वनी ।।३२।।

ग्रीष्मे सेवेत पञ्चाग्नीनासारं प्रावृषि ध्रुवम् । वानप्रस्थश्च शिशिरे तिष्ठेदाकण्ठमप्सु च ।।३३।।

यथाशक्ति तपः कुर्याद्दैहपातो यथा न वै । भवेत्स्वस्य तथा धीरो वनस्थो दम्भवर्जितः ।।३४।।

चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनिः । द्वावेकं वा यथाशक्ति न विपद्येत कृच्छ्रतः ।।३५।।

यः कण्टकाद्यै रुजति चन्दनाद्यैश्च योऽर्चति । अक्रूद्धोऽपरितुष्टश्च समः स्यादुभयोरपि ।।३६।।

अशक्तस्त्वात्मन्याधाय विचरेदग्निमत्र तु । भिक्षयेत् प्राणवृत्त्यर्थमनिकेतश्च तापसान् ।।३७।।

ग्रामादानीय वा भिक्षां शुचिब्राह्मणगेहतः । ग्रासानष्टौ च भुञ्जीत ह्यशक्तः षोडशापि वा ।।३८।।

नित्यं स्वाध्यायशीलः स्यात्सावित्रीजपतत्परः । जित्वा निद्रां तथालस्य रात्रौ ध्यानपरो भवेत् ।३९

य एतां नियतां चर्यां ब्रह्मर्षिविहितां चरेत् । स दहेदग्निवद्दोषान् जयेल्लोकांश्च दुर्जयान् ।।४०।।

अभिभूतो जरारोगैरशक्तः स्वक्रियासु यः । स हरिं हृदये ध्यायन्कुर्यादनशनादिकम् ।।४१।।

इत्थं तपः प्रकुर्वाणो मनो जित्वा वनाश्रमी । महर्लोकमवाप्नोति देहान्ते तापसेप्सितम् ।।४२।।

यो विष्णुभक्तिसहितं वानप्रस्थाश्रमे वसन् । तपः करोति स मुने ! धाम प्राप्नोति वैष्णवम् ।।४३।।

वृत्तिभेदेन कथिता वानप्रस्थाश्चतुर्विधाः । वैखानसा वालखिल्यौदुम्बराः फेनपा इति ।।४४।।

आद्यास्तत्राकृष्टपच्यैर्वर्तमानास्तपस्विनः । लब्धे नवेऽन्ने पूर्वान्नत्यागिनस्त्वपरे मताः ।।४५।।

प्रातरुत्थाय यां पूर्वं दिशं पश्यन्ति ये ततः । आहतैः फलमूलाद्यैर्जीवेयुस्ते तृतीयकाः ।।४६।।

स्वयं द्रुमेभ्यः पतितैः फलैः पुष्पैर्दलैरपि । जीवेयुर्ये ते कथिताश्चतुर्थाः फेनपा इति ।।४७।।

तपः प्रकुर्वतश्चास्य सर्वत्र स्याद्दृढे यदि । वैराग्यं तर्हि सन्न्यासो विहितस्तुर्य आश्रमः ।।४८।।

धर्मोस्तृतीयाश्रमिणो मयैते समासतो विप्रवरोदितास्तं ।
अथो तुरीयाश्रमिणोऽपि धर्मान् स्मृतिप्रसिद्धान् कथयामि सर्वान् ।।४९।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे वानप्रस्थाश्रमधर्मेनिरूपणनामाऽष्टत्रिंशोऽध्यायः ।।३८।।